भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 1.46

1.46.1

मार्कण्डेय उवाच ॥
व्यस्पन्दताऽथ साल्वस्य राजन्बाहुरदक्षिणः ॥
हदयञ्च तथा पृष्ठं नयनञ्चाप्य दक्षिणम्

1.46.2

शून्यचित्तश्च विमनाः कम्पते च मुहुर्मुहुः ।
पपात नायकश्चाऽपि किरीटात्तारकप्रभः

1.46.3

आक्रमन्ति गजाः पादं तथा वामेन दक्षिणम् ॥
करेण वेष्टयन्ति स्म तथा दन्तमदक्षिणम् ॥
मदं त्यजन्ति ये मत्तास्तुरगाश्च मुहुर्मुहुः

1.46.4

संस्पृशन्ति तथा वामं पार्श्वं प्रोथेन वामुना॥
वृकाः शृगालाः शार्दूला विडाला गर्दभाः शशाः

1.46.5

वामीभूत्वा दानवानां यान्ति दक्षिणतस्ततः ॥
एणा वराहाः पृषतो यान्ति तेषाञ्च वामतः

1.46.7

दीप्तायां दिशि वाशन्ति मृगास्तेषामपस्वनम् ॥
तैलपङ्कगुडाङ्गारचर्मकेशतृणानि च।६॥
दानवानां प्रयातानां संभवन्त्यग्रतस्तथा ॥
एवंविधा दुर्निमित्ता जाताः साल्वस्य पश्यतः

1.46.9

मतिः सुनिश्चितैवाऽऽसीन्मरणं प्रति यादव ॥
स ययौ सह सैन्येन महता चतुरङ्गिणा॥।
कैलासपर्वतं योद्धुं महादेवेन शूलिना

1.46.1.46.10

युद्धोत्सुके दैत्यपतौ प्रयाते व्यदृश्यताग्रेचरचण्डवेगः ॥
रामः प्रवालारुणकोमलेन दीप्तप्रतापेन विराजमानः

1.46.46

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे साल्वसेनादुर्निमित्तदर्शनं नाम षट्चत्वारिंशत्तमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc