भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 1.266.269

1.266.269.1

1.266
॥ मार्कण्डेय उवाच ॥
ततस्तु सप्तमे प्राप्ते दिवसे युद्धदुर्मदौ ॥
समीयतुर्महात्मानौ शैलूषभरतावुभौ

1.266.269.2

ततस्तु भरतः प्राह शैलूषं युद्धदुर्मदम् ॥
आवयोः प्रस्तुतं सैन्यं किमेतैस्सैनिकैर्मृतैः

1.266.269.3

निवारयस्व सैन्यं स्वं वारयिष्याम्यहं स्वकम् ॥
आवयोर्द्वैरथं युद्धं पश्यन्तु वसुधाधिपाः

1.266.269.4

त्वदीयाः सैनिका ये च सुरनाथाः सहामरैः ॥
हते मयि मदीयन्त सैन्यं कामं प्रयुध्यताम्

1.266.269.5

संग्रामं वा करोत्वाजौ त्वदीयन्तु हते त्वयि ॥
एवमुक्तस्तथेत्युक्त्वा वारयामास सैनिकान्

1.266.269.6

गन्धर्वराट् स शैलूषो भरतोऽपि तथा स्वकान् ॥
ततः प्रववृते युद्धं तयोर्देवासुरोपमम्

1.266.269.7

पश्यतां सर्व सैन्यानां देवानामपि पश्यताम् ॥
शरजालेन महता छादितार्ककरे रणे

1.266.269.8

ततक्षतुस्तावन्योऽन्यं शरैः सन्नतपर्वभिः ॥
परस्परशराघात विसरच्छोणितोक्षितौ

1.266.269.9

विरेजतुस्तौ राजेन्द्र पुष्पिताविव किंशुकौ ॥
उभौ महारथौ वीरौ चोभौ विश्रुतपौरुषौ

1.266.269.1.266.10

तथोभौ वरधानुष्कौ चोभौ समरदुर्मदौ ॥
काञ्चनाङ्गरथस्थौ तौ चोभौ सद्ध्वजशोभितौ

1.266.269.11

वीज्यमानौ तथैवोभौ योधाभ्यां वरचामरैः ॥
छत्रयोस्तौ तदाधस्ताच्छुशुभाते महारथौ

1.266.269.12

उभावस्त्रप्रतापेन चक्रतुस्तुमुलं रणम् ॥
अस्त्रयुद्धं चिरं कृत्वा शरयुद्धं प्रचक्रतुः

1.266.269.13

शरयुद्धे व्यतिक्रान्ते अस्त्रयुद्धं पुनःपुनः ॥
एवं तौ दिवसं कृत्वा युद्धं संश्रान्तवाहनौ

1.266.269.14

रोपयन्तौ श्रमं राजन्समरेषु जितश्रमौ ॥
ततो गन्धर्वराजस्तु लम्बमाने दिवाकरे

1.266.269.15

चकार तामसीं मायां ययान्धमभवज्जगत् ॥
अन्धकारे ततो जाते वाचोऽश्रूयन्त दारुणाः ॥

1.266.269.16

भरतो हन्यतां शीघ्रं भक्ष्यतां पात्यतां तथा ॥
अभ्यवर्तन्त भरतं सर्पवृश्चिककर्कटाः

1.266.269.17

मर्कटा वानरा घोराः सृगाला द्वीपिनस्तथा ॥
सिंहव्याघ्रवराहाश्च क्रव्यादा ये च जातयः

1.266.269.18

अर्द्यमानः स धर्मात्मा भरतस्तैः सुदुर्मुखैः ॥
सौरेणास्त्रेण तां मायां बभञ्ज परवीरहा

1.266.269.19

ततस्तु महतीं मायां स चकार महाभुजः ॥
उत्तस्थौ सुमहान्मेघश्छादयित्वा नभस्तलम्

1.266.269.1.266.20

प्रववर्ष च घोराणि शस्त्रजालान्यनेकशः ॥
नाराचानर्धनाराचाँस्तथैव चषकाननान्

1.266.269.21

वत्सदन्ताँस्तथा वल्लान्कर्णिनालीकगोमुखान् ॥
क्षुरप्रानर्धचन्द्रांश्च वराहवदनांस्तथा

1.266.269.22

गदाभुशुण्डीः प्रासांश्च भिण्डिपालान्परश्वधान् ॥
हुडान्गुडान्सलगुडाँश्चक्रखड्गांस्तथा परान् ।

1.266.269.23

एतानन्यांश्च विविधान्ववर्ष परमायुधान्॥
पतद्भिरायुधैर्घोरैर्वाध्यमानः स राघवः

1.266.269.24

वायव्यास्त्रेण तां मायां नाशयामास शत्रुहा ॥
ततो बभूव राजेन्द्र गन्धर्वः पर्वतो महान्

1.266.269.25

क्षरत्प्रस्रवणो घोरः शिखरैश्च समुच्छ्रितैः ॥
मायां तां पार्वतीं श्रीमान्वज्रास्त्रेण रघूद्वहः

1.266.269.26

नाशयामास राजेन्द्र सर्वसैन्यस्य पश्यतः ॥
हन्यमानासु मायासु रूपाँश्चक्रे सुदारुणान्

1.266.269.27

यक्षाणां राक्षसानां च पिशाचानां पतत्त्रिणाम् ॥
सिंहव्याघ्रतरक्षूणां कुञ्जराणां तथैव च

1.266.269.28

बभञ्ज तस्य मायास्ता दिव्यास्त्रैर्भरतो रुषा ॥
हन्यमानासु मायासु लाघवाद्भरतं रणे

1.266.269.29

मोहयामास राजेन्द्र शैलूषो रणदर्पितः ॥
भरतोऽपि धनुष्कोट्यां शराग्रे च निलीयते

1.266.269.1.266.30

ध्वजाग्रे च रथाग्रे च तुरगाग्रे पुनः पुनः ॥
सायकान्भारताञ्शैघ्र्याद्ध्वंसयामास यादव

1.266.269.31

राघवास्तुतुषुस्तस्य देवदैत्याश्च संघशः ॥
असुरा मुमुचुर्घोरमट्टहासं सुदारुणम

1.266.269.32

दैत्यानामट्टहासेन भरतः कुपितो भृशम् ॥
नारायणास्त्रं संयोज्य शरेणानतपर्वणा

1.266.269.33

इयेष हन्तुं तं क्रोधाद्गन्धर्वं रणगर्वितम् ॥
अस्त्रं तत्संहृतं ज्ञात्वा जगाम स्वं रथं त्वरन्

1.266.269.34

इयेष हन्तुं तं चास्त्रं रुद्रास्त्रेण तु दारुणम्॥
एतस्मिन्नेव काले तु मुमोच भरतः शरम्

1.266.269.35

कालानलसमप्रख्यं सपुङ्खं सफलं तथा ॥
राजितं वैनतेयस्य पक्षैः शत्रुविनाशनम्

1.266.269.36

हत्वा रुद्रास्त्रवेगन्तु रथस्थस्य महीपतेः ॥
बिभेद हृदयं राजन्वर्म भित्त्वाथ काञ्चनम्

1.266.269.37

राज्ञश्च हदयं भित्त्वा भित्त्वा च वसुधातलम् ॥
स्नात्वा रसातलाम्भःसु तूणं पुनरुपागमत्

1.266.269.38

गन्धर्वराजोऽभिहतः शरेणा नतपर्वणा ॥
रथनीडे धनुस्त्यक्त्वा ममार परवीरहा

1.266.269.39

पितरं निहतं दृष्ट्वा शैलूषतनया रणे ॥
क्रोधदुःखपरीतान्ते भरतं रणकर्कशम् ॥

1.266.269.1.266.40

विव्यधुर्भूपतिश्रेष्ठ बाणैराशीविषोपमैः ॥
आयुधैर्विविधाकारैस्तदा ते वै रणाजिरे

1.266.269.41

मायाश्च विविधाश्चक्रुर्भरतस्य विपत्तये ॥
अन्तरिक्षं च तैर्व्याप्तं नानाहेतिप्रवर्षिभिः

1.266.269.42

अस्त्रैश्च केचिद्भरतं प्रववर्षुर्महारथाः ॥
भूरिभावात्स योधानां महास्त्राणां महाबलात्

1.266.269.43

प्रतापादस्त्रजालानां संशयं परमं गताः ॥
कालास्त्रमथ सांवर्तं मुमोच भरतस्तदा

1.266.269.44

तस्मादस्त्रात्सहस्राणि शस्त्राणां निर्ययुस्तदा ॥
गन्धर्वसैन्यं सकलमस्त्रैस्तैः प्रत्यहन्यत

1.266.269.45

शस्त्रैः केचिद्विशिरसः कृत्वा गन्धर्वसत्तमाः ॥
विवाहाश्च कृताः कैचित्केचिद्राजन्द्विधा कृताः

1.266.269.46

केचिद्विवाहवश्चैव केचिद्व्यङ्गाश्च यादव ॥
गन्धर्वाणां च ताः कोट्यस्तिस्रः संग्रामशालिनाम्

1.266.269.47

क्षणेनास्त्रप्रपातेन भरतेन निपा तिताः ॥
गन्धर्वसैन्ये निहते प्रववुर्मारुताः शिवाः

1.266.269.48

पुष्पवर्षं पपाताथ भरतस्य तु मूर्धनि ॥
दिशश्च निर्मलीभूता देवानां विगतं भयम्

1.266.269.49

ततो देवः सहस्राक्षः सर्वैः सुरगणैः समम् ॥
विमानस्थो बभाषेदं भरतं धर्मवत्सलम्

1.266.269.1.266.50

इन्द्र उवाच ॥ ॥
पितामहवरोद्रेकादवध्यं देवतागणैः ॥
हतवानसि शैलूषं देवब्राह्मणकण्टकम्

1.266.269.51

यस्मात्तस्माद्वरं मत्तो गृहाण रघुनन्दन ॥
॥ मार्कण्डेय उवाच ॥ ॥
शतक्रतोर्निशम्यैतद्भरतो वाक्यमब्रवीत्

1.266.269.52

॥ भरत उवाच ॥ ॥
त्वमीशः सर्वदेवानां तवेदं सकलं जगत् ॥
अचिरेणैव मरणं त्वदाज्ञाभङ्गकारणाम

1.266.269.53

भवंतीह सदा लोके निमित्तं मद्विधो जनः ॥
प्रजापतिकृतं भेदं को मोक्तुं जगति क्षमः

1.266.269.54

वरश्च यदि मे देयस्त्वया देव प्रदीयताम ॥
सिन्धोरुभयकूलेषु करिष्यामि पुरद्वयम्

1.266.269.55

गंधर्वरक्षिते देशे पुत्रयोरुभयोः कृते ॥
निर्वेशं तदवाप्नोतु प्रसादेन शतक्रतो

1.266.269.56

॥ मार्कण्डेय उवाच ॥ ॥
एवमस्त्वित्यथोक्त्वैव स्वर्लोकं वासवो ययौ ॥
वासवे तु गते नाकं राजा चित्ररथस्ततः

1.266.269.57

गंधर्वाणां महातेजा भरतं वाक्यमब्रवीत् ॥
॥ चित्ररथ उवाच ॥ ॥
गंधर्वा निहता वीरा मदाज्ञाभङ्गकारिणः

1.266.269.58

त्वया ते धर्मनित्येन देवब्राह्मणकण्टकाः ॥
तन्मे समुद्धृतं शल्यं देवानाञ्च प्रियं कृतम्

1.266.269.59

तस्मात्सभाजयित्वा त्वां यास्यामि त्रिदिवं पुनः ॥
॥ मार्कण्डेय उवाच ॥ ॥
भरतस्तमुवाचाथ गन्धर्वा निहता मया

1.266.269.1.266.60

तत एनं जनं तेषां स्त्रियश्च परिपालय ॥
गन्धर्वाः परिपाल्यास्ते तेषां त्वं परिपालकः

1.266.269.61

मदीयेनानुरोधेन विशेषात्कर्तुमर्हसि ॥
सर्वेषाञ्च तथा स्थानं पर्वते गन्धमादने

1.266.269.62

प्रयातास्तव तत्रस्थाः पालयिष्यन्ति शासनम् ॥
एवं करिष्य इत्युक्त्वा परिष्वज्य च पीडितम्

1.266.269.63

सर्वज्ञं भरतं श्रीमान्गन्धर्वस्त्रिदिवं ययौ

1.266.269.64

रघुप्रवीरोऽपि रणे मघोनः शत्रून्निहत्वा वरदानयुक्तम ॥
विराजमानो यशसा परेण जगाम राजन्स्वपुरं प्रहृष्टः

1.266.269.266

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शैलूषवधो नाम षट्षट्युत्तरद्विशततमोऽध्यायः

1.266.269.1

1.267
॥ मार्कण्डेय उवाच ॥
आदित्येऽस्तमनुप्राप्ते सन्ध्याकाले सुदारुणे ॥
निवर्तयामास रथं युधाजिद्भरतस्य च

1.266.269.2

निवर्तयानश्च रथं भरतं वाक्यमब्रवीत् ॥
संग्राममेदिनीं पश्य स्वकृतां रघुनन्दन

1.266.269.3

गन्धर्वाङ्गसमाकीर्णां हतकुञ्जरभूषणाम ॥
तुरङ्गमगणाकीर्णां वरायुधधरां धराम्

1.266.269.4

संपूर्णचन्द्रप्रतिमैर्दष्टोष्ठै श्चारुकुण्डलैः ॥
भृकुटीतटदुष्प्रेक्ष्यैर्मस्तकैर्भाति मेदिनी

1.266.269.5

पञ्चशीर्षोरगाकारैर्वराङ्गदविभूषणैः ॥
बाहुभिर्भाति शूराणां वसुधा वसुधाधिप

1.266.269.6

पद्मपत्रदलाकारैर्गेन्धर्वाणां तथा करैः ॥
भाति सायकविच्छिन्नैः सपद्मेव वसुन्धरा

1.266.269.7

हस्तिहस्तसमाकारैर्गन्धर्वाणां तथा करैः ॥
विभाति वसुधाकीर्णा वरचन्दनभूषितैः

1.266.269.8

त्वदेकशरनिर्भिन्नैर्गण्डशैलोपमैर्गजैः ॥
उद्भ्रान्तजीवितैः पश्य विनिकीर्णधरातलम्

1.266.269.9

आविष्कृतरदैश्चाश्वैर्विवृताक्षैस्तथैव च ॥
पतितैरावृता पश्य तुरङ्गैर्मेदिनी रणे

1.266.269.1.267.10

आतपत्रेः शशाङ्काभैश्चामरैश्च विराजिताम्॥
योक्त्रैः खलीनैः पल्याणैः कुथाभिः कम्बुभिस्तथा

1.266.269.11

केशैर्दण्डैस्तथा चापैः प्रासैः खडगैः परश्वधैः ॥
शरैर्नानाप्रकारैश्च नानानामाङ्कितैः शुभैः

1.266.269.12

मुकुटैरङ्गदैर्हारैः कुण्डलैरपि शोभिताम् ॥
रघुनाथ भुवं पश्य कारुण्येऽपि मनोहराम्

1.266.269.13

गन्धर्वान्भक्ष्यमाणांश्च क्रव्याद्भिर्मृगपक्षिभिः ॥
पश्य त्वं चारुसर्वाङ्गं सर्वाभरणभूषितम

1.266.269.14

आकृष्यमाणं निम्नेषु क्रव्याद्भिः कुणवद्रणे ॥
गात्रैश्चलद्भिर्दृश्यन्ते जीवन्तैरिव पार्थिव

1.266.269.15

सन्निधानं तु योधानां विद्रुतं करपङ्कजम् ॥
धनुर्ग्राहाज्जातकिणं भक्षितेन पतत्रिभिः

1.266.269.16

अर्धसम्भक्षितैर्वक्त्रैस्तथा सम्पूर्णभक्षितैः ॥
दुर्वृत्तान्पश्य गन्धर्वाञ्शापादिव महीक्षिताम

1.266.269.17

अनागसां नरेन्द्राणां गन्धर्वैर्यत्पुरा कृतम् ॥
भूयस्तदेव समरे गन्धर्वाणां त्वया कृतम् ॥
रणाजिरे पिशाचानां गन्धर्वान्पश्य राघव

1.266.269.18

यक्षाणां राक्षसानां च शतशोऽथ सहस्रशः ॥
गन्धर्वमांसलुब्धानां सततं क्षतजाशिनाम्

1.266.269.19

समुद्रदाराः सम्प्राप्ताः क्रव्यादाः क्षुधिता भृशम् ॥
त्वयैतेषां परा तृप्तिः कृताद्य रणमूर्धनि

1.266.269.1.267.20

नानाविधानि रूपाणि पश्य क्रव्यभुजां रणे ॥
केचित्स्थूलाः कृशाः केचित्प्रांशवो लघवोऽपरे ॥।

1.266.269.21

लम्बभ्रूजठराः केचित्तथा चिपिटनासिकाः ॥
वृत्ताक्षाः केकराक्षाश्च दन्तुराः सुविभीषणाः

1.266.269.92

तथा चैवोर्ध्वरोमाणो महादंष्ट्रा महामुखाः ॥
पुरस्तात्पार्श्वयोर्घोराः पश्चादङ्गदयोः परे

1.266.269.23

नानाविधानां सत्त्वानां सदृशैश्च तथाननैः ॥
नानावेशधरा रौद्रा नानाविकृतदर्शनाः

1.266.269.24

सिंहचर्माम्बरधरा व्याघ्रचर्माम्बरास्तथा ॥
आहूयन्ते दशन्त्यन्ये हरन्त्यन्येऽसृगुत्तमम्

1.266.269.25

अन्ये स्कन्दं समारोप्य मांसं रक्तं तदागमन् ॥
रक्तापगासु क्रीडन्ति त्वत्कृतासु यथासुखम्

1.266.269.26

स्नपयन्ति रुधिरैश्चान्ये पाययन्ति परेऽ सृजम् ॥
रक्तं कृत्वा कपालेषु कृत्वोत्सङ्गे पुनःपुनः

1.266.269.27

भार्याभिश्च सहैवान्ये पिबन्ति रुधिरं रणे ॥
पाययन्ति तथैवान्ये रामा रामानुजः स्वयम्

1.266.269.28

भार्याकरधृतेष्वन्ये कपालेषु पिबन्त्यसृक् ॥
कौञ्जरेषु कपालेषु पिबन्त्यन्येऽसृगुल्बणाः

1.266.269.29

शिशून्स्कन्धगतान्कृत्वा तृप्ता नृत्यन्ति चापरे ॥
हस्तमादाय पत्नीनां नृत्यन्त्यन्ये तथैव च

1.266.269.1.267.30

नृत्यन्त्यन्ये हसन्त्यन्ये विकृतैश्च तथा स्वरैः ॥
गायन्त्यन्ये स्वपन्त्यन्ये कलहायन्ति चापरे

1.266.269.31

कुणपाँश्च तथैवान्ये त्यजन्त्यन्ये महीतले ॥
अन्यांश्चादातुमिच्छन्ति गृह्णन्ति च तथापरान्

1.266.269.32

कुर्वन्ति कलहाँश्चान्ये कुणपार्थाय कुत्सिताः ॥
उत्कृत्य मांसान्यश्नन्ति केचिद्गात्रैर्विभूषिताः

1.266.269.33

भुक्त्वा चास्थीनि मज्जाश्च केचिदश्नन्ति राघव ॥
भरतस्य प्रसादेन तृप्ताः स्म इति चापरे

1.266.269.34

परस्परञ्च भाषन्ते परं हर्षमुपागताः ॥
नित्यं भवतु राज्ञाञ्च युद्धं वैरं नृशंसता ॥

1.266.269.35

बलं सहायाः पुष्टिश्च येन तृप्यामहे वयम् ॥
एवमेते वदन्तश्च स्वरैश्च विविधैर्जगुः

1.266.269.36

रथं तथान्ये वीक्षन्ते सस्नेहा भृशदुर्दृशाः ॥
एवं स भरतः श्रीमान्मातुलेन प्रदर्शितम्

1.266.269.37

पश्यन्रणाजिरं प्रायाद्येन राजगृहं पुनः ॥
सोऽपश्यन्नगराभ्याशे वायव्यास्त्रविमोहितम्

1.266.269.38

सैन्यं तत्पार्थिवेन्द्राणां व्रजन्तं समरादिमम् ॥
दृष्ट्वा ते भरतं सर्वे रणरेणुसमुक्षितम

1.266.269.39

संग्रामे जयिनं वीरमभ्यनन्दन्त पार्थिवाः ॥
स समेत्य महाभागैः परिष्वज्य च पार्थिवान् ॥
सान्त्वयित्वा च धर्मात्मा शिबिराणि व्यसर्जयत्

1.266.269.1.267.40

ततः स तां मातुलराजधानीं प्रहृष्टयोधार्यजनाभिरामाम् ॥
विवेश रात्रौ रघुवंशनाथः संस्तूयमानः स्तुतिभिर्नृसिंहैः

1.266.269.267

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेय वज्रसंवादे रणभूमिवर्णनो नाम सप्तषष्ट्युत्तरद्विशततमौऽध्यायः

1.266.269.1

1.268
मार्कण्डेय उवाच ॥
तस्यां रात्र्यां व्यतीतायां गन्धर्वनगराज्जनाः ॥
गन्धर्वपुत्रदाराश्च राजपत्न्यस्तथैव च

1.266.269.2

रणाजिरं तु संप्राप्य रुरुदुर्भृशदुःखिताः ॥
अहो कृतान्तो बलवान्येन नो बलदर्पिताः

1.266.269.3

अजेयाः सुरसंघानां संग्रामे विनिपातिताः ॥
नातिभारोऽस्ति दैवस्य नाशक्यं तस्य विद्यते

1.266.269.4

येन नागायुतप्राणा गन्धर्वतनया हताः ॥
ये पुरा शयनीयेषु परार्ध्येषु मदोत्कटाः

1.266.269.5

न निद्रामभिगच्छन्ति शेरते तेऽद्य भूतले ॥
तालवृन्तानिलैर्ये त वरस्त्रीभिश्च वीजिताः

1.266.269.6

वीज्यन्ते पतितास्तेऽद्य गृध्रपत्रैर्महीतले ॥
परार्ध्यचन्दनाक्ताङ्गा ये विरेजुः समागताः

1.266.269.7

न राजन्तेऽद्य ते सर्वे शोणिताक्ता महातले ॥
आलिंग्य सुषुपुः पूर्वं वरोरुजघनाः स्त्रियः

1.266.269.8

ये तेऽद्यभूमिमालिङ्ग्य दुःखशय्यासु शेरते ॥
हा राजन्देवदर्पघ्न हा राजन्भृत्यवत्सल

1.266.269.9

हा राजँश्चारु सर्वाङ्ग हा राजन्सूतवत्सल ॥
बाहुच्छायामुपाश्रित्य वयं कस्य जनेश्वर

1.266.269.1.268.10

निर्भया देवदैत्यानां निवत्स्यामो यथासुखम ॥
संपूर्णचन्द्रवदनं पुत्र कोटिभिरावृतम्

1.266.269.11

विषमस्थमितो दृष्ट्वा यास्यामो यमसादनम् ॥
सभास्थं त्वामपश्यन्तो यास्यामो यमसादनम

1.266.269.12

एवं जने तु शोकार्ते करुणं विलपत्यथ ॥
गन्धर्वराजपुत्राणां पत्न्यस्ताः सुमनोहराः

1.266.269.13

ततस्ता दुःखशोकार्ताः कारुण्ये महति स्थिताः ॥
भर्तारं शिरसा हीनं काचिद्बाहुविनाकृतम्

1.266.269.14

द्विधा कृतं तथैवान्या काचित्क्रव्यादभक्षितम् ॥
दृष्ट्वा रुरोद दुःखार्ता काचिन्नासादयत्यपि

1.266.269.15

कुणपेषु स्खलन्त्यस्ता बभ्रमुस्तत्र दुःखिताः ॥
उरांसि पाणिभिर्घ्नन्त्यो लूनयन्त्यः शिरोरुहान्

1.266.269.16

नावाप यासां भवने पुरा सूर्योऽपि दर्शनम् ॥
दुःखिता मुक्तकेशास्ता जनः सर्वोऽथ पश्यति

1.266.269.17

पतन्त्युपरि भर्तॄणां समालिङ्गन्ति चापराः ॥
रुदन्त्यन्यास्तथा राजन्नुत्कृत्यमधुरस्वराः

1.266.269.18

रुदन्तीनां तथा तासां राजपत्न्यः सुदुःखिताः ॥
रुरुदुः करुणं राजन्विप्रकीर्णशिरोरुहाः

1.266.269.19

हा कान्त हा महाराज हा महाजनवल्लभ ॥
हा सुरेश्वरदर्पघ्न हा शशाङ्कनिभानन

1.266.269.1.268.20

हे भर्तः केन ते बुद्धिर्मरणं प्रति गाहिता ॥
हा राजँस्त्वमिमां भूमिं समालिङ्य प्रियामिव

1.266.269.21

वसुधां प्रियबाहुभ्यां समाजे किं न लज्जसे ॥
किं शेषे पुरतोऽस्माकं विशेषेण रजस्वलाम्

1.266.269.22

खेचरस्यापि ते राजन्सततं वसुधा प्रिया

1.266.269.23

नाडायनवचस्तद्धि त्वयानर्थाय न श्रुतम् ॥
प्रिया ते यद्यपि मही तथाप्यस्मासु पार्थिव॥
युक्तं हि कर्तुं दाक्षिण्यं यतस्त्वं मत्कुलोद्भवः

1.266.269.24

अतर्कितप्रयाणेन त्वया स्म परिपीडिताः ॥
वाङ्मात्रेण कुरुष्वास्मान्सान्त्वनं रिपुसूदन

1.266.269.25

राज्ञो न युक्तं शयनं विवृते वसुधातले ॥
तस्मादुत्तिष्ठ राजेन्द्र शयनं भज मा चिरम्

1.266.269.26

नुन्ना वयं महाराज मदनेन मदेन च ॥
कण्ठे नु कं गृहीष्यामस्त्वया हीना जनेश्वर

1.266.269.27

कृतान्तो बलवान्राजन्येनाकृष्याद्य नीयसे ॥
नाडायनस्य वचनं त्वया यदि कृतं भवेत्

1.266.269.28

नाभविष्यद्वियोगस्तु त्वयास्माकं जनाधिप ॥
निश्चेष्टाङ्गः कथं त्वद्य राजन्स्वपिषि भूतले

1.266.269.29

उत्थाय वीर चास्माकं परिष्वज्य न चुम्बसे ॥
विजित्य समरे वीरान्हत्वा च वसुधाधिपान्

1.266.269.1.268.30

कथमेकेन युद्धे त्वं मानुषेण निपातितः ॥
क्व ते वपुः क्व ते तेजः क्व सा लक्ष्मीः क्व ते बलम्

1.266.269.31

क्व ते तद्विमलं छत्रं क्व च ते वरचामरम् ॥
क्व तत्पीठञ्च शृङ्गारं क्व च ते तनया विभो

1.266.269.32

क्व सा लीला क्व सा लक्ष्मीः क्व च ते वरवन्दिनः ॥
वरचामरधारिण्यः क्व च ताः परमाङ्गनाः

1.266.269.33

अद्यैवस्मस्त्वया हीना अद्यैव स्पृहयामहे॥
अद्यैव स्मरणीयस्त्वं गतोऽसिजनवल्लभ

1.266.269.34

नूनं कान्ततरः स्वर्गे राजेन्द्र प्रमदाजनः ॥
यत्त्यक्त्वा स्वजनं तस्य रतिर्बद्धा त्वयानघ

1.266.269.35

स्वच्छन्दचारिणा केन मतिः शूरनिषेविता ॥
त्वया प्रार्थयता लोके युद्धश्रद्धा विवर्द्धिता

1.266.269.36

वल्लभस्य जनस्यास्य लालितस्य तथा त्वया ॥
दीर्घप्रयाणे कर्तव्यो वाङ्मात्रेणाप्यनुग्रहः

1.266.269.37

विसर्जय जनं राजन्क्रीडामः सहितास्त्वया ॥
उद्यानेषु विचित्रेषु वनेषूपवनेषु च

1.266.269.38

वयमीर्ष्यां न कुरुमः सर्वलोकस्य पश्यतः ॥
वज्रसारमिदं नूनं हृदयं सुदृढं कृतम्

1.266.269.39

गतासुमपि दृष्ट्वा त्वां शतधा यन्न दीर्यते॥
कर्पूरचन्दनार्द्राङ्ग महार्हशयनोचित

1.266.269.1.268.40

विराजसे न राजेन्द्र रुधिराक्तो महीतले ॥
क्व ते भिन्नघटा नागास्तुरगाः क्व च ते गजाः

1.266.269.41

क्व ते योधा गता राजञ्शक्रविस्पर्धिनो रणे ॥
सैन्ये महति तिष्ठन्तं खड्ग बाणधनुर्धरम्

1.266.269.42

कथं त्वामनयद्राजन्परलोकाय राघवः ॥
कृतान्तसमदृष्ट्यैव वेपथुस्ते जनेश्वर

1.266.269.43

स कथं मानुषेणाद्य संग्रामे विनिपातितः ॥
तद्वयं किं करिष्यामो निराशास्तव जीविते

1.266.269.44

न मेस्ति कल्पो दृष्टिर्वा मे नसोर्दृष्टिसङ्गतिः ॥
एवं विलपमानास्ता. शैलूषस्य तु योषितः

1.266.269.45

आलिङ्ग्यालिङ्ग्य तं राजन्निपतन्ति महीतले ॥
शिरांसि च विनिघ्नन्ति ताडयन्ति भुजास्तथा

1.266.269.46

पश्यन्ति भूयस्तं वीरं भूमावुत्क्रान्तजीवितम् ॥
दृष्ट्वा भूयश्च निःसंज्ञा निपतन्ति महीतले

1.266.269.47

तासां रोदनशब्देन समाक्रान्तमहीतलम् ॥
तासामाश्वासनं चक्रे विद्वान्नाडायनो द्विजः

1.266.269.48

एतस्मिन्नेव काले तु तं देशमपराजितः ॥
गन्धर्वेन्द्रः समभ्यागाद्भरतेन प्रचोदितः

1.266.269.49

स तत्स्थानमथाभ्येत्य जनं सर्वं यथाविधि ॥
आश्वासयामास तदा राजा चित्ररथः शनैः

1.266.269.1.268.50

सत्कारं लम्भयामास शैलूषं तनयैः सह ॥
राज्ञा चित्ररथेनाथ गन्धर्वास्ते प्रचोदिताः

1.266.269.51

राज्ञश्चक्रुश्चितां काष्ठैः सुशुष्कैर्बहुभिस्तदा ॥
पुत्राणामस्य सर्वेषां योधानामप्यशेषतः ॥
चन्दनागुरुकाष्ठैस्ते तथा कालीयकस्य तु

1.266.269.52

चितां गन्धैश्च तैलैश्च प्रज्वाल्य च घृतेन ते ॥
संस्कारयित्वा तान्सर्वान्नगराय प्रवव्रजुः

1.266.269.53

गन्धर्वराजवचसा ततः सर्वो महाजनः ॥
नाडायनं पुरस्कृत्य प्रययौ गन्धमादनम्

1.266.269.54

निवेशं कृतवांस्तत्र रामपर्वतरोधसि ॥
कृत्वा निवेशनं तत्र सर्वे चित्ररथाज्ञया ॥
सुखमूषुर्महाराज पाल्यमाना महात्मना

1.266.269.55

बभूव तत्रापि पुरप्रधाने शैलूषपौत्रस्तु जनस्य राजन् ॥
गन्धर्वराजस्तु चकार तस्य संरक्षणं राघवमुख्यवाक्यात

1.266.269.268

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेय वज्रसंवादे गन्धर्वस्त्रीविलापो नामाष्टषष्ट्युत्तरद्विशततमोऽध्यायः

1.266.269.1

1.269
॥ मार्कण्डेय उवाच ॥
अथाषाढस्य मासस्य शुक्लपक्षावसानिकम् ॥
उत्सवं त्रिदशेन्द्राणां समाप्तं दिनपञ्चकम

1.266.269.2

क्षीरोदथेषशयनं भगवान्मधुसूदनः ॥
योगनिद्रां तदा भेजे लोकानां हितकाम्यया ॥

1.266.269.3

भरतोऽप्युत्सवं कृत्वा पूजयित्वा जनार्दनम् ॥
महीदानं तथा कृत्वा नक्ताशी दिनपञ्चकम्

1.266.269.4

चातुर्मास्ये निवृत्ते च मधुमांसस्य भक्षणात् ॥
विसर्जयामास गृहात्पूजयित्वा महीपतीन्

1.266.269.5

उक्त्वा बहुविधैः सान्त्वैः परिष्वज्य सुपीडितम् ॥
गन्धर्वनगरावाप्तैर्विभज्य धन संचयैः

1.266.269.6

संपूज्य वर्षारात्रौ तु स्वकीयं सैनिकं जनम ॥
संमंत्र्य प्रेषयामास सोत्कण्ठं दयिताजने

1.266.269.7

प्रेषयित्वा जनं प्रायात्किञ्चिछेषं स्वसैनिकैः ॥
उवास मातुलगृहं भरतां देवराजवत

1.266.269.8

अवसच्चतुरोमासान्प्रीत्या राघवसत्तमः ॥
ततः कार्तिकमासाद्य शुक्लपक्षावसानिकम् ॥

1.266.269.9

उत्सवं विपुलं चक्रे संप्राप्य दिनपञ्चकम ॥
प्रबोधं देवदेवस्य त्रिदशानां महोत्सवे

1.266.269.1.269.10

तेषु दत्त्वा महादानं कार्तिक्यां च विशेषतः ॥
पूजयित्वा जगन्नाथं शङ्खचक्रगदाधरम्

1.266.269.11

शुभे दिने सुनक्षत्रे पूजयित्वा द्विजोत्तमान् ॥
सांवत्सरं पुरस्कृत्य स्थपतींश्च स राघवः

1.266.269.12

सिंधोरुभयपार्श्वे तु स चकार पुरद्वयम ॥
पुष्करं पुष्करावत्यां तक्षं तक्षशिलां प्रति

1.266.269.13

आरम्भं पुरयोः कृत्वा सोभिषिच्य सुतावुभौ ॥
पुरद्वये महाराज विधिवद्भूरिदक्षिणः

1.266.269.14

पुष्करे पुष्करं पुत्रं तदा तक्षं च यादव ॥
पुरुद्वये समाकीर्णे वणिग्भिर्ब्राह्मणैस्तथा

1.266.269.15

शिल्पिभिश्च महाराज नानाशिल्पोपजीविभिः ॥
गृहपुञ्जसमाकीर्णे देवायतनभूषणे

1.266.269.16

प्रतिष्ठिते तदा राज्ये पुत्रयोर्भरतस्तदा ॥
धनरत्नाश्वनागैश्च विभज्य तनयावुभौ

1.266.269.17

युधाजिति परीदाय गते संवत्सरे तदा ॥
अतीते कार्तिके मासे नक्षत्रे तु गुणान्विते

1.266.269.18

जगाम भरतः श्रीमान्रामं द्रष्टुं नराधिप ॥
सोनुयातः सुतैर्वीरो मातुलेन युधाजिता

1.266.269.19

तीरे स्वधाम्नस्तौ पुत्रौ मातुलं तु युधाजितम् ॥ ।
विसर्जयामास गृहान्परिष्वज्य च पीडितम्

1.266.269.1.269.20

भरतः साश्रुनयनो बलेन चतुरङ्गिणा ॥
स्तोकेन काञ्चनाङ्गेन रथेन च तथा ययौ

1.266.269.21

संरुध्य च रथात्ते तु गच्छन्तं भरतं तदा ॥
ददृशुर्दीनमनसः किंचिदागतविभ्रमाः

1.266.269.22

मुहुर्मुहुः परावृत्य भरतः कथमप्यगात् ॥
परस्परमपश्यन्तो त्वरावन्तस्तथा गताः

1.266.269.23

भरतोपि तथा देशान्सरांसि सरितस्तथा ॥
ग्रामपत्तनसंगाद्यान्व्यतिक्रम्य पुरीं ययौ

1.266.269.24

अथाससाद चायोध्यां दीर्घकालप्रवासकः ॥
प्रविश्य नगरं तत्र पताकाध्वजसङ्कुलम्

1.266.269.25

सुधावदातभवनं सिक्तं चन्दनवारिणा ॥
कृतं रामाज्ञया सर्वं पूजितामरबालकम

1.266.269.26

निर्ययौ पुरतस्तस्य चतुरङ्गबलान्वितः ॥
रामाज्ञया महातेजा नागरैः सह लक्ष्मणः

1.266.269.27

भरतं लक्ष्मणो दृष्ट्वा चिरकालप्रवासकम् ॥
अभ्यवादयत प्रीत्या शिरः कृत्वा महीतले

1.266.269.28

भरतो मूर्ध्न्युपाघ्राय सम्परिष्वज्य पीडितम् ॥
सर्वत्र कुशलप्रश्नं तत्र कृत्वा यथाविधि

1.266.269.29

यथार्हं पूजयामास जनं नगरवासिनम् ॥
कुशलप्रश्नयोगेन स्मितपूर्वाभिभाषिता

1.266.269.1.269.30

स तेन जनवृन्देन पूज्यमानो मुहुर्मुहुः ॥
विवेश नगरं श्रीमान्भरतो नागधूर्गतः

1.266.269.31

विमानहर्म्यप्रासादगवाक्षकगतेन तु ॥
स्त्रीजनेन महातेजा वीक्ष्यमाणस्तु सस्पृहम्

1.266.269.32

आससाद महातेजा नरेन्द्रद्वारमायतम् ॥
तत्र वादित्रनादोऽभून्महान्कलकलस्तथा ।

1.266.269.33

राजद्वारमथासाद्य सोवरुह्य गजोत्तमात् ॥
आदाय लक्ष्मणं पाणौ प्रविवेश तदा सभाम्

1.266.269.34

तत्र सिंहासने रामं स ददर्श महाभुजम् ॥
चन्दनेनानुलिप्ताङ्गं सर्वाभरणभूषितम्

1.266.269.35

संपूर्णचन्द्रवदनं नीलोत्पलदलेक्षणम् ॥
दृष्ट्वैव रामं भरतः कृत्वा भूमिगतं शिरः

1.266.269.36

निपपात महातेजा लक्ष्मणेन विशेषतः ॥
रामोपि भरतं दृष्ट्वा समुत्थाप्य महाभुजम्

1.266.269.37

जग्राह पीडितं कण्ठे मूर्ध्न्युपाघ्राय चासकृत् ॥
आदिदेशासनं तस्य पृष्ट्वा कुशलमव्ययम्

1.266.269.38

निवेद्य रत्नमुख्यानि गन्धर्वाणां स राघवः ॥
रामाय धर्मनित्याय यथा भेजे वरासनम्

1.266.269.39

पृष्टस्स रामेण निवेदयित्वा वृत्तं यथावत्पुरुषप्रवीरः ॥
विसर्जितस्तेन गृहाय गत्वा संपूजयामास तदा स विष्णुम्

1.266.269.1.269.40

स्वप्ने तथोवास स रामपादौ चासाद्य वीरः समरेष्वजेयः ॥
रामोपि राज्यं सहितस्तु तेन चकार सम्यङ्निहतारिपक्षः

1.266.269.41

ततश्चतुर्थे परिवत्सरे तु शुश्राव रामः पुरयोः प्रतापम् ॥
कृत्वा सुताभ्यां भरतस्य विष्णोर्मुदञ्च लेभे परमां प्रहृष्टः

1.266.269.42

एषोऽद्य प्रोक्तो विजयो मया ते रणाजिरे राघवनंदनस्य ॥
श्रोतव्यमेतन्नियमेन पुंसा विज्ञानधर्मार्थयशोभिरामम्

1.266.269.269

इति श्रीविष्णुमहापुराणे द्वितीयभागे श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे श्रीरामचंद्रभरतसमागमो नामैकोनसप्तत्युत्तरद्विशततमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc