भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 1.26

1.26.1

मार्कण्डेय उवाच ॥
नाकपृष्ठगता भूमिर्ददर्श मधुसूदनम् ॥
रत्नासनगतं वीरं श्रिया परमया युतम्

1.26.2

उपास्यमानं त्रिदशैर्भासयन्तं सभां शुभाम् ॥
आदित्यैर्वसुभिः साध्यैर्विश्वेदेवैर्मरुद्गणैः

1.26.3

रुद्रैर्भृग्वङ्गिरोभिश्च नासत्यैश्च महात्मभिः ॥
ऋषिभिः सूर्यसंकाशैस्तपसा द्योतितप्रभैः

1.26.4

गन्धर्वैरप्सरोभिश्च स्तूयमानं सहस्रशः ॥
किरीटोत्तमसंच्छन्नं हारकेयूरभूषितम्

1.26.5

रत्नाङ्गदकृतोद्द्योतं रत्नगर्भसमप्रभम् ॥
हरिचन्दन दिग्धांगं नीलाम्बरधरं हरिम्

1.26.6

तिर्यग्ललाटकेनाऽक्ष्णा तृतीयेन विराजितम् ॥
पश्यन्तं सर्वलोकस्य सततं धर्मकर्मणी

1.26.7

विष्णोरचिन्त्यमङ्गं तत्त्रैलोक्यस्यैव कारणम् ॥
गोब्राह्मणहितासक्तं ददर्श वसुधा तदा

1.26.8

सन्ध्यासह समासीनं श्रिया चैव जनार्दनम् ॥
तं ववन्दे वसुमती दैत्यभारभरार्दिता

1.26.9

पाद्यार्घ्याचमनीयाद्यैः शक्रोऽपि वसुधां तदा ॥
पूजयित्वा सुखासीनां पप्रच्छागमनक्रियाम्

1.26.1.26.10

पृष्टा शक्रेण सा देवी वक्तुं समुपचक्रमे

1.26.11

पृथिव्युवाच ॥
अन्तरिक्षं दिवं यच्च तथैवाऽहं जगत्पते ॥
तवायत्ता महाभाग त्वं हि देवेश्वरो विभुः

1.26.12

त्वयि भारं समासज्य वेदाभ्यसनतत्परः ॥
सुखमास्ते प्रशान्तात्मा ब्रह्मा शुभचतुर्मुखः

1.26.13

त्वयि भारं समासज्य देवदेवोऽपि शङ्करः ॥
आस्ते तपस्यभिरतः कैलासे पर्वतोत्तमे

1.26.14

त्वयि भारं समासज्य सुखं स्वपिति केशवः ॥
क्षीरोदशयने नित्यं शेषपर्यङ्कमा स्थितः

1.26.15

पितामहस्य यत्तेजः केशवस्य शिवस्य च ॥
स्थितं तत्सकलं तुभ्यं त्वं हि सर्वमयोऽरिहा

1.26.16

त्वया विनिहतो वृत्रो बलश्चापि निषूदितः ॥
त्वया च नाशितः पाकस्त्वया दैत्या निषूदिताः

1.26.17

ब्रह्मण्यस्त्वं शरण्यस्त्वं प्रणतार्तिविनाशनः ॥
सहस्रनयनः श्रीमान्वज्रपाणिर्जगत्प्रियः

1.26.18

तेजसा तपसा यज्ञैः श्रुतेन च दमेन च ॥
त्वत्तो विशिष्टं लोकेऽस्मिन्न पश्यामि शचीपते

1.26.19

वेदेषु सरहस्येषु गीयसे त्वं पुनःपुनः ॥
वेदाः प्रवृत्ता यज्ञार्थं तदर्थं क्रतवस्तथा

1.26.1.26.20

ये हता दानवा युद्धे त्वया शक्र पुनःपुनः ॥
त इमे नृषु सम्भूताः कार्तवीर्यं समाश्रिताः

1.26.21

तेऽद्य जाता मम विभो पीडयन्ति च मां भृशम् ॥
साऽहं भारसमाक्रान्ता त्वामद्य शरणं गता

1.26.22

॥ शक्र उवाच ॥
जानामि भारखिन्नां त्वां दैत्येभ्यो वरवर्णिनि ॥
तेषां गत्वा वधोपायमहं प्रष्टास्मि वेधसम्

1.26.23

मार्कण्डेय उवाच ॥
इत्येवमुक्त्वा त्रिदशप्रधानः पृध्वीसमेतो गुरुणा च राजन् ॥
ययौ सभां देववरस्य तस्य पितामहस्याप्रतिमस्य वीरः

1.26.26

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे पृथ्वीशक्रलोकगमनं नाम षड्विंशतितमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc