भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 1.251.255

1.251.255.1

1.251
वज्र उवाच ॥
पुलहस्य प्रजासर्गं श्रुत्वा गन्धर्वराट् तदा ॥
पप्रच्छ किं तदा भूयस्तत्र नाडायनं द्विजम्

1.251.255.2

श्रोत्रामृतं कथयतो नन्दस्यापि तवानघ ॥
त्वं हि ज्ञाननिधिर्विप्रैः प्रोच्यसे वेदपारगैः

1.251.255.3

मार्कण्डेय उवाच ॥
पुलहस्य प्रजासर्गं श्रुत्वा गन्धर्वसत्तमः ॥
भूयः पप्रच्छ तं विप्रं गजोत्पत्तिं सविस्तराम्

1.251.255.4

शैलूष उवाच ॥
कुञ्जराणां समुत्पत्तिं श्रोतुमिच्छामि विस्तरात् ॥
कुञ्जरा हि महाभाग भृशं च दयिता मम

1.251.255.5

नाडायन उवाच ॥
यदा प्रसूता मार्त्तण्डमदितिर्भास्करारणिः

1.251.255.6

तदा तदण्डमुत्पाद्य दृष्टवान्कश्यपः स्वयम् ॥
तेजोऽधिकत्वादंडस्थं नापश्यत यदा शिशुम् ॥

1.251.255.7

उवाच देव्या अण्डेऽस्मिन्किमसौ बालको मृतः ॥
ततः स भासः सकलं तेजसा भासयज्जगत

1.251.255.8

तेन मार्त्ताण्डताथास्य कथिता द्विज सत्तमैः ॥
ततस्त्वण्डकपाले द्वे गृहीत्वा तु प्रजापतिः

1.251.255.9

पृथक्पृथगवस्थाप्य रथन्तरमगायत ॥
मन्दः प्रवेशयामास इरायास्तौ प्रजेप्सया

1.251.255.1.251.10

उदरे पुलहान्तेन जनयामास सा गजान् ॥
अष्टौ महावलान्नागांस्तेषां नामानि मे शृणु

1.251.255.11

ऐरावणस्तथा पद्मः पुष्पदन्तश्च वामनः ॥
सप्रतीकोञ्जनो नीलः कुमुदश्च मतङ्गजः

1.251.255.12

शक्राद्यानां दिगीशानां यथासंख्येन वाहनाः ॥
चत्वारो जातयस्तेषामेकैकस्यान्वये स्मृताः

1.251.255.13

भद्रा मन्दा मृगा चैव संकीर्णा च जनाधिप ॥
भद्रा श्रेष्ठा भवेत्तासां मन्दा मध्या कनीयसी

1.251.255.14

मृगा ज्ञेया च बाहुल्यात्सं कीर्णा पार्थिवोत्तम ॥
भद्रमन्दमृगाणां च तथा वक्ष्यामि लक्षणम्

1.251.255.15

संकीर्णानां च संकीर्णं लक्षणं भविता तथा ॥
गूढोष्ठमस्तकः स्वक्षः पृथ्वायतमुखाङ्गुलिः

1.251.255.16

उदग्रश्चोग्रसत्त्वश्च समसाध्यो महाकरी ॥
ताम्रताल्वीक्षणः स्निग्धः सहिष्णुः स्वासनस्तथा

1.251.255.17

अन्वर्थवेदी बलवान्भद्रो ज्ञेयो मतङ्गजः ॥
गम्भीरवेदी निःशङ्कस्तीक्ष्णसाध्यो महोदरः

1.251.255.18

दीर्घमेढ्राङ्गुलिश्चैव सुविभक्तशिरोधरः ॥
स्थिरः कचबलस्थूलो दीर्घबालधिपुष्करः

1.251.255.19

हर्यक्षः सूक्ष्मनाभिश्च मन्दो ज्ञेयो मतङ्गुजः ॥
ह्रस्वः शुष्कवटुहनुर्भीर्रुर्बह्वाशनस्तथा

1.251.255.1.251.20

ह्रस्वोप्तनखी दुर्मेधा यूथस्यानुचरस्तथा ॥
दीर्घजिह्वविषाणश्च दीर्घकक्षासनस्तथा

1.251.255.21

क्लेशाक्षमश्च दीर्घाशी मृगो ज्ञेयो मतङ्गजः ॥
संकीर्णलक्षणो नागः संकीर्णश्च निगद्यते

1.251.255.22

अतः परं प्रवक्ष्यामि गजानां ते वनाष्टकम् ॥
हिमवत्प्रयागलौहित्य गङ्गामध्ये महद्वनम्

1.251.255.23

प्राच्यामे रावणस्योक्तं वनं यत्र मतङ्गजाः ॥
किञ्चित्कमलवर्णाभाश्चपलाः पृथुमस्तकाः

1.251.255.24

कुनखा रूपवन्तश्च तथा मन्दमदागजाः ॥
उन्मत्तगङ्गा स्त्रिपुरी दशार्णं मेकलास्तथा

1.251.255.25

तेषां मध्ये करूषाख्यं वनं पद्मस्य कीर्तितम् ॥
ह्रस्वाश्चण्डास्तथा श्यामाः शीत्रोदग्रमहास्वनाः

1.251.255.26

सूक्ष्म बिन्दुचितास्तत्र भवन्त्यत्यर्थवेदिनः॥
बिल्वशैलं वेत्रवती दशार्णं च महागिरिम्

1.251.255.27

तेषां दशार्णकं मध्ये पुष्पदन्तस्य काननम् ॥
सवृत्तजघनश्या माः सूक्ष्मबिन्दुविचित्रिताः

1.251.255.28

स्थूलहस्तशिरोग्रीवास्तत्र जाता मतङ्गजाः॥
पारियात्रकवैदेश्यनर्मदाब्रह्मवर्धनम्

1.251.255.29

वामनस्य वनं मध्ये तेषां वै मार्गरेयकम्॥
सुप्रमाणाश्च मध्याक्षाः शीघ्रगाश्च सुविग्रहाः

1.251.255.1.251.30

करेणुनामधेयाश्च तत्रोक्ताश्च सुगन्धिनः॥
विन्ध्यसह्योत्कलानां च दक्षिणस्यार्णवस्य च

1.251.255.31

वनं च मध्ये कालेशं सुप्रतीकस्य कीर्त्तितम् ॥
चापवंशावृतनखाः पीनह्रस्वशिरोधराः

1.251.255.32

तनुत्वगुत्तरा दीर्घाः पद्माभास्तत्र दन्तिनः॥
सेवादेशः समुद्रश्च प्रेमहारं च नर्मदा

1.251.255.33

तेषां मध्येञ्जनाख्यस्य वनं खल्वपरान्तकम् ॥
पीनायतविषाणास्या महाकाया बलाधिकाः ॥

1.251.255.34

रक्तताल्वोष्ठजिह्वाश्च जायन्ते तत्र दन्तिनः ॥
कुशस्थली महीपाल अवन्त्यर्बुदनर्मदाः

1.251.255.35

तेषां मध्ये तु सौराष्ट्रं वनं नीलस्य कीर्त्तितम्॥
तस्य वंशे तु जायन्ते चण्डाश्चैवाल्पदेहकाः

1.251.255.36

सूक्ष्मरूक्षत्वचो व्यालास्तथा शिक्षात्यजा गजाः ॥
हिमवत्कालिकासिन्धकुरुजाङ्गलमेव च॥

1.251.255.37

तेषां पञ्चनदं मध्ये कुमुदस्य महद्वनम् ॥
स्फुटिताग्रद्विजास्तत्र जायन्ते मलविद्विषः

1.251.255.38

दानशीलाश्च भूताश्च दुर्विधेयाश्च वारणाः

1.251.255.39

एतत्तवोक्तं तु मतङ्गजानां कुलाष्टकं चैव वनाष्टकं च ॥
अतः परं किं कथयामि तुभ्यं तन्मे वदस्वायतलोहिताक्ष

1.251.255.251

इति श्री विष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शैलूषं प्रति नाडायनवाक्येषु गजोत्पत्तिर्नामैकपञ्चाशदुत्तरद्विशततमोऽध्यायः

1.251.255.1

1.252
शैलूष उवाच ॥ ॥
विस्तरेण समाचक्ष्व वानराणां तु संभवम् ॥
अलंकृत इवाभाति यैर्वंशः पुलहस्य च

1.251.255.2

नाडायन उवाच ॥
काश्यपेयी हरिर्नाम या भार्या पुलहस्य च ॥
पुलहाज्जनयामास श्वेतं नाम वलीमुखम्

1.251.255.3

श्वेतस्तदोर्ध्वदृष्टिं च जनयामास वानरम् ॥
ऊर्ध्वदृष्टिस्तथा व्याघ्रं व्याघ्रश्च शरभं तथा

1.251.255.4

शरभश्च तथार्क्षं च सिंहमृक्षश्च वानरम् ॥
ऋक्षी च जनयामास ऋक्षांश्चैव जनाधिप

1.251.255.5

वानरांश्च महाका याञ्शतशोऽथ सहस्रशः ॥
येषामन्वयसम्भूता देवपुत्रा महाबलाः

1.251.255.6

उत्पन्ना रामसाहाय्ये रावणस्य वधैषिणः ॥
ऋक्षस्य भगिनी ऋक्षी प्रजापतिसुतावुभौ

1.251.255.7

धूम्रं च जाम्बवन्तं च जनयामास ऋक्षजौ ॥
जाम्बवाञ्जनयामास मार्जारं भीमविक्रमम्

1.251.255.8

मार्जारस्य च मार्जारा कुले जाता महाबलाः ॥
ऋक्षस्य वानरेन्द्रस्य दुहितां मानसीं स्वयम्

1.251.255.9

ददौ प्रजापतिः श्रीमान्रूपयौवनसंयुताम् ॥
कामयामास तां शक्रस्ततो वालिरजायत

1.251.255.1.252.10

तामेव कामयामास भास्करः स्वयमेव तु ॥
सुग्रीवं जनयामास भास्करात्सा सुमध्यमा

1.251.255.11

तत्र वानरराजोऽभूद्वालिर्विक्रान्तपौरुषः ॥
यस्तु रामेण निहतः सुग्रीवस्त्वभिषेचितः

1.251.255.12

तस्यासन्वशगाः सर्वे वानरा देवयोनयः ॥
वालिपुत्रोऽङ्गदो नाम हनुमान्वायुनन्दनः

1.251.255.13

नीलो वह्निसुतः श्रीमान्विश्वकर्मसुतो नलः ॥
धर्मपुत्रः सुषेणश्च ऋषभो गरुडात्मजