भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 1.27

1.27.1

॥ मार्कण्डेय उवाच ॥ ॥
ते समेताः समासाद्य पितामहसभां शुभाम् ॥
पद्मासनगतं तत्र ददृशुः पद्मसम्भवम्

1.27.2

पद्मपत्रसवर्णांगं पद्मबोधसमप्रभम् ॥
चतुर्वक्त्रं चतुर्वेदं चतुराश्रमपूजितम्

1.27.3

चातुर्वर्ण्यधरं देवं चातुर्होत्रप्रवर्तकम् ॥
कृष्णाजिनधरं शान्तं प्रभुं प्रभवतामपि

1.27.4

स्वयंभुवमचिन्त्यं च सर्गसंहारकारकम् ॥
तं समासाद्य जगती शक्रश्च गुरुणा सह

1.27.5

ववन्दुस्ते महाभागं तुष्टुवुश्च जगत्प्रभुम् ॥
शक्रादय ऊचुः ॥
नमस्ते देवदेवेश सृष्टिसंहारकारण! ॥
वेदमूर्ते तदाधार यज्ञ यज्ञांग यज्ञप

1.27.6

यज्ञयोने जगद्योने सर्वसत्त्वाभयप्रद ॥
प्रजापतिपते देव जगद्बीज नमोऽस्तु ते

1.27.7

स्वयम्भुवे स्वयं कर्त्रे सर्वभूतान्तरात्मने ॥
सर्वभूतवरेण्याय सर्वभूतेश्वराय च

1.27.8

अचिन्त्यायाऽप्रमेयाय प्रकाशाय महात्मने ॥
त्वमस्य जगतो नाथस्त्वयि सर्वं प्रतिष्ठितम्

1.27.9

त्वया विना जगत्यस्मिन्नान्यत्किञ्चन विद्यते ॥
इन्द्रियाणीन्द्रियार्थाश्च तेभ्यः परतरश्च यत्

1.27.1.27.10

व्यक्ताव्यक्तो जगन्नाथ त्वमेवैकः प्रकीर्तितः ॥
त्वं तपांसि वरिष्ठानि कृच्छ्राणि नियमानि च

1.27.11

कलाः काष्ठा मुहूर्ताश्च कालस्यावयवाश्च ये ॥
कालचक्रं जगच्चक्रं त्वमेकः पुरुषोत्तमः।

1.27.12

त्वमेव वरदो दाता देवः शुभचतुर्मुखः ॥
त्वत्तः प्रसूतौ लोकेऽस्मिन्धर्मरुद्रौ जगत्पते

1.27.13

भृग्वंगिरा मरीचिस्तु पुलस्त्यः पुलहः क्रतुः ॥
अत्रिश्चैव वशिष्ठश्च त्वया सृष्टा जगत्पते

1.27.14

सनत्कुमारो भगवान्सनकश्च सनन्दनः ॥
आकृतिश्च रुचिः श्रद्धा त्वया देव विनिर्मिता

1.27.15

पूर्वात्ते वदनाज्जातमृग्वेदममृतप्रभम् ॥
दक्षिणाद्वदनाज्जातं यजुर्वेदं तथैव च

1.27.16

पश्चिमाद्वदनाज्जातं सामवेदं तथा तव ॥
उत्तराद्वदनाज्जातमथर्वागिरसं शुभम्

1.27.17

ब्राह्मणास्ते मुखाज्जाता बाहुभ्यां क्षत्त्रियास्तथा ॥
ऊरुद्वयात्तथा वैश्याः पद्भ्यां शूद्रास्तथैव च

1.27.18

विद्युतोऽशनिमेघाश्च रोहितेन्द्रधनूंषि च ॥
त्वत्तः प्रभो प्रसूतानि प्रविशन्ति तथा त्वयि

1.27.19

स्वयम्भूर्भगवान्विष्णुर्देवदेवः सनातनः ॥
नाममात्रविभेदेन मोहयस्यखिलं जगत्

1.27.1.27.20

त्वत्तेजसा मया दैत्या ये युद्धे विनिपातिताः ॥
ते क्षितौ क्षत्त्रिया जाताः पीडयन्ति तथा क्षमाम्

1.27.21

तेषां भारेण खिन्नेयं त्वत्सकाशमुपागता ॥
वसुधा वसुधापाल तां त्रायस्व नमोऽस्तु ते

1.27.22

मार्कण्डेय उवाच ॥
एवं पितामहो देवः स्तुतः शक्रेण धीमता ॥
गुरुणा च समेतेन पूजयामास तावुभौ

1.27.23

पूजयित्वा च वसुधां शक्रं वचनमब्रवीत् ॥
व्रजध्वं देवदेवस्य शङ्करस्य महात्मनः

1.27.24

भुवश्चिकीर्षितं सर्वं निवेदयत मा चिरम् ॥
उपायं क्षत्रियवधे युष्माकं कथयिष्यति

1.27.25

इत्येवमुक्तास्तु पितामहेन जग्मुस्तदा रुद्रसदः प्रतीताः ॥
शक्रोऽथ देवी च वसुन्धरा च गुरुः सुराणाञ्च स धर्मशीलः

1.27.27

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे ब्रह्मलोकगमनं नाम सप्तविंशतितमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc