विष्णुधर्मोत्तरपुराणम् · अध्याय 1.256.260
1.256
॥ मार्कण्डेय उवाच ॥
गन्धर्वाः कटकं केचिद्विविशुर्भरतस्य तु ॥
पुरस्कृत्य नृपस्याज्ञां सैनिकानां वधेप्सवः
मायाच्छन्नशरीरास्ते ददृशुर्निशि चेष्टितम् ॥
प्रातः समरकामानां कान्तोत्कण्ठितचेतसाम्
मनोरथरथारूढः कश्चित्प्राणेश्वरीं व्रजन् ॥
न लेभे शयने निद्रां कल्ये रणसमुत्सकः
।
कश्चिच्चन्द्रकरस्पर्शाद्विशेषपरिपीडितः ॥
ददर्श चन्द्रं दिव्याक्षिप्रियावदननिर्जितम्
कश्चिच्च चिन्तयन्नेव प्रियां प्राणधनेश्वरीम् ॥
उत्तान शयनं चक्रे तारकागणकं दिवि
पश्यन्नानिष्कृतं दिश्यं पत्रच्छेदं विसर्जितम् ॥
प्रियया स्वकृतं कश्चिन्मुदा नयति शर्वरीम्
निर्वेदमतिरम्येण दह्यते चन्द्ररश्मिभिः ॥
कश्चिद्विहीनस्तन्वङ्ग्या शयनीयेऽपि खिद्यते
स्वप्नोपलब्धतन्वङ्गिसमागममनोरथः ॥
सुप्तोऽनुमितो गन्धर्वैः कश्चिद्रोमाञ्चसम्भवात्
प्रियां संप्रेषिता प्रेष्य समालापपरायणः ॥
न वेद कश्चिद्राजेन्द्र गतामपि विभावरीम्
ज्वलन्तमनिशं कश्चिच्छरीरे विरहानलम् ॥
सहसा शमयामास ध्यायँश्चन्द्रमुखीं प्रियाम्
श्यामां विकञ्चुकां तन्वीं यूनां प्राणापहारिणीम् ॥
प्रियां च खड्गयष्टिं च कश्चित्स्मरति सूत्सुकः
सगुणां तनुमध्यां च नवकाञ्चनभूषणाम् ॥
सस्मार दयितां कश्चिच्चापयष्टिं तथैव च
विचिन्तानपि गन्धर्वा भरतस्य च सैनिकान् ॥
न शेकुराधर्षयितुं भरतस्य समाश्रयात्
अन्येऽपि ये देववरस्य विष्णोः स्मरंति नित्यं यदुनाथपादौ ॥
गन्धर्वयक्षासुरराक्षसेभ्यो भयं न तेषां भवतीह किञ्चित्
॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे विरहिवर्णनं नाम षट्पञ्चाशदुत्तरद्विशततमोऽध्यायः
1.257
॥ मार्कण्डेय उवाच ॥ ॥
अथ राजगृहाख्यं तु नगरं ये विसर्जिताः ॥
गंधर्वा ददृशुस्तत्र पुरश्रियमनुत्तमाम्
चन्द्रसापत्न्यभूतानि गृहमुख्यानि सर्वशः ॥
ददृशुर्बहुरत्नानि वहुधान्यधनानि च
पुरोद्यानानि रम्याणि ददृशुश्च समन्ततः ॥
अलंकृतानि वापीभिर्द्रुमखण्डैश्च यादव
उद्यानेषु विचित्रेषु नरमुख्यानुगामिनाम् ॥
पश्यन्ति तत्र सङ्घानि गंधर्वाः पानपायिनाम्
वल्लकीनां निनादेन गीतेन मधुरेण च ॥
एकतामिव संयातं चारुषट्पदशिञ्जितम्
वेश्याश्चैवोपनृत्यन्ति क्वचित्तत्र च कामुकान् ॥
क्वचित्साभरणाः सुप्ताः कान्तैः सह मदोत्कटाः
सुप्तानां नरनारीणां गन्धर्वास्तत्र चेष्टितम् ॥
ददृशुर्बहुदाराणां मायाच्छादितविग्रहाः
गायन्त्यन्ये रुदन्त्यन्ये हसन्त्यन्ये तथैव च॥
आश्लिष्यन्ति तथैवान्ये मदमत्ताः परस्परम्
भाषन्ते केचिदव्यक्तं विह्वलार्ताः पदेपदे ॥
शयने भ्रममाणैश्च क्वचिदस्थितदृष्टयः
कामिनीस्कन्धविन्यस्तबाहवश्च तथा परे ॥
कलहं चक्रिरे चान्ये स्तुवन्त्यन्ये निरर्थकम्
स्खलमानपदा यान्ति स्थानं हृद्यनवस्थितम् ॥
आह्वयन्ति गणान्केचित्प्रणमन्ति तथा परे
एवं सन्तजनाकीर्णे नगरे गीतनादिते ॥
ददृशुर्गृहमुख्येषु नरनारीविचेष्टितम्
सञ्चोद्यमाना दूतीभिस्त्वराकृत मृजाः धियः ॥
यान्ति कान्तासु सम्भ्रान्ता मदपानसमुत्सुकाः
पपुः काश्चित्प्रियैः सार्धं पानं मदसमीरणम् ॥
पाययन्त्यपराः कान्तान्भोजयन्त्यपराः प्रियान्
प्रासादेषु विचित्रेषु तथा वातायनेषु च ॥
रतिश्रान्तास्तथा सुप्ताः काश्चित्कान्तैः सह स्त्रियः
काचिद्गौरी प्रियं श्याममालिङ्ग्य शयने स्थिता ॥
उत्पलस्रगिवाभाति युक्ता जातिस्रजा सह
गौरीगौरसमाश्लिष्टा काचिदाभाति सुन्दरी॥
आलिङ्गिता चन्द्रकरैश्चन्द्रकान्तशिला यथा
श्यामा श्यामसमाश्लिष्टा काचिदाभाति पार्थिव ॥
पयोदपङ्क्तिर्गगने यथा पार्थिव सोदका
अलीकसुप्तमप्रौढा काचिच्चुम्बयते प्रियम् ॥
प्रियेण गाढमाश्लिष्टा विलक्षमुदिताभवत्
काचिच्च वनिता प्रौढा कर्पूर रजसा स्वयम् ॥
अवाकिरति कान्ताङ्गं रतिस्वेदपरिप्लुतम्
पश्येमां तारकां चन्द्रो ह्यङ्केनालिङ्ग्य तिष्ठति ॥
इत्याह दयितं काचित्प्रौढा रतिसुखार्थिनी
काचिदूरुपरामर्शाद्विदित्वा सुरतार्थिनी ॥
कान्तेनालिङ्गिता गाढं मुदितेन रिरंसुना
कान्तेन काचिद्दष्टौष्ठी चुम्बनायार्पिते मुखे॥
न यास्ये तव विश्वासं भूयश्चेदन्यथाकृथाः
काचित्प्रसुप्ता कान्तेन परामृष्टा रतार्थिनी ॥
कान्तमालिङ्गतात्यर्थं त्यक्तनिद्रा ससम्भ्रमा
इत्येवमपि विश्वस्तान्सैनिकाँस्तान्युधाजितः॥
हर्तुं न शेकुर्गन्धर्वा भरतस्य समाश्रयात्
एषां पुरे सन्निहितः स विष्णुर्महानुभावो रघुवंशगोप्ता ॥
तेषां पुरे नास्ति भयं नरेन्द्र गन्धर्व यक्षासुरपन्नगेभ्यः
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे निशोपभोगवर्णनो नाम सप्तपञ्चाशदुत्तरद्विशततमोऽ ध्यायः
1.258
॥ मार्कण्डेय उवाच ॥
अयोध्यातस्तदाभ्येत्य गन्धर्वाः शिबिरात्तथा ॥
तथा राजगृहात्सर्वे शैलूषाय न्यवेदयन्
न विग्रहकथा तत्र न रक्षा काचिदीदृशी ॥
केवलं तु प्रभावेण रामस्य भरतस्य च
नास्माभिः किं कृतं राजन्प्रहर्तुं क्वचिदित्यपि ॥
यत्तत्र शेषं कर्त्तव्यं तत्करोतु महीपतिः
एवमुक्तः स गन्धर्वैर्यामिनीविगमे तदा ॥
योगयोगमतिक्षिप्रमाज्ञापयत सत्वरः
