विष्णुधर्मोत्तरपुराणम् · अध्याय 1.53
राम उवाच ॥
वराहं नरसिंहं च वामनं च महेश्वर॥
त्वत्तोऽहं श्रोतुमिच्छामि प्रादुर्भावान्महात्मनः
शङ्कर उवाच॥
अदितिश्च दितिश्चैव द्वे भार्ये कश्यपस्य च ॥
अदितिर्जनयामास देवानिन्द्रपुरोगमान्
दितिश्च जनयामास द्वौ पुत्रौ भीमविक्रमौ ॥
हिरण्याक्षं दुराधर्षं हिरण्यकशिपुं तथा
ततोऽभिषिक्तवाञ्छक्रं देवराज्ये प्रजापतिः ॥
दानवानां तथा राज्ये हिरण्याक्षं बलोत्कटम्
अभिषिच्य तयोः प्रादात्स्वर्गं पातालमेव च॥
पातालं शासति तथा हिरण्याक्षे महासुरे
धराधारा धरां त्यक्त्वा खमुत्पेतू रयात्पुरा॥
पक्षवन्तो महाभाग नूनं भाव्यर्थचोदिताः ॥
धराधरपरित्यक्ता धरा चलनिबन्धना ॥
यदा तदा दैत्यपुरं सकलं व्याप्तमम्भसा
दृष्ट्वैव स्वपुरं व्याप्तमम्भसा दितिजोत्तमः ॥
सैन्यमुद्योजयामास जातशङ्कः सुरान्प्रति
उद्युक्तेन स सैन्येन दैत्यानां चतुरंगिणा ॥
विजित्य त्रिदशाञ्जन्ये आजहार त्रिविष्टपम् ॥
हृताधिकारास्त्रिदशा जग्मुः शरणमञ्जसा ॥
देवराजं पुरस्कृत्य वासुदेवमजं विभुम्
त्रिदशाञ्छरणं प्राप्ता न्हिरण्याक्षविवासितान्॥
संयोज्याऽभयदानेन विससर्ज जनार्दनः
विसृज्य त्रिदशान्सर्वाञ्चिन्तयामास केशवः ॥
किन्नु रूपमहं कृत्वा घातयिष्ये सुरार्दनम्
तिर्यङ्मनुष्यदेवानामवध्यः स सुरान्तकः ॥
ब्रह्मणो वरदानेन तस्मात्तस्य वधेप्सया
नृवराहो भविष्यामि न देवो न च मानुषः ॥
तिर्यग्रूपेण चैवाहं घातयिष्यामि तं ततः
एतावदुक्त्वा संगेन नृवराहोऽभवत्प्रभुः ॥
चूर्णिताञ्जनशैलाभस्तप्त जाम्बूनदाम्बरः
यमुनावर्त्तकृष्णाङ्गः तदावर्ततनूरुहः ॥
तदोघ इव दुर्वार्य्यस्तत्पित्रा तेजसा समः
तत्प्रवाह इवाक्षोभ्यस्त त्प्रवाह इवौघवान् ॥
तत्प्रवाहामलतनुस्तत्प्रवाहमनोहरः
सजलाञ्जनकृष्णाङ्गः सजलाम्बुदसच्छविः ॥
पीतवासास्तदा भाति सवि द्युदिव तोयदः
उरसा धारयन्हारं शशाङ्कसदृशच्छविः ॥
शुशुभे सर्वभूतात्मा सबलाक इवाम्बुदः
शशाङ्कलेखाविमले दंष्ट्रे तस्य विरेजतुः ॥
मेघान्तरितबिम्बस्य द्वौ भागौ शशिनो यथा
कराभ्यां धारयन्भाति शङ्खचक्रे जनार्दनः ।
चन्द्रार्कसदृशे राम पादचारीव पर्वतः
महाजीमूतसंकाशो महाजीमूतसन्निभः ॥
महजीमूतवद्वेगी महाबलपराक्रमः
दानवेन्द्रवधाकाङ्क्षी हिरण्याक्षसभां ययौ ॥
हिरण्याक्षोऽपि तं दृष्ट्वा नृवराहं जनार्दनम्
दानवाँश्चोदयामास तिर्यग्जातमपूर्वकम् ॥
गृह्यतां वध्यतां चैव क्रीडार्थं स्थाप्यतां तथा
इत्येवमुक्तः संरब्धः पाशहस्ताँस्तु दानवान् ॥
जिघृक्षमाणांश्चक्रेण जघान शतशो रणे
हन्यमानेषु दैत्येषु हिरण्याक्षोऽथ दानवान् ॥
चोदयामास संरब्धान्वराहाधिककारणात्
चोदिता दानवेन्द्रेण दान वा शस्त्रपाणयः ॥
प्रववर्षुस्तथा देवं शस्त्रवर्षेण केशवम्
दैत्याः शस्त्रनिपातेन देवदेवस्य चक्रिणः ॥
नैव शेकुर्वृथा कर्तुं यत्नवन्तोऽपि निर्भयाः
हन्यमानोऽपि दैत्येन्द्रैर्दानवान्मधुसूदनः॥
जघान चक्रेण तदा शतशोऽथ सहस्रशः
हन्यमानेषु सैन्येषु हिरण्याक्षः स्वयं ततः ॥
उत्थाय धनुषा देवं प्रववर्ष सुरोत्तमम्
हिरण्याक्षस्तु तान्दृष्ट्वा विफलाँश्च शिली मुखान् ॥
शिलीमुखाभान्संपश्यन्समपश्यन्महद्भयम्
ततोऽस्त्रैर्युयुधे तेन देवदेवेन चक्रिणा ॥
तान्यस्य फलहीनानि चकार भगवान् स्वयम्
ततो गदां काञ्चनपट्टनद्धां विभूषितां किंकिणिजालसंघैः ॥
चिक्षेप दैत्याधिपतिः स घोरां तां चाऽपि देवो विफलीचकार
शक्तिं ततः पट्टविनद्धमध्यामुल्कानलाभां तपनीयचित्राम् ॥
चिक्षेप दैत्यस्स वराहकाये हुङ्कारदग्धा निपपात सा च॥
ततस्त्रिशूलं ज्वलिताग्रशूलं स शीघ्रगं देवगणस्य संख्ये ॥
दैत्याधिपस्तस्य सजर्ज वेगादवेक्षितः सोऽपि जगाम भूमिम्
शङ्खस्वनेनाऽपि जनार्दनश्च विद्राव्य दैत्यान्सकलान्महात्मा ॥
सकुण्डलं दैत्यगणाधिपस्य चिच्छेद चक्रेण शिरः प्रसह्य
निपातिते दैत्यपतौ स देवः संपूजितः शक्रपितामहाभ्याम् ॥
मया च सर्वैस्त्रिदशैः समेतैजर्गाम काष्ठां मनसा त्वभीष्टाम्
शक्रोपि लब्ध्वा त्रिदिवं महात्मा चिच्छेद पक्षान्धरणीधराणाम् ॥
ररक्ष चेमां सकलां त्रिलोकीं धर्मेण धर्मज्ञभृतां वरिष्ठः
॥
इति श्रीविष्णुधर्म्मोत्तरे प्रथमखण्डे मार्कण्डेय वज्रसंवादे शङ्करगीतासु नृवराहप्रादुर्भावे हिरण्याक्षवधो नाम त्रिपञ्चाशत्तमोऽध्यायः
मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0