विष्णुधर्मोत्तरपुराणम् · अध्याय 1.51
॥मार्कण्डेय उवाच॥
कैलासशिखरे रम्ये नानाधातुविचित्रिते ॥
नानाद्रुमलताकीर्णे नानापक्षिनिनादिते
गंगानिर्झरसंजाते सततं चारुनिस्वने ॥
देवदेवं महादेवं पर्यपृच्छत भार्गवः
राम उवाच ॥
देवदेव महादेव गंगालुलित मूर्द्धज ॥
शशांकलेखासंयुक्त जटाभारातिभास्वर
पार्वतीदत्तदेहार्ध कामकालाङ्गनाशन ॥
भगनेत्रान्तकाचिन्त्य पूष्णो दशनशातन ॥
त्वत्तः परतरं देवं नाऽन्यं पश्यामि कञ्चन ॥
पूजयन्ति सदा लिंगं तव देवाः सवासवाः
स्तुवन्ति त्वामृषिगणा ध्यायन्ति च मुहुर्मुहुः ॥
पूजयन्ति तथा भक्त्या वरदं परमेश्वर
जगतोऽस्य समुत्पत्तिस्थितिसंहारपालने ॥
त्वामेकं कारणं मन्ये त्वयि सर्वं प्रतिष्ठितम्
कं त्वं ध्यायसि देवेश तत्र मे संशयो महान् ॥
आचक्ष्व तन्मे भगवन्यद्यनुग्राह्यता मयि
प्रसादसांमुख्यतया मयैतद्विस्रम्भमासाद्य जगत्प्रधान ॥
भवन्तमीड्यं प्रणिपत्य मूर्ध्ना पृच्छामि संजातकुतूहलात्मा
इति श्रीविष्णुधर्म्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे परशुरामोपाख्याने शंकरगीतासु रामप्रश्नो नामैकपञ्चाशत्तमोऽध्यायः
मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0