भेरी सान्नाहिकी चैव ततः शीघ्रमहन्यत ॥
यस्याः शब्देन गन्धर्वा राजद्वारमुपागताः
गजवारेण महता तुरगाणां बलेन च ॥
रथैश्च मेघसन्नादैः पत्तिभिश्च मदोत्कटैः
क्ष्वेडितास्फोटितरवैः शङ्खभेरीनिनादितैः ॥
ह्रादेन गजघण्टानां गजानां चैव बृंहितैः
ह्रेषितैस्तुरगाणां तु बभूव तुमलं महत ॥
शैलूषोऽपि तदा स्नात्वा हुत्वाग्निं द्विजपूजनम्
कृत्वा विनिर्ययौ श्रीमान्वरचन्दनभूषितः ॥
मौली वपुष्मान्सन्नद्धः स्रग्वी रुचिरभूषणः
आमपात्रप्रतीकाशैस्तुरगैर्योजितं रथम् ॥
आरुरोह महातेजा विमानं सुकृती यथा
यथोक्तस्य रथस्यासीत्पुरो रणविशारदः ॥
नरकेतुरिति ख्यातस्त्रिषु लोकेषु विश्रुतः
केतौ तस्य रथे भाति वसन्तो मूर्तिमान्कृतः ॥
ततः स सह सैन्येन निर्ययौ नगराद्बहिः
व्यूहं च सर्वतोभद्रं समाधाय बलं तथा ॥
कृत्वा प्रत्यैक्षत तदा भरतागमनं रुषा
सैन्येन महता राजन्भास्करस्योदयं प्रति
आत्तायुधाः क्ष्वेडितशङ्खनादैरानन्दयन्तः सुहृदां मनांसि ॥
गन्धर्वमुख्या रणचण्डवेगाः प्रतीक्षमाणा भरतस्य तस्थुः
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे गन्धर्वसैन्यवर्णनं नामाष्टपञ्चाशदुत्तरद्विशततमोऽध्यायः
1.259
मार्कण्डेय उवाच ॥
विबुद्धा यामिनीशेषे सर्व एव महीक्षितः ॥
निर्ययुर्नगराकारै रथैः संग्रामलालसाः
बलेन चतुरङ्गेण नानावादित्रवादिना ॥
बन्दिभिः स्तूयमानाश्च वन्द्यमानाश्च सैनिकैः
पृथक्पृथक्सुसन्नद्धा नगरद्वारमागताः ॥
कृत्वा चावश्यकं सर्वं भरतोऽपि महायशाः
रथेन काञ्चनाङ्गेन निर्ययौ नगराद्बहिः ॥
यन्ता रथस्य तस्यासीद्युधाजिन्मातुलः स्वयम्॥
विरराज ध्वजं तस्य कोविदारमहाद्रुमम् ॥
स तेन रथमुख्येन बहिर्निर्गम्य पार्थिवः
समेत्य पार्थिवैः सर्वैः पूजयित्वा च तान्नृपान् ॥
वज्रं कृत्वा महाव्यूहं प्रययौ लघुविक्रमः
प्रयाणे तस्य सैन्यस्य कम्पन्तीव वसुन्धरा ॥
शब्देन महता तस्य दीर्यते च नभस्तलम्
बभूव रजसैवान्यः निशाकालः सुदारुणः॥
नृपाभरमाणिक्यतेजसा भुवि राजिता
रजोन्धकारेऽपि चमूः सा प्रयाति यथासुखम् ॥
स गत्वा दूरमध्वानं सूर्यस्योदयनं प्रति
आससाद महत्सैन्यं गन्धर्वाणां दुरत्ययम्
तौ सैन्यतोयौघमहादुरन्तौ संहारनागाविव तुल्यरूपौ ॥
बलार्णवौ गाढमथ प्रहारं प्रचक्रतुर्मन्युवशानुयातौ
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे भरतसैन्यनिर्याणं नामैकोनषष्ट्युत्तरद्विशततमोऽध्यायः
1.260
मार्कण्डेय उवाच॥
ततः प्रववृते युद्धं तुमुलं लोमहर्षणम् ॥
शूराणां हर्षजननं भीतानां भयवर्धनम्
सेनाविनिर्गमे तत्र रजसाच्छादितं जगत्॥
न प्रज्ञायत राजेन्द्र किञ्चिदेव समन्ततः
कूजतां धनुषां शब्दः श्रूयते तुमुलो महान्॥
शङ्खभेरीनिनादश्च कुञ्जराणां च बृंहितम्
हयानां ह्रेषमाणानां शूराणां चैव गर्जताम् ॥
शस्त्राणां पात्यमानानां योधानां कवचेष्वपि
तिष्ठतिष्ठ न मे जीवन्गन्तासि रणमूर्धनि
स्थितोऽस्मि प्रहरस्वेति किं न जानाति मां भवान्
प्रहरस्व तथा छिन्धि भिन्धि घातय मा चिरम् ॥
एवमादीनि वाक्यानि श्रूयन्ते रणमूर्धनि
तथा तुमुलसंग्रामे वर्तमाने सुदारुणे ॥
प्रशशाम रजो भौममुत्थितं रणशोणितैः
पूर्वोत्थितेन रजसा मेघेनेव नभस्तलम् ॥
व्याप्तं तद्विरजस्केन तदा राजन्रणाङ्गणे
ततो युयुधिरे वीराः पश्यमाना परस्परम् ॥
गोत्रापदाननामानि कीर्तयन्तः पुनःपुनः
सेनानां भज्यमानानां सैन्यखण्डैर्बलीयसाम् ॥
भूयश्चावर्तमानानां शुश्रवे तमुलः स्वनः
चित्राणां च ध्वजानां च पताकानां च भूभुजः ॥
अदृश्यत समासिक्तं रुधिरं रणमूर्धनि
स्वभ्रे तदा महाराज रजोमेघे क्षयं गते ॥
निर्मलासु ततो दिक्षु प्रावर्तत महारणम्
तथा प्रवृत्ते संग्रामे देवगन्धर्वदानवैः ॥
सिद्धैर्विद्याधरैश्चैव मुनिसंघैः समन्ततः
आवृतं सहसा व्योम वज्रयुद्धकुतूहलैः ॥
व्यदृश्यन्त विमानानि तेषां खे विमलान्यपि
किङ्किणीशतघुष्टानि पताकाशोभितानि च ॥
शुभं गन्धमथादाय सुरभिर्मारुतो ववौ
पपात पुष्पवर्षं च योधानां तत्र मूर्धनि ॥
तथा प्रवृत्ते तुमुले क्ष्वेडितोत्कृष्टनादिते
पदातयस्तदा जघ्नुः पदातीनि च संयुगे ॥
खङ्गधारानिकृत्तानां पदातीनां पदातिभिः
द्विधा कृतानि गात्राणि निपतन्ति महीतले ॥
गृहीत्वा खङ्गपातानि रेजुः केचिच्च वर्मिणः
खङ्गमुद्धरतां तेषां चिच्छिदुर्नृप विग्रहान् ॥
केचिद्गदाविनिर्भिन्नमस्तका गदिभिः क्षितौ
पतितास्तत्र दृश्यन्ते रणे शतसहस्रशः ॥
भग्नासिशेषनिक्षेप निहतारातयस्तथा
सिंहनादरवांश्चक्रुः परसैन्यविदारणान् ॥
केशेष्वन्योन्यमाकृष्य खड्गैः केचित्परस्परम्
आसेदुर्वसुधां कृत्वा गतप्राणास्तथा परे ॥
पृष्ठविन्यस्तवर्माणः सन्नद्धांस्तुरगांस्तथा
कृत्वा विपादान्समरे निजघ्नुः सादिनां गणम् ॥
आरुह्य वर्मिणः केचिद्वेगाच्छत्रुरथान्रणे
सारथीन्विगतप्राणाँश्चकुर्युद्धविशारदाः ॥
चिच्छिदुर्वारणेन्द्राणां करान्केचित्पदातिनः
केचिद्दशनविन्यस्तपादाश्चारुरुहुर्गजान् ॥
सादिनश्च तथा केचिद्विशिरस्कान्रणाजिरे
चक्रुः पदातिनो ध्माताः खड्गैराकाशसन्निभैः ॥
केचिच्च सादिनः प्रासैः पञ्च सप्त तथा शरान्
श्रेणीकृतान्वै बिभिदुः शिक्षया रणकोविदाः ॥
केचिच्छार्ङ्गधनुर्न्यस्तबाणजालाकुलीकृतान्
पदातीन्समरे चक्रुर्वायुवेगैस्तुरङ्गमैः ॥
सादिनश्च तथैवान्ये सादिभिः सह संगताः ॥
दर्शयन्तो रणे भिक्षां चक्रुर्युद्धमनेकधा ॥
केचित्पाशाग्रनिर्भिन्नहतसारथिनायकाः
विनेदुरुच्चैः सहसा सिंहनादरवान्वनान् ॥
कुञ्जरैराकुलीकृत्य हययानविशारदाः
विपुच्छहस्तान्समरे चक्रुः सादिगणान्रणे ॥
निहतं व शरव्रातैः पादातं बहुधा रणे
रथिभिर्भाति भूपाल कमलोत्करसन्निभम् ॥
तुरगास्तुरगारोहा रथिभिर्विनिपातिताः
आवव्रुर्वसुधां तत्र शतशोऽथ सहस्रशः ॥
रथिनां रथिभिः सार्धं युद्धमासीत्सुदारुणम्
बाणतोमरपातैश्च गदाकम्पनमुद्गरैः ॥
रथिनां च महद्युद्धमासीत्कुञ्जरधूर्गतैः
प्रासबाणमहापात दुर्निरीक्ष्यं समन्ततः ॥
निहतं बहु पादातं कुञ्जरैस्तत्र दृश्यते
रणे नृपतिशार्दूल विनिकीर्णं सहस्रधा ॥
सादिनां सतुरङ्गाणां सुमहत्कदनं कृतम्
महामात्रप्रमुदितैः कुञ्जरैर्बलदर्पितैः ॥
आक्रम्य रथवृन्दानि चूर्णितानि तुरङ्गमैः
व्यदृश्यन्त महाराज विप्रकीर्णानि भूतले॥
एवं मध्याह्नसमये तीक्ष्णं तपति भास्करे
बभूवाकुलसंग्रामं घोरं रुधिरकर्दमम् ॥
रथाश्वकुञ्जरैः सार्धं पत्तयश्च समागताः
कुञ्जराश्च महाकाया पत्त्यश्वरथिनस्तथा ॥
पत्तिभिश्च पदातीनां सादिनां सह सादिभिः
रथिनां रथिभिर्युद्धं कुञ्जराणां च कुञ्जरैः ॥
बभूव राजँस्तुमुले संग्रामे शोणितोदके
शूराणां रणलुब्धानाममर्षाक्रान्तचेतसाम् ॥
पत्तिना निहतः सादी गजेन निहतो नरः
रथिना निहतो नागः क्वचिदासीदघातितः ॥
हताः पदातिभिश्चान्ये व्यदृश्यन्त रणाजिरे
पदातिरथनागाश्च सादिभिर्विनिपातिताः ॥
रथनागहया युद्धे निहताश्च पदातिभिः
नरेण च हतो हस्ती शूरेण कृतबुद्धिना ॥
सादिना च हतो हस्ती सादी चैव पदातिना
रथिना च हतः पत्तिः पत्तिना च हतो रथी ॥
रथिना निहतः सादी संग्रामे लोमहर्षणे
रेणुना च दिशो व्याप्तास्तुमुले भृशसंकुले ॥
व्यराजन्त महाराज समरे गतजीविताः
पततां बाणजालानां धनुषां चैव कूजताम् ॥
मुद्गराणां भुशुण्डीनां तोमराणां तथैव च
पट्टिशानां च ऋष्टीनां क्षेपणानां च यादव ॥
अयोगुडानां प्रासानां चर्मणामथ वर्मणाम्
अनिशं श्रूयते शब्दो घोरस्तस्मिन्रणाजिरे ॥
हयैश्च विगतारोहैर्धावमानैरितस्ततः
भग्नेषाकूबराक्षैश्च रथैर्विगतनायकैः ॥
छिन्नदन्तैश्च मातङ्गैर्भिन्नकुम्भघटाननैः ५२ ॥
लतावेष्टित वृक्षाभैः शोभां याति रणाजिरम् ॥
कुञ्जरैर्विगतारोहैस्त्रासितैर्दृढधन्विभिः
मर्द्यमानानि सैन्यानि शतशोऽथ सहस्रशः॥
भिन्नान्सुदन्तैः पुरुषान्दन्तासक्तांस्तथा गजाः
वहमाना व्यराजन्त कर्णव्यजनवीजिताः ॥
लग्नान्त्रजालैर्दशनैर्दन्तिनः पर्वतोपमाः
लतावेष्टितवृक्षाभैः शोभयन्ति रणाजिरम् ॥
तस्मिँस्तथाविधे रौद्रे संग्रामे घोरदर्शने
नराश्वनागरुधिरैर्विसस्रुः शोणितापगाः ॥
खड्गमीना महाछत्रराजहंसविभूषिताः ॥
योधमस्तकपाषाणाः केशशैवालभूषणाः
महाफेनौघवत्यश्च भीतानां भयवर्धनाः ॥
तास्तरन्ति तदा योधाः शूरा जयधनैषिणः
राजन्वाहननौभिस्ते व्यवसायपरस्पराः ॥
छिन्नानि स्वानि गात्राणि न जानन्ति रणे परैः
तत्र शूरा महाभागास्त्वमर्षाक्रान्तचेतसः ॥
आयुधक्षयमासाद्य मुष्टियुद्धानि चक्रिरे
केशाकेशि तथा केचिद्दन्तादन्ति नखानखि ॥
चक्रुर्युद्धं महाराज ब्रह्मलोकजिगीषवः
क्रन्दन्तोऽन्ये पितॄन्पुत्रान्भ्रातॄनन्ये पितामहान् ॥
मातुलान्भागिनेयांश्च स्यालान्सम्बन्धिनस्तथा
पितृव्यानार्यकानन्ये दौहित्रानपरे तथा ॥
धावन्त्यन्ये पतन्त्यन्ये गर्जन्त्यन्ये जिगीषया
स्वनन्त्यन्ये पतन्त्यन्ये म्रियन्ते चापरे तथा ॥
शोचन्त्यन्ये तथा बन्धूञ्शोच्यास्त्वन्ये तु बन्धुभिः
याचन्तेऽन्ये महाराज तृष्णार्त्ताश्च तथा जलम् ॥
वाहनेषु समारोप्य नीयन्त्यन्ये च बन्धुभिः
शिबिराय महाराज शतशोऽथ सहस्रशः ॥
अन्ये संवृत्य चात्मानं भीता जग्मुरुपह्वरम्
जलार्थमन्ये च नरा बान्धवैश्च प्रचोदिताः ॥
आगम्य दृष्ट्वा च मृतं भाण्डं भङ्त्वा विचुक्रुशुः
हतबन्धुमनादृत्य स्वामिकार्यैकतत्पराः ॥
परानभिमुखानेव तत्रायुध्यन्त मानवाः
युध्यतामेव तेषां तु शतशोऽथ सहस्रशः ॥
उत्थितानि गणे यानि कबन्धानि महीपते
कश्चिन्ननर्त समरे कबन्धस्तु धनुर्धरः ॥
गदापाणिस्तथैवान्यः खड्गचर्मधरोऽपरः
परश्वधधरः कश्चित्प्रासपाणिस्तथा परः ॥
नृत्यत्कबन्धभूयिष्ठे देवदुन्दुभिनादिते
प्रवर्तमाने संग्रामे शूराणां स्वर्गलोकदे॥
व्यदृश्यन्त महाराज पिशाचा घोरदर्शनाः
राक्षसाश्च महाकायाः क्रव्यादाश्च तथा परे ॥
जगाम चास्तं सविता तदा रक्तवपुर्धरः ॥
संग्रामात्सर्वयोधानां पीत्वेव रुधिरं करैः
ततोऽस्तशैलं भगवत्यथार्के गते जपापुष्पकदम्बकाभे ॥
सेनाद्वयं तच्छिबिराय यानं कृत्वावरोहं परबाणतप्तम्
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे संकुलयुद्धो नाम षष्ट्युत्तरद्विशततमोऽध्यायः
मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0