भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 1.47

1.47.1

मार्कण्डेय उवाच ॥
वह्निज्वालाग्रवर्णेन जटाजूटेन राजितम् ॥
गगनार्द्धमिवाऽऽरूढं निदाघे रविमण्डलम्

1.47.2

आधारं सर्वदेवानां तपसा द्योतितप्रभम् ॥
सेवमानमवसनं पीतगात्रमरिन्दमम्

1.47.3

एकमेकाकिनं वीरं सहस्रशतमण्डितम् ॥
पिण्डितं सकलं धाम ब्रह्मक्षत्रियतेजसाम्

1.47.4

कृष्णाजिनोत्तरासङ्गभ्राजमानं बलोद्धतम् ॥
स्निग्धया रञ्जितमिव प्रायेण पार्वतीदृशा

1.47.5

विराजमानं दोर्दण्डरुक्मदण्डेन भास्वता॥
परश्वधेन तीक्ष्णेन विमलाकाशवर्चसा

1.47.6

तपस्विनमनादृश्यं यमकालान्तकोपमम् ॥
कम्पमानं पदन्यासैर्वसुधां सकलां तथा

1.47.7

मुष्णन्तं सर्वतेजांसि प्रभाते रविमण्डलम्॥
प्रांशुं कनकवर्णाङ्गं सितयज्ञोपवीतिनम्

1.47.8

गङ्गायाः प्रवहेणैव मेरुशृंगं विराजितम्॥
तेजसा दहनाकारं प्रजासंहारकारकम्

1.47.9

विषमं प्रमथेशस्य तृतीयमिव लोचनम् ॥
अप्रसह्यमनावार्यं दुर्लङ्घ्यं जीवितच्छिदम्

1.47.1.47.10

कालेनेव भुजं सव्यं दैत्यहेतोः प्रसारितम् ॥
रामे दृष्टिपथं प्राप्ते दानवानां समन्ततः

1.47.11

हाहाकारो महानासीत्तमेकं निघ्नतां रणे ॥
शस्त्रधारणविभ्रष्टब्राह्मण्यं स्वपथाच्च्युतम्

1.47.12

घातयध्वं दुराचारमेनमूचुः परस्परम् ॥
एवमाद्रवतां तेषां बहूनामाततायिनाम्

1.47.13

जग्राह वेगं सर्वेषां मरुतामिव पर्वतः ॥
स हन्यमानो नाराचैस्तोमरैर्मुशलैस्तथा

1.47.14

गदाभिरसिभिः पाशैर्भुशुण्डीभिरयोगुडैः ॥
पट्टिशैर्भिन्दिपालैश्च हुतैः शूलैः परश्वधैः

1.47.15

न विव्यथे ह्यमेयात्मा धराधर इवाऽनिलैः

1.47.16

संवेष्टितं सर्वत एव सैन्यैरदृष्टयुद्धोऽपि रणे महात्मा॥
दैत्यार्णवं गोष्पदतुल्यमात्रममन्यताऽऽजौ रणचण्डवेगः

1.47.47

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे युद्धे भार्गवरामदर्शनं नाम सप्तचत्वारिंशत्तमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc