भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 1.52

1.52.1

॥ शंकर उवाच ॥
त्वदुक्तोयमनुप्रश्नो राम राजीवलोचन ॥
त्वमेकः श्रोतुमर्होऽसि मत्तो भृगुकुलोद्वह

1.52.2

यत्तत्परमकं धाम मम भार्गवनन्दन ॥
यत्तदक्षरमव्यक्तं परं यस्मान्न विद्यते ॥
ज्ञानज्ञेयं ज्ञानगम्यं हृदि सर्वस्य चाश्रितम्

1.52.3

त्वामहं पुण्डरीकाक्षं चिन्तयामि जनार्दनम् ॥
एतद्राम रहस्यं ते यथावत्कथितं वचः

1.52.4

ये भक्तास्तमजं देवं न ते यान्ति पराभवम् ॥
तमीशमजमव्यक्तं सर्वभूतपरायणम्

1.52.5

नारायणमनिर्देश्यं जगत्कारणकारणम् ॥
सर्वतः पाणिपादन्तं सर्वतोऽक्षिशिरोमुखम्

1.52.6

सर्वतः श्रुतिमाँल्लोके सर्वमावृत्य तिष्ठति ॥
सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम्

1.52.7

असक्तं सर्वतश्चैव निर्गुणं गुणभोक्तृ च ॥
बहिरन्तश्च भूतानामचरश्चर एव च

1.52.8

सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिकं च यत् ॥
अविभक्तं विभक्तेषु विभक्तमिव च स्थितम्

1.52.9

भूतवर्तिं च तज्ज्ञेयं ग्रशिष्णु प्रभविष्णु च ॥
ज्योतिषामपि तज्ज्योतिः तमसां परमुच्यते

1.52.1.52.10

अनादिमत्परं ब्रह्म न सत्तन्नाऽसदुच्यते ॥
प्रकृतिर्विकृतिर्योऽसौ जगतां भूतभावनः

1.52.11

यस्मात्परतरं नास्ति तं देवं चिन्तयाम्यहम् ॥
इच्छामात्रमिदं सर्वं त्रैलोक्यं सचराचरम्

1.52.12

यस्य देवादिदेवस्य तं देवं चिन्तयाम्यहम् ॥
यस्मिन्सर्वं यतः सर्वं यः सर्वं सर्वतश्च यः

1.52.13

यश्च सर्वमयो नित्यस्तं देवं चिन्तयाम्यहम् ॥
योगीश्वरं पद्मनाभं विष्णुं जिष्णुं जगत्पतिम्

1.52.14

जगन्नाथं विशालाक्षं चिन्तयामि जगद्गुरुम् ॥
शुचिं शुचिपदं हंसं तत्परं परमेष्ठिनम्

1.52.15

युक्ता सर्वात्मनाऽऽत्मानं तं प्रपद्ये प्रजापतिम् ॥
यस्मिन्विश्वानि भूतानि तिष्ठन्ति च विशन्ति च

1.52.16

गुणभूतानि भूतेशे सूत्रे मणिगणा इव ॥
यस्मिन्नित्ये तते तन्तौ दृष्टे खगिव तिष्ठति

1.52.17

सदसद्ग्रथितं विश्वं विश्वांगे विश्वकर्मणि ॥
हरिं सहस्रशिरसं सहस्रचरणेक्षणम्

1.52.18

प्राहुर्नारायणं देवं यं विश्वस्य परायणम् ॥
अणीयसामणीयांसं स्थविष्ठञ्च स्थवीयसाम्

1.52.19

गरीयसां गरिष्ठञ्च श्रेष्ठञ्च श्रेयसामपि ॥
यं वाकेष्वनुवाकेषु निषत्सूपनिषत्स्वपि

1.52.1.52.20

गृणन्ति सत्यकर्माणं सत्यं सत्येषु सामसु ॥
चतुर्भिश्चतुरात्मानं सत्त्वस्थं सात्त्वतां पतिम्

1.52.21

यं दिव्यैर्देवमर्चन्ति गुह्यैः परमनामभिः ॥
यमनन्यो व्यपेताशीरात्मानं वीतकल्मषम्

1.52.22

इष्ट्वानन्त्याय गोविन्दं पश्यत्यात्मन्यवस्थितम् ॥
पुराणः पुरुषः प्रोक्तो ब्रह्मा प्रोक्तो युगादिषु

1.52.23

क्षये संकर्षणः प्रोक्तस्तमुपास्यमुपास्महे ॥
यमेकं बहुधात्मानं प्रादुर्भूतमधोक्षजम्

1.52.24

नान्यभक्ताः क्रियावन्तो यजन्ते सर्वकामदम् ॥
यमाहुर्जगतां कोशं यस्मिन्सन्निहिताः प्रजाः

1.52.25

यस्मिंल्लोकाः स्फुरन्तीमे जाले शकुनयो यथा ॥
ऋतमेकाक्षरं ब्रह्म यत्तत्सदसतः परम्

1.52.26

अनादिमध्यपर्यन्तं न देवा नर्षयो विदुः ॥
यं सुरासुरगन्धर्वास्संसिद्धर्षिमहोरगाः

1.52.27

प्रयता नित्यमर्चन्ति परमं दुःखभेषजम् ॥
अनादिनिधनं देवमात्मयोनिं सनातनम्

1.52.28

अप्रतर्क्यमविज्ञेयं हरिं नारायणं प्रभुम् ॥
अतिवाय्विन्द्रकर्माणं चाऽतिसूर्याग्नितेजसम्

1.52.29

अतिबुद्धीन्द्रियग्रामं तं प्रपद्ये प्रजापतिम् ॥
यं वै विश्वस्य कर्त्तारं जगतस्तस्थुषां पतिम्

1.52.1.52.30

वदन्ति जगतोऽध्यक्षमक्षरं परमं पदम् ॥
यस्याग्निरास्यं द्यौर्मूर्धा खं नाभिश्चरणौ क्षितिः

1.52.31

चन्द्रादित्यौ च नयने तं देवं चिन्तयाम्यहम् ॥
यस्य त्रिलोकी जठरे यस्य काष्ठाश्च वाहनाः

1.52.32

यस्य श्वासश्च पवनस्तं देवं चिन्तयाम्यहम् ॥
विषये वर्तमानानां यं तं वैशेषिकैर्गुणैः

1.52.33

प्राहुर्विषयगोप्तारं तं देवं चिन्तयाम्यहम् ॥
परः कालात्परो यज्ञात्परस्सदसतश्च यः

1.52.34

अनादिरादिर्विश्वस्य तं देवं चिन्तयाम्यहम् ॥
पद्भ्यां यस्य क्षितिर्जाता श्रोत्राभ्याञ्च तथा दिशः

1.52.35

पूर्वभागे दिवं यस्य तं देवं चिन्तयाम्यहम्॥
नाभ्यां यस्यान्तरिक्षस्य नासाभ्यां पवनस्य च

1.52.36

प्रस्वेदादम्भसां जन्म तं देवं चिन्तयाम्यहम्

1.52.37

वराहशीर्षं नरसिंहरूपं देवेश्वरं वामनरूपरूपम्॥
त्रैलोक्यनाथं वरदं वरेण्यं तं राम नित्यं मनसा नतोऽस्मि

1.52.38

वाक्त्राद्यस्य ब्राह्मणास्संप्रसूता यद्वक्षसः क्षत्रियाः संप्रसूताः ॥
यस्योरुयुग्माच्च तथैव वैश्याः पद्भ्यां तथा यस्य शूद्राः प्रसूताः

1.52.39

व्याप्तं तथा येन जगत्समग्रं विभूतिभिर्भूतभवोद्भवेन ॥
देवाधिनाथं वरदं वरेण्यं तं राम नित्यं मनसा नतोऽस्मि

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे श्रीभार्गवरामप्रश्ने शङ्करगीतासु ध्येयनिर्देशोनाम द्विपञ्चाशत्तमोऽध्यायः५२।

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc