विष्णुधर्मोत्तरपुराणम् · अध्याय 1.261.265
1.261
मार्कण्डेय उवाच ॥
निशावसाने गन्धर्वाः कृत्वा व्यूहं सुदुर्जयम् ॥
संप्रतीक्ष्यन्त भरतमायान्तं रणकोविदम्
भरतोऽपि च रात्र्यन्ते वज्रव्यूहेन दंशितः ॥
आससाद महत्सैन्यं गन्धर्वाणां सुदुर्जयम् ।
ततः प्रववृते युद्धं यमराष्ट्रविवर्द्धनम्॥
देवासुरसमप्रख्यं त्रैलोक्यभयकारकम
पत्तीनां पत्तिभिः सार्धं सादिनां चैव सादिभिः ॥
रथिनां रथिभिश्चैव कुञ्जराणां च कुञ्जरैः
भाषतां नामगोत्राणि शूराणां चैव गर्जताम् ॥
धनुषां कूजतां चैव शब्दः समभवत्तदा
ततः प्रवृत्ते संग्रामे भारतिः पुष्करो रणे ॥
आससाद विशालाक्षं गन्धर्वं रणगर्वितम्
तक्षश्च भारतिः श्रीमान्युयुधे वीरबाहुना ॥
सेनानीर्विजयः श्रीमान्नमुचिश्च तमागतः
भूमन्युः कौरवः श्रीमान्कामपालेन संगतः ॥
किरातराजो दमनश्चन्द्रापीडेन संगतः
प्रभद्रकेण शिबिना तथैवाजिकरो रणे ॥
महोदयः मुनिर्देशो हरिकेशेन संगतः
त्रैगर्तो वसुदानश्च सूर्यरश्मिश्च संगतौ ॥
गन्धर्वः कुमुदापीडः कुलूताधिपतिर्जयः
चक्रतुस्तुमुलं युद्धं देवासुरसमं तदा ॥
दाशेरकस्तथा राजा यवनो वाशनः परः
एकलव्यश्च संग्रामे तेनासीत्सुमहात्मना ॥
कुमुदः शोणिमा शूरो बलबन्धुः सुयोधनः
गन्धर्वैः पञ्चभिः पञ्च पार्वतीयाः समागताः ॥
बलाकाबलकाभ्यां तु गदिना मौलिना तथा
कुमुदेन तु वीरेण सदसीष्वनिवर्त्तिना ॥
मद्रराजोंऽशुमान्नाम चतुर्भिः संगतो रणे
भीमनादमहानादवसुषेणगजाकरैः ॥
दार्वः श्रुतञ्जनः श्रीमानभिमानः कृतञ्जयः
युद्धं तौ चक्रतुर्घोरं सहितौ चन्द्रवर्मणा॥
काश्मीरकः सुबाहुश्च गन्धर्वेण सुबाहुना
चकार तुमुलं युद्धं भीरूणां भयवर्द्धनम् ॥
भरतस्यापरं योधा गन्धर्वैभीमविक्रमैः
समागतास्तदा युद्धे शतशोऽथ सहस्रशः ॥
भरतश्च महातेजाः शैलूषेण समागतः
चकार तुमुलं युद्धं सर्वभूतभयङ्करम् ॥
पर्वताभेन नागेन त्रिधा प्रस्रवता मदम्
बाधमानमरीन्संख्ये महेन्द्रमिव दानवान् ॥
विशालो वरयामास रथेनाभ्येत्य पुष्करम्
बाणौघेन रणे भित्त्वा वेगं पुष्करदन्तिनः ॥
पुष्करं ताडयामास नाराचैर्बहुभिस्तदा
रिपुभिस्ताड्यमानस्तु भारतिर्भीमविक्रमः ॥
ववर्ष शरसंघातैर्विशालं सेनया सह
पुष्करस्य विशालोऽथ मध्ये चिच्छेद कार्मुकम् ॥
छिन्नधन्वा विशालस्य स जघानाथ सारथिम्
आक्रम्य योधयामास विशालस्य महारथम् ॥
यदा रणे महाराज पुष्करस्य रथोत्तमम्
हन्तुं स रथमुत्सृज्य विशालोपि महीपतेः ॥
गदया योधयामास पुष्करस्य तु वारणम्
पुष्करोऽपि गदापाणिर्विशालाभिमुखं ययौ ॥
गदाभिस्तौ ततो वीरौ परस्परजिगीषया
सव्यदक्षिणतस्तत्र मण्डलानि विचेरतुः ॥
प्रजह्रतुस्तथान्योन्यमन्योन्यस्य वधैषिणौ
पुष्करेण रणे योगाद्विशालस्य गदा हता ॥
मुमोच पावकं तीक्ष्णं सस्फुलिङ्गं महीपते
विशालेन ततो युद्धे गदया पुष्करो हतः ॥
हिमवत्सन्निकाशस्तु न चचाल पदात्पदम्
पुष्करेण महाराज विशालो गदया हतः ॥
ततः शैलूषवचनान्महामात्रप्रचोदितम्
आरुरोह महानागं विशालो रणदर्पितः ॥
आरुरोह रथं श्रीमान्गन्धर्वस्य च पुष्करः
तावेकरथमारूढो तदा राजेन्द्रपुष्करौ ॥
निजघ्नतुर्विशालस्य संग्रामे वरवारणम्
यस्यावर्जि तन् स्य कुञ्जरान्निपतिष्यतः ॥
चिच्छेदाथ विशालस्य शिरो ज्वलितकुण्डलम्
हत्वा विशालं संग्रामे रथमारुह्य चापरम् ॥
छादयामास तत्सैन्यं गन्धर्वाणां शरोत्करैः
विशालं निहतं दृष्ट्वा रुहः परमकोपनः ॥
सादी जघान प्रासेन गान्धारं रणगर्वितम्
तस्य चिच्छेद गान्धारः सप्रासं तु भुजद्वयम् ॥
शिरश्च सशिरस्त्राणं क्षुरप्रेण महीपते
तक्षो रथेन शुभ्रेण किङ्किणीजालमालिना ॥
आससाद महाबाहुं वीरबाहुं रणाजिरे
एकच्छाय इवाकाशस्तयोरासीच्छरोत्करैः ॥
न वाति पवनस्तत्र न विभ्राजति भास्करः
तक्षः सपुङ्खमाकृष्य बाणं भास्करप्रभम् ॥
चिच्छेद सारथेस्तस्य शिरो ज्वलितकुण्डलम्
निर्यन्तृणा रथेनासौ समरादपवाहितः ॥
तस्मिन्रणाजिरान्नीते तक्षं कुञ्जरधूर्गतः
आजगाम महाराज गन्धर्वस्तु सुदर्शनः ॥
तस्यापतितमात्रस्य शरेण नतपर्वणा
चिच्छेद नागमूर्धानं भारतिर्भीमविक्रमः ॥
सेनानीर्विजयः श्रीमान्नमुचिश्च समागतौ
सारथिं तुरगान्केतुमदृश्यं चक्रतुः शरैः ॥
अन्योऽन्यस्य महाराज समरे भीमविक्रमौ
चतुर्भिः सायकैर्हत्वा नमुचेः स तुरङ्गमान् ॥
पञ्चमेन शिरः कायाज्जहार रथसारथेः
नमुचिर्विरथः खड्गमादाय परवीरहा ॥
जगामाभिमुखस्तूर्णं सेनापतिमरिन्दम
वेगेनापततस्तस्य चक्रमादाय भास्वरम् ॥
विवृत्ताक्षन्तु चिच्छेद तस्य मूर्धानमञ्जसा
भूमन्युः कामपालश्च चक्रतुर्युद्धमुत्तमम ॥
यथा देवासुरे युद्धे बलशक्रौ महाबली
तावुभौ कुञ्जरारूढौ परस्पग्वधैषिणौ ॥
तोमरैश्चक्रतुर्युद्धं सूर्यांशुसदृशप्रभैः
युध्यतामेव तेषां तु भूमन्युर्वरवारणः ॥
पार्श्वे जघान दन्ताभ्यां कामपालस्य वारणम्
सहितस्तेन नागेन कृत्वा रावं भयानकम्
आसीत्पराङ्मुखो युद्धे वर्त्तमानः स्वकं बलम् ॥
कामपालं रणे जित्वा भूमन्युर्भीमविक्रमः
गन्धर्वसेनां सहसा जघान निशितैः शरैः ॥
किरातराजो दमनश्चन्द्रापीडश्च संगतौ
चक्रतुस्तुमुलं युद्धं समरे रथधूर्गतो ॥
चन्द्रापीडशरव्रातनिहतौ पार्ष्णिसारथी
किरातराजस्तुरगाणां स्वयं रश्मिग्रहोऽभवत् ॥
विव्याध स शरव्रातैश्चन्द्रापीडं रणे तदा
चन्द्रापीडशरव्रातैः कृतापीडो रणाजिरे ॥
जघान तुरगास्तस्य दमनस्य महीपतेः
शक्त्या वेगाच्च विव्याध तदा तं भीमविक्रमम् ॥
शक्त्या विभिन्नहृदयः पपात वसुधातले
जघान भारतं सैन्यं चन्द्रापीडोऽपि सायकैः ॥
आरोप्य स्वरथे वीरं मधुमान्दमनं तथा
चकार विरुजं शीघ्रमव्रणं च महौषधैः ॥
युयुधे च निकुम्भेन मत्स्यराट् सरथस्तथा
रथस्थितौ महावीरौ वरचापमहाकरौ ॥
अन्योऽन्यं शरवर्षेण छादयेतां घनाविव
सुरथस्तु निकुम्भस्य शरेण नतपर्वणा ॥
चापमृष्टौ प्रचिच्छेद भुजदंडं तथाहवे
निकुम्भोऽपि प्रचिच्छेद सुरथस्य तु कार्मुकम् ॥
तावन्ये धनुषी सज्ये कृत्वा वीरौ परस्परम्
छादयेतां तथान्योऽन्यं वीरौ सायकवृष्टिभिः ॥
अन्योऽन्यस्य हयान्हत्वा चिच्छेद धनुषी ततः
हयान्रथाभ्यां कालस्य निर्जित्यावशमोजसा ॥
धनुषो मध्यभागे तु अन्योऽन्यस्य न्यकृन्तताम्
विरथावसियुद्धाय चक्रतुर्यत्नमुत्तमम् ॥
आदाय विपुलं चर्म शतचन्द्रं च भास्वरम्
आदधाते खङ्गवरावन्योऽन्यवधकांक्षिणौ ॥
खड्गमाकाशसदृशमन्योऽन्यं प्रविजघ्नतुः
मण्डलानि विचित्राणि गतप्रत्यागतानि च ॥
कैशिकानि तु मार्गाणि दर्शयामासतुस्तदा
भ्रान्तमुद्भ्रान्तमाविद्धमाप्लुतं विसृतं सृतम् ॥
संपातसमुदीर्णं च खड्गवर्मविदारणम
ईक्षितृप्रीतिजननं युद्धमासीत्तयोस्तदा ॥
कृत्वा तौ सुचिरं युद्धं परस्पररणे हतौ
जग्मतुर्वसुधां वेगाच्छक्रचापसमावुभौ ॥
ततः स्वरथमारोप्य सुरथो रथिवर्धनः
तस्माद्देशादपोवाह्य सर्वसैन्यस्य पश्यतः ॥
निकुम्भे चाथ समरे सुरथेन तदा रुषा
गोवासनेन साल्वेन त्वरमाणः समागतः ॥
बाणजालेन समरे चक्रुर्युद्धं सुभैरवम्
तावुभौ रथगौ वीरौ रेजतुर्दिव्यधन्विनौ ॥
ततक्षतुः शरव्रातैस्तदान्योऽन्यं तथान्वितौ
अन्योन्यस्य हयान्हत्वा छित्त्वा च धनुषी तथा॥
विरथौ चक्रतुर्युद्धं गदाभिरितरेतरम्
विचेरतुस्तौ संग्रामे गदाहस्तौ मदोद्धतौ ॥
वासितार्थे वने मत्तौ कुञ्जराविव यूथपौ
सुचिरं तौ तदा युद्धं कृत्वा व्यायामकर्षितौ ॥
प्रहारवरसंतप्तौ जग्मतुर्वसुधातलम्
विह्वलौ रथयोः कृत्वा नीतौ तौ स्वस्वसैनिकैः ॥
विरुजौ च कृतौ भूयो रणशीर्षमुपागतौ
प्रभद्रकश्च संग्रामं चकाराजगरेण ह ॥
ईक्षितृप्रीतिजननशरसंछादिताम्बरम
सुमुखे वर्त्तमानस्य तदा गजाप्रभद्रकः ॥
चिच्छेदाजगरस्याजौ शिरो ज्वलितकुण्डलम्
महोदयः कुणिदेशो हरिकेशस्य संयुगे ॥
गजेन पोथयामास सुरथं सरथसारथिम् ७९ ॥
हताश्वरथमुत्सृज्य गदया सुदृढं रणे ॥
हरिकेशं महाबाहुं चकार गतजीवितम्
त्रैगर्तो वसुधानश्च सूर्यरश्मिश्च संगतौ ॥
चक्रतुस्तुमुलं युद्धं बलि शक्राविवापरौ
कृत्वा तौ सुचिरं युद्धं परस्परसमाहतौ ॥
विचेतसौ रथोपस्थे निषेदतुररिन्दमौ
विसंज्ञौ तु तदा नीतौ सारथिभ्यां रणाजिरात् ॥
गन्धर्वः कुमुदापीडः कुलूताधिपतिर्जयः
चक्रतुस्तुमुलं युद्धं देवासुरसमं तदा ॥
अन्योऽन्यस्य हयान्हत्वा छित्त्वा च धनुषी दृढे
खड्गयुद्धं चिरं कृत्वा छिन्नखड्गौ परस्परम् ॥
नियुद्धं चक्रतुर्वीरौ बाहुद्रविणशालिनौ
नियुद्धस्यावसाने तु कुलूताधिपतिं जयम् ॥
गन्धर्वः कुमुदापीडो निष्पिपेष महीतले
ततः खड्गं रयाद्गृह्य शिरश्छेत्तुं समुद्यतः ॥
नृशंसं तं समालोच्य सेनापतिमरिन्दम ॥
विजयस्तस्य मूर्धानं पातयामास भूतले ॥
दाशेरकस्तथा राजा यश्च गोवाशनोशनः
एकलव्यस्य संग्रामं तैरासीत्सुमहात्मनः ॥
तस्यैकलव्यस्तुरगाञ्जघानाथ शिलीमुखैः
गदया घातयामास स च तस्य तुरङ्गमान् ॥
तयोर्विरथयोर्भृत्यैरुपनीतौ तुरङ्गमौ ॥
पृष्ठतश्च तथा रूढौ वरप्रासधरावुभौ ॥
प्रासविभ्रामणोत्क्षेपपरिवर्त्तविवर्त्तनौ
चक्रतुस्तुमुलं युद्धं चित्रं लघु च सुष्ठु च ॥
मण्डलानि विचित्राणि तयोश्चक्रुस्तुरङ्गमाः
ईक्षितृप्रीतिजननं चिरं कृत्वा ततो रणम् ॥
अन्योन्यवेगाभिहतौ पेततुस्स तुरङ्गमौ
भृत्यैश्च रथमारोप्य समरादपवाहितौ ॥
कुमारः श्रेणिमाञ्छूरो बलबन्धुः सुयोधनः
गन्धर्वैः पञ्चभिः पञ्च पर्वतीयाः समागताः ॥
बलाका बलकाभ्यां तु गदिना मालिना तथा
कुमुदेन च वीरेण समरेष्वनिवर्त्तिना ॥
चतुर्भिः सायकैस्तीक्ष्णैः कुमारो बलदर्पितः
हयाँश्चकार निर्जीवान्बलाकस्य महात्मनः ॥
हताश्वरथमुत्सृज्य बलाकाभ्रातुरञ्जसा
आरुरोह रथं श्रीमद्बलाकस्य सुसंयुतम् ॥
तावेकरथमारूढौ भ्रातरौ समरप्रियौ
छादयामास विशिखैः कुमारो बलदर्पितः ॥
बलकस्तु कुमारस्य मध्ये चिच्छेद कार्मुकम्
स च्छिन्नधन्वा वेगेन गदामादाय वेगवान्॥
तामादाय जघानाथ बलाकं समरप्रियम्
बलाकं निहतं दृष्ट्वा रोषादश्रु निवर्तयन् ॥
कुमारं प्रति चिक्षेप बलकश्चैव तोमरम्
तोमरेण च निर्भिन्नो रथोपस्थ उपाविशत् ॥
तं विसंज्ञमथोवाह सारथिर्हययानवित्
श्रोणिमानथ संक्रुद्धो बलकस्य तदा रणे ॥
क्षुरपर्यन्तधारेण चक्रेणापहरच्छिरः !। १०३ ॥
निपातितोऽथ तत्रैव शरेण गदया गदी ॥
तं निहत्य तदा शूरो मौलिनः सारथिं रणे
गदया पोथयामास मेरुगौरवया तदा ॥
कुमुदस्य जघानाथ गदया स तुरङ्गमान्
हताश्वं रथमुत्सृज्य कुमुदो गदिनो रथम् ॥
आरुरोह तदा शीघ्रं खड्गबाणधनुर्धरः
रथारूढस्य तस्याथ बलकश्च महारथः ॥
जघान चतुरो वाहांश्चतुर्भिस्सायकैस्तदा
जहार पञ्चमेनाथ शिरस्तस्य सकुण्डलम् ॥
सारथिं तु रथात्तस्मान्मौलिनो रथमुत्तमम्
हतसारथिनं पूर्वमारुरोह महारणे ॥
मौली युद्धाय तस्थौ च महाबलपराक्रमः
आरुह्य सरथं दिव्यं किङ्किणीजालनादितम् ॥
ततः स मौलिनाक्रान्तः सुयोधनरथो रणे
अवाकिरदमेयात्मा शरैस्सन्नतपर्वभिः ॥
सुयोधनोऽपि विक्रम्य मौलिनं मौलिभूषितम्
जहार सशिरस्त्राणं शिरो ज्वलितकुण्डलम् ॥
मद्रराजोंशुमान्नाम चतुर्भिः सायकोत्तमैः
भीमनादमहानादवसुमेषरुजाकरैः ॥
चत्वारस्ते महाराज मद्रराजस्य सायकैः
निजघ्नुश्चतुरो वाहान्सारथिं च तथा रणे ॥
अंशुमान्रथमुत्सृज्य गदामादाय वीर्यवान्
जघान चतुरो वाहान्भीमनादस्य संयुगे ॥
सारथिं पोथयामास महानादरथांस्तथा
गताश्वं रथमुत्सृज्य गदावेगेन यादव ॥
महोदयस्य तं नागं पोथयामास वीर्यवान्
सारथिर्भीमनादस्य महानादरथं ययौ ॥
भीमनादं च गदया निजघानाथ मद्रराट्
स मद्रराजो गदया समरे ताडितो भृशम् ॥
जगाम त्रिदिवं राजँस्त्यक्त्वा देहं रणप्रियः
महानादोऽपि समरे सायकैर्लोमवाहिभिः ॥
बिभेद मद्रराजानं शतशोथ सहस्रशः
स बाध्यमानो नाराचैर्महानादभुजच्युतैः ॥
आरुरोह रथं शीघ्रं वसुषेणस्य सत्वरः
रथमारुह्य वेगेन गदया भीमवेगया ॥
चकार युद्धे निर्जीवं वसुषेणं समरप्रियम्
अवरुह्य रथात्तस्माद्गदया भीमवेगया ॥
गजाकरस्य तुरगान्सारथिं चाहनद्भृशम्
हतेषु तेषु राजेन्द्र तदा वीरो गजाकरः ॥
रथं तं तु समारुह्य भूय एव तदंशुमान्
चकार युद्धे निर्जीवं गान्धर्वं तं गजाकरम् ॥
उत्प्लुत्य तुरगात्तस्मान्महानादरथं गतः
गदया पोथयामास महानादं तदा रणे ॥
रोषदीर्घांकुशं कृत्वा कुञ्जरं भरताज्ञया
आरुह्य निजघानाथ गन्धर्वाञ्शतशो रणे ॥
दार्वः श्रुतञ्जयः श्रीमानाभिसारः कृतञ्जयः
युद्धं तौ चक्रतुर्वीरौ सहितौ चन्द्रवर्मणा ॥
चन्द्रवर्मा महातेजाः श्रुतञ्जयरथाद्ध्वजम्
शरेण पातयामास वटवृक्षमिवोच्छ्रितम् ॥
श्रुतञ्जयोपि संकुद्धश्चन्द्रवर्मकरस्थितम्
द्विधा चकार तीक्ष्णेन सायकेन महद्धनुः ॥
तं छिन्नधनुषं वीरं शरैः सन्नतपर्वभिः
छादयामास समरे पार्वतीयः कृतञ्जयः ॥
चन्द्रवर्मा समादाय ततः शक्तिं सुदारुणाम्
बिभेद समरे राजन्राजानं तं कृतञ्जयम् ॥
सविभिन्नस्तया शक्त्या रथोपस्थ उपाविशत्
तं विसंज्ञमपोवाह संग्रामादथ सारथिः ॥
कृतञ्जयं महाराज रणे दृष्ट्वा विचेतसम्
सकुण्डलं समुकुटं चारुचन्द्रसमप्रभम् ॥
शिरश्चिच्छेद तीक्ष्णेन सायकेन महात्मना
समरे यतमानस्य सुभृशं चन्द्रवर्मणा ॥
काश्मीरकः सुबाहुश्च गन्धर्वेण सुबाहुना
चकार तुमुलं युद्धं भीरूणां भयवर्द्धनम् ॥
उभौ तौ तरुणौ वीरावुभौ समरदुर्मदौ
दर्शनीयावुभौ वीरावुभौ बाणधनुर्धरौ ॥
तावुभौ सदृशौ वीर्ये शम्बरामरराजयोः
उभौ प्रकारैश्चलितौ तथोभौ दृढविक्रमौ ॥
चिच्छिदुस्ते तथान्योन्यं ध्वजच्छत्रे नराधिप
अन्योन्यस्य हयान्हत्वा तथोभौ पार्ष्णिसारथी ॥
अन्योन्यं धनुषी छित्त्वा सुदृढे समरप्रिये
कृते प्रतिकृतं चैव कुर्वाणौ भीमविक्रमौ ॥
विरथावसियुद्धाय चक्रतुर्यत्नमुत्तमम्
असियुद्धं चिरं कृत्वा खड्गमाविध्य सत्वरः ॥
पातयामास मूर्धानं गन्धर्वस्य नराधिप
आरुरोह रथं चान्यं सुशीघ्रं भरताज्ञया ॥
तत्रारूढस्स गन्धर्वाञ्जघान शतशो रणे
एतस्मिन्नन्तरे क्रुद्धः शैलूषः स सहायवान् ॥
चकार युधि निर्जीवान्नरनागतुरङ्गमान्
बभूव भारती सेना शैलूषेणोपमर्दिता ॥
निदाघे पुष्पशबलद्विरदेनेव पद्मिनी
एतस्मिन्भारते सैन्ये कश्चिदासीन्महारथः ॥
प्रत्युद्ययौ यः समरे शैलूषं रणकर्कशम्
शैलूषशरसम्पातरुद्धगोमण्डले रवौ ॥
न प्राज्ञायत राजेन्द्र तदा किञ्चिद्रणाजिरे
अश्रूयत महाच्छब्दस्तालानां पततामिव ॥
नरनागाश्वकायेभ्यो विसस्रुः शोणितापगाः
एवं तु भारतं सैन्यं काल्यमानमितस्ततः ॥
शैलूषेण महाराज भरतं शरणं ययौ
भरतोऽपि महातेजा दृष्ट्वा शैलूषमागतम ॥
प्रत्युद्ययौ रथेनाजौ किङ्किणीजालमालिना
ततस्तौ चक्रतुर्युद्धं घोररूपं भयानकम् ॥
त्रैलोक्यविजयासक्तौ यथोभौ बलिवासवौ
गन्धर्वराट् ततः क्रुद्धः सिंहवद्विनदन्मुहुः ॥
भरतस्य रथं तूर्णं शरवर्षैरवाकिरत्
क्रमेण सरथस्तस्य सहयः सह सारथिः ॥
शरवर्षेण महता संछन्नो न प्रकाशितः
युधाजित्खल्वसम्भ्रान्तो धैर्यमासाद्य वीर्यवान् ॥
चोदयामास तानश्वान्विभुग्नान्रिपुसायकैः
भरतोऽथ धनुर्गृह्य दिव्यं जलदनिःस्वनम् ॥
शैलूषस्य द्विधा चक्रे क्षुरप्रेण महद्धनुः ॥
गन्धर्वश्छिन्नधन्वा स पुनरन्यन्महद्धनुः ॥
निमेषान्तरमात्रेण सज्जं चक्रे महाबलः
विचकर्ष ततो दोर्भ्यां चिक्षेप च ततः शरान् ॥
अथास्य तदपि क्रुद्धश्चिच्छेद भरतो धनुः
तस्य तत्पूजयामास लाघवं त्रिदशाधिपः ॥
शैलूषोऽपि ततः क्रुद्धः प्रगृऽह्यान्यन्महद्धनुः
मुमोच समरे बाणान्भरतस्य रथं प्रति ॥
युधाजिन्मातुलस्तस्य सह यानेन लाघवम्
दर्शयामास समरे मोघान्कुर्वञ्शरव्रजान् ॥
तुरगाश्चोद्यमानास्ते मण्डलानीव बभ्रमुः
यथायथा शरव्राता मोघा यान्ति महीतलम् ॥
भरतोऽपि महातेजा मण्डलीकृतकार्मुकः
वीरकेतुं शरव्रातैर्विव्याध रणमूर्धनि ॥
ताडितं सारथिं दृष्ट्वा वीरकेतुं तथा सुतम्
गन्धर्वस्ताडयामास सायकैस्तु युधाजितम् ॥
युधाजिति महाबाहौ समरे भृशविक्षते
चिच्छेद च्छत्रं बाणेन शैलूषस्य तु राघवः ॥
द्वितीयेन तु बाणेन लसन्तं ध्वजमुच्छ्रितम्
तृतीयेन धनुर्मुष्टौ तथा जलदनिःस्वनम् ॥
स च्छिन्नधन्वा वेगेन शक्तिमादाय सत्वरः
विव्याध भरतं वीरं भुजे वामे नराधिप ॥
प्रहारवरभिन्नस्य भरतस्य महात्मनः
करात्पपात वेगेन चापश्चापधरस्य च ॥
अवान्यद्धनुरादाय भरतो रघुनन्दनः
शरैरनेकसाहस्रैर्गंधर्वं तमवाकिरत् ॥
पातयामास च तथा कवचं रत्नभूषितम्
आपदं परमां प्राप्तः शैलूषोप्यथ सत्वरः॥
आग्नेयमस्त्रं चिक्षेप भरतं प्रति वीर्यवान्
वारुणेन तदस्त्रं तु शमयामास राघवः ॥
वायव्यमस्त्रं शैलूषस्तदा चिक्षेप पार्थिव
शैलास्त्रेणाथ भरतः शमयामास तत्पुनः ॥
शैलास्त्रमथ चिक्षेप गन्धर्वनृपतिस्तथा
वज्रेणास्त्रेण तत्क्रुद्धः शमयामास राघवः ॥
उत्ससर्ज ततो राजा ब्रह्मास्त्रं प्राणसंशये
काकुत्स्थः शमयामास ब्रह्मास्त्रेणैव तत्तदा ॥
अस्त्रयुद्धे व्यतिक्रान्ते क्रोधादारक्तलोचनः
जघान चतुरो वाहान्भरतस्य स सायकैः ॥
वीरकेतोश्च चिच्छेद शिरो ज्वलितकुण्डलम्
तस्य राज्ञश्च चिच्छेद मुकुटं रत्नभूषितम् ॥
उवाच भरतश्रेष्ठः शैलूषं प्रहसंस्तदा
कृतकर्मा रणश्रांतो गच्छाद्य स्वं निवेशनम् ॥
तत्र गत्वा ततो यातः पर्वतं गन्धमादनम्
अन्यथा श्वो न मे जीवन्गन्तासि रणमूर्धनि ॥
अस्तं च सविता याति कृतकर्मा दिनक्षये
वयञ्च शिबिरायैव गमिष्यामो जनाधिप ॥
एतावदुक्त्वा शैलूषं चोत्सृज्य भरतस्तदा ॥
कृत्वावहारं प्रययौ शिबिरायैव यादव
गन्धर्वराजोऽथ गृहं प्रविश्य निश्चित्य कार्यं मरणाय बुद्धिम् ॥
कृत्वा रणायैव मनश्चकार रात्रिं तथोवाह गृहे नरेन्द्रः
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा०वज्रसंवादे द्वन्द्वयुद्धवर्णनं नामैकषष्ट्युत्तरद्विशततमोऽध्यायः
1.262
॥ मार्कण्डेय उवाच ॥
ततो रजन्यां व्युष्टायां मरणे कृतनिश्चयः ॥
सन्नह्यत विना व्यूहं भरतं प्रत्युदैक्षत
भरतोऽपि महातेजाः कृतपूर्वाह्णिकक्रियः ॥
निर्गम्य नगरात्सर्वान्पार्थिवानिदमब्रवीत्
गन्धर्वैर्भवतां युद्धं मम बुद्ध्या न रोचते ॥
एक एव समर्थोऽहं युष्माकं तेजसा नृपाः
हन्तुं गन्धर्वसैन्यं तद्भवद्भिः परिपीडितम् ॥
युध्यमाना भवन्तश्च रक्षितव्या मया रणे
सकलत्राँस्ततो भूपानेताञ्शक्नोमि घातितुम्।
भवतामार्जवं युद्धे गन्धर्वाः कूटयोधिनः
अद्य तान्सायकैः सर्वान्दिव्यास्त्रप्रतिमन्त्रितैः ॥
घातयिष्यामि भूपालांस्तदनुज्ञातुमर्हथ
भरतेनैवमुक्तास्तु राजानो वाक्यमब्रुवन् ॥
त्वया कलत्रमस्माकं रक्ष्यं स्वामिन्प्रयत्नतः
भवतो रक्षणं कार्यं समस्तैर्वसुधाधिपैः ॥
पत्रच्छेदे फलच्छेदे वृक्षः शाखावकर्तने
भूयो वृद्धिमवाप्नोति मूलच्छेदे विनश्यति ॥
ते वयं भवतां वीर्यं जानन्तोऽपि रघूद्वह
नैकं संत्यक्तुमिच्छामो भवन्तं रणमूर्धनि ॥
एकैकस्य तथास्माकं गन्धर्वाणां महद्बलम्
वयं रणे हि पर्याप्ताः किं पुनस्तव पार्थिव ॥
किन्तु भृत्येषु तिष्ठत्सु स्वामिनो गर्हितं रणम्
ते वयं घातयिष्यामो गन्धर्वानद्य सत्वरम् ॥
एवमुक्तो महातेजा भरतो नृपसत्तमैः
वारयामास सान्त्वेन ततस्तु वसुधाधिपान् ॥
शापिताः स्थ मम प्राणै राज्ञो रामस्य चाप्यथ
अद्यैव विनिवर्तध्वं संग्रामात्पृथिवीक्षितः ॥
संयतैश्च महद्युद्धं पश्यद्भिर्मम पार्थिवैः
इत्येवमुक्ताः कृच्छ्रेण रणं मुक्त्वा नराधिपाः ॥
एकान्तस्थाः सुसन्नद्धा ददृशुस्तन्महद्रणम्
एकस्य च बहूनां च यमराष्ट्रविवर्धनम् ॥
रथेन काञ्चनाङ्गेन किङ्किणीजालमालिना
युधाजिता गृहीतेन सतोयाम्बुदचारिणा ॥
चञ्चद्बहुपताकेन कोविदारध्वजेन च
आससाद रणे यक्षान्गन्धर्वान्रणकर्कशान्।
शरैः सञ्छादयामास गभस्तिभिरिवांशुमान्
एतस्मिन्नेव काले च सहसा गगनच्युता ॥
उल्का पपात मध्येन भित्त्वा सूर्यस्य मण्डलम्
आसीद्घोरो महीकम्पः शैलूषाङ्गविदारणः ॥
आदित्यमण्डले राजन्कबन्धश्चाप्यदृश्यत
ववर्ष च तदा देवो गन्धर्वान्रक्तवृष्टिभिः ॥
गन्धर्वाणां च दीप्तायां दिश्यवाशन्त पक्षिणः
मृगाश्च घोरा राजेन्द्र शिवाश्चाशिवनिःस्वनाः॥
प्रतिलोमस्तथैवासीद्वायुस्तेषां सुशङ्ककृत्
न्यलीयत तथा गृधः शैलूषस्य ध्वजाग्रतः ॥
समे पथि निराबाधे प्रस्खलन्तस्तुरङ्गमाः
शतपत्राश्च चाषाश्च हंसाश्चैव प्रदक्षिणम् ॥
भरतस्य तदा चक्रुः सव्यो बाहुरथास्फुरत्
दृष्ट्वा निमित्ताँस्तु शुभान्युधाजित्सुमहायशाः ॥
चोदयामास तुरगान्गन्धर्वाणां चमूं प्रति
भरतोऽपि शरव्रातैर्घातयामास वाहिनीम् ॥
गन्धर्वाणामुदीर्णानां घोरैः शतसहस्रशः
वध्यमानास्तु गन्धर्वा भरतेन महात्मना ॥
तमेवाभिमुखा जग्मुः शलभाः पावकं यथा
तेषामापततामेव शरैः सन्नतपर्वभिः ॥
पातयामास शीर्षाणि भरतो वाहिनीपतिः
भरतं कोष्ठकीकृत्वा गन्धर्वाः सुमहारथाः ॥
ववर्षुरायुधैस्तीक्ष्णैर्मेघा वृष्ट्येव पर्वतम्
तान्यायुधानि मुख्यानि गन्धर्वैर्भरतस्तथा ॥
चिच्छेद राजन्नाराचैर्गन्धर्वांश्चावधीद्बली
मस्तकान्सशिरस्त्राणान्बाहूनपि च साङ्गदान् ॥
हस्तिहस्तोपमन्रूरूंश्चिच्छेद भरतो रणे
नावधान न सन्धानं न मुञ्चन्तं च सायकान् ॥
ददर्श भरतं कश्चिल्लाघवाद्रणमूर्धनि
केवलं दृश्यते युद्धे गन्धर्वाणां महाचमूः ॥
दह्यमाना शरव्रातैर्युगान्ताग्निरिव ज्वलन्
बाणगोचरमायातान्भरतस्य विनिघ्नतः ॥
शात्रवान्सायकैस्तीक्ष्णैर्जगामास्तं दिवाकरः
रणे जयं प्राप्य ततो निवृत्तः समागतश्चापि नरेन्द्रमुख्यैः ॥
प्रायान्महात्मा शिबिराय राजन्संस्तूयमानस्त्रिदशद्विजेन्द्रैः
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे तृतीययुद्धदिवसवर्णनं नाम द्विषष्ट्युत्तरद्विशततमोऽध्यायः ॥
1.263
मार्कण्डेय उवाच ॥
चतुर्थेऽहनि संप्राप्ते कृतपूर्वाह्णिकक्रियः ॥
शैलूषस्तु विनिष्क्रम्य गन्धर्वानिदमब्रवीत्
योधयध्वं रणे सर्वे भरतं रिपुमागतम् ॥
अहं मध्ये प्रवेक्ष्यामि भरतस्य बलार्णवम्
तत्र तान्घातयिष्यामि भरतस्यानुयायिनः ॥
एतदुक्ते तथेत्युक्त्वा संप्रतीक्षन्त राघवम्
भरतोऽपि महातेजा रथेनैकेन दृश्यते ॥
भरतस्यानुसैन्यं च भूभुजा समपद्यत
तत्सैन्यं प्राविशदघोरं शैलूषो रणदर्पितः॥
चकार कदनं तत्र नरवारणवाजिनाम्
गन्धर्वसैन्ये च तथा भरतोऽपि शरोत्करैः ॥
चकार कदनं घोरं वैश्वानरसमप्रभैः
राजानं कोष्ठके कृत्वा शैलूषं विविधैः शरैः ॥
छादयामासुरव्यग्रा मेघा इव महीधरम्
गोवासनस्तु सप्तत्या बिभेद समरे शरैः ॥
द्विजिह्वश्च त्रिसप्तत्या राजा दाशेरकस्तु यः
सुबाहुस्तं चतुष्षष्ट्या दशभिस्तं सुयोधनः ॥
कुमारः सप्तसप्तत्या श्रेणिमान्दशभिस्त्रिभिः
शूरः षष्ट्या च निर्भिद्य बलबन्धुः शतेन च॥
द्वाविंशत्या ततस्तक्षः पुष्करो नवभिः शरैः
शतेन विजयश्चैनं जयो जित्वा त्रिभिः शरैः ॥
प्रत्यविध्यत तान्सर्वाच्छैलूषो दशभिः शरैः
नृत्यन्निव रथोपस्थे महाबलपराक्रमः ॥
धनुश्चिच्छेद भल्लेन सुबाहोः सुमहात्मनः ॥
हयाँश्चकार निर्जीवांस्तथैवांशुमतो नृप ॥
पद्मं रथस्थं चिच्छेद चिह्नं गोवासनस्य तु
सुयोधनरथात्क्षिप्रं पातयामास सारथिम् ॥
बलबन्धोस्तथा छत्रं पातयामास यादव
तथान्यान्विमुखाँश्चक्रे शरैः सन्नतपर्वभिः ॥
ततस्तस्य क्षुरप्रेण धनुश्चिच्छेद पुष्करः
अथान्यं चापमादाय पुष्करस्य रणे रुषा ॥
चकार तुरगान्सर्वान्निर्जीवान्समरप्रियः
पुष्करश्च समारुह्य तक्षस्य रथमुत्तमम् ॥
ववर्ष शरवर्षेण शैलूषरणमूर्धनि
शैलूषोपि जघानाश्वान्रथात्तक्षस्य यादव ॥
विरथौ तौ गदापाणी भ्रातरौ युद्धदुर्मदौ ॥ १८ .॥
शैलूषेण समारूढौ गदाहस्तौ तरस्विनौ ॥
अभ्याशे भ्रातरौ दृष्ट्वा जगामादर्शनं ततः
मायावी स तु गन्धर्वो रथमुत्सृज्य यादव ॥
शून्यं दृष्ट्वा रथोपस्थं विलक्षौ भ्रातरौ तदा
आदित्येऽस्तमनुप्राप्ते विनिवृत्तौ रणाजिरात् ॥
भरतोऽपि तथा कृत्वा गन्धर्वाणां महाहवम् ॥
न्यवर्तत महाराज सन्ध्याकाले रणाजिरात्
गत्वैव राजन्स च राजवेश्म तत्रोष्य रात्रिं रघुवंशनाथः ॥
निशावसाने पुनरेव बुद्धश्चकार युद्धं सहितो नृवीरः
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे चतुर्थदिवसयुद्धवर्णनं नाम त्रिषष्ट्युत्तरद्विशततमोऽध्यायः
1.264
मार्कण्डेय उवाच ॥
ततोऽह्नि पञ्चमे प्राप्ते भरतो युद्धदुर्मदः ॥
कल्यमुत्थाय राजेन्द्र कृतपूर्वाह्निकक्रियः
जगाम हन्तुं गन्धर्वान्बलमुत्सृज्य पृष्ठतः ॥
शैलूषोऽपि रणं त्यक्त्वा नरेन्द्रनिधनेप्सया
जगामैकरथेनैव रणकर्मविशारदः ॥
तयोरासीन्महाघोरः संप्रहारः सुदारुणः
देवासुररणप्रख्यः सूर्यस्योदयनं प्रति ॥
तयोस्तु युध्यतो राजन्गन्धर्वाणां बलार्णवम्
छादयामास भरतः शरैः सन्नतपर्वभिः ॥
तच्च राज्ञामुदीर्णानां बलं सागरसन्निभम्
छादयामास गन्धर्वः शरैराशीविषोपमैः ॥
बलमेधे विनिर्याते शरवृष्टिसदारुणे
धारयेतां महाराज शैलूषभरतावुभौ॥
अन्तरिक्षे शरव्रातांश्चिच्छिदतुररिन्दमौ
सैन्ययोश्च तथा चक्रुः कदनं घोरदर्शनम्॥
तयोश्चापच्युतैर्बाणैर्निपातितहयद्विपैः
रणे विसस्रुर्भूपाल स्रवन्त्यो रक्तनिम्नगाः ॥
वहन्त्यो नरदेहानि यक्षराक्षसेविताः
ताभ्यां मुक्तै शरव्रातैर्गगने सूर्यरश्मयः ॥
न प्राकाशन्त राजेन्द्र एकच्छाये नभस्तले ॥
सैनिकान्घातयन्तौ तौ रक्षमाणौ च सारथी
छिन्दमानौ रणे वीरौ परमुक्ताँस्तथायुधान् ॥
जनयामासतुर्वीरौ सुगणामपि विस्मयम्
तद्युद्धं पूजयामास पुष्पवर्षेण वासवः ॥
तौ प्रबुद्धौ दिनं सर्वं वरबाणधनुर्धरौ
नासीदेकतरस्यपि रणे तस्मिन्त्पराजयः ॥
ततोऽस्तं भगवत्यर्के प्रयाते पृथिवीपते ॥
परस्परस्यानुमते शिबिरायैव जग्मतुः
अथोष्यरात्रिं गृहयोः प्रविष्टौ रात्र्यन्तमासाद्य तदा रणाय ॥
भूयो महेन्द्रोपम संप्रयातौ प्रहर्षयन्तौ स्वबलानि वीरौ
॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे भरतशैलूषयुद्धे पञ्चमदिवसयुद्धवर्णनं नाम चतुष्षष्टयुत्तरद्विशततमोऽध्यायः
1.265
मार्कण्डेय उवाच ॥
ततस्तु षष्ठे संप्राप्ते दिवसे भूरिदक्षिणे ॥
चक्रतुः समरं वीरौ शैलूषभरतावुभौ
ससैन्यौ पृथिवीपाल शरैराशीविषोपमैः ॥
शैलूषेण समासक्तो भरतो वाहिनीपतिः
सूर्यरश्मेश्शरेणाजौ शिरश्चिच्छेद शत्रुहा ॥
सूर्यरश्मिं रणे हत्वा एकलव्यं महारथम्
शरेण पातयामास रथोपस्थादरिंदमम् ॥
गन्धर्वनृपतिर्दृष्ट्वा प्रधानौ तौ सुतौ हतौ
शक्त्या बिभेद विजयं तथा चक्रेण पुष्करम् ॥
तोमरेण तथा तक्षं गदया च सुयोधनम् ॥
विविशुस्ते रथोपस्थं विसंज्ञाः सर्व एव तु ॥
नियन्तृभिश्च समरात्सर्व एवापवाहिताः
ततस्तु भरतः क्रुद्धश्चतुर्भिस्तस्य सायकैः ॥
चकार युधि निर्जीवांस्तुरगांश्चैव यादव
चकार च शरव्रातैर्विमुखीकृतविक्रमम् ॥
ततो धैर्येण संधार्य शरवेगं महात्मनः
आरुरोह रथं शीघ्रं सुसन्नद्धो महाबलः ॥
रथमारुह्य विव्याध शरेणानतपर्वणा
भरतो हृदये गाढं मुमोह स च ताडितः ॥
एतस्मिन्नन्तरे मुक्तो हाहाकारः सुरासुरैः
अप्रहृष्टैः प्रहृष्टैश्च विमूढे रघुनन्दने ॥
हाहाकारेण महता लब्धसंज्ञः स राघवः
आकृष्य बलवच्चापं शैलूषस्य महद्धनुः ॥
द्विधा चकार राजेन्द्र शैलूषं चाहनद्भृशम्
स च्छिन्नधन्वा वेगेन गदामादाय सत्वरः ॥
प्रेषयामास धर्मज्ञ भरतस्य महात्मनः
आपतन्तीं गदां दृष्ट्वा भरतो रणमूर्धनि ॥
द्विधा चकार चक्रेण सर्वसैन्यस्य पश्यतः
ततः स परिघं शीघ्रं चिक्षेप भरतं प्रति ॥
तमापतन्तं चिच्छेद चतुर्भिः सायकैर्दृढम्
ततोऽन्यद्धनुरादाय सायकानेकविंशतिम् ॥
चिक्षेप स महाराज भरतस्य रथं प्रति
छित्त्वा तान्भरतः सर्वान्नवधीत्तस्य सारथिम् ॥
तथा च चतुरो वाहाननयद्यमसादनम्
शैलूषं विरथं दृष्ट्वा गन्धर्वाणां महाचमूः ॥
ववर्षायुधवर्षेण मेघो वृष्ट्येव पर्वतम्
स मोहयित्वा भरतं मोक्षयामास पार्थिव ॥
मोक्षयित्वा च राजानं गतेऽस्तं रविमण्डले
कृत्वावहारं तु गतः शिबिराय नराधिपः
हत्वा रथे नागरथाश्वयोधान्संप्राप्य मध्ये निशितैः पृषत्कैः ॥
रघुप्रवीरोऽपि गृहाय यातः संपूज्यमानो भुवि मानवेन्द्रैः
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्ड मार्कण्डेयवज्रसंवादे शैलूषभरतयुद्धे षष्ठयुद्धदिवसो नाम पञ्चषष्ट्युत्तरद्विशततमोऽध्यायः
मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0