भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 1.25

1.25.1

मार्कण्डेय उवाच ॥
ब्रह्मणोऽत्रिः सुतः श्रीमान्प्रभावाद्ब्रह्मणा समः ॥।
प्रभाकरस्तस्य सुतः पितामहसमो गुणैः

1.25.2

स्वर्भानुना हते सूर्ये पतमाने दिवो महीम् ॥
तमोभिभूते तपसा प्रभा येन विवर्धिता

1.25.3

स्वस्त्यस्त्विति स होवाच पतमानं दिवाकरम् ॥
वचनात्तस्य ब्रह्मर्षेः स पपात दिवो महीम्

1.25.4

अत्रिश्रेष्ठानि गोत्राणि यश्चकार महायशाः ॥
यज्ञेष्वत्रिवनं यश्च सुरैर्यस्य प्रकीर्तितम्

1.25.5

तस्य पुत्रत्वमापन्नौ जनार्दनमहेश्वरौ ॥
दत्तात्रेयोऽथ दुर्वासा लोके ख्यातिमुपागतौ

1.25.6

दत्तात्रेयत्वमासाद्य भगवान्मधुसूदनः ॥
वेदानध्यापयामास ब्राह्मणांश्चरितव्रतान्

1.25.7

तेषु नष्टेषु वेदेषु क्रियासु च मखेषु च ॥
चातुर्वण्ये समाकीर्णे धर्मे शिथिलतां गते ॥

1.25.8

अभिवर्धति चाधर्मे सत्ये नष्टेऽनृते स्थिते ॥
प्रजासु शीर्यमाणासु धर्मे चाकुलतां गते

1.25.9

सयज्ञाः सक्रिया वेदाः प्रत्यानीता हि तेन वै ॥
चातुर्वर्ण्यमसंकीर्ण कृतं तेन महात्मना

1.25.11

दुर्भिक्षमरकौ नष्टौ तस्मिञ्जाते महीतले ॥
प्रववर्ष च देवेन्द्रः सहस्रनयनः क्षितौ ॥1.25.१ ०॥
भूय एव जगद्वृत्तं यथापूर्वं जगत्पते ॥
प्रनष्टकलुषे लोके सन्मार्गस्थेषु राजसु

1.25.12

यजत्सु विप्रमुख्येषु तपस्यभिरतेषु च ॥
वार्तासक्तेषु वैश्येषु शुश्रूषुष्वन्त्यजेषु च

1.25.13

मुदितेषु च लोकेषु त्रैलोक्ये देवसाद्गते ॥
विष्णोर्भागे क्षितिगते कार्तवीर्यार्जुनस्तदा

1.25.14

दशवर्षसहस्राणि कृतवान्दुश्चरं तपः ॥
प्रयागवनमासाद्य दत्तात्रेयाश्रमं प्रति

1.25.15

आराधयामास तदा दत्तं शुश्रूषया नृप॥
तेन दत्तवरश्चक्रे सराज्यं हतकण्टकम्

1.25.16

आर्यावर्तेषु निर्म्लेच्छा कृता तेन वसुन्धरा ॥
तस्मिन्राजनि धर्मज्ञे दैत्यैर्देवनिपातितैः

1.25.17

संप्राप्तैर्भूमिपालत्वं वसुधा भारपीडिता ॥
नाकपृष्ठं ययौ शीघ्रं शक्रदर्शनलालसा

1.25.18

वज्र उवाच ॥
आसाद्यलोकं त्रिदिवेश्वरस्य भारेण खिन्ना वसुधा नरेन्द्रैः ॥
किं तत्र चक्रे वद तन्ममाद्य दृष्ट्वा क्षितिं यच्च चकार शक्रः

1.25.25

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे दत्तात्रेयोपाख्यानंनाम पञ्चविंशत्तमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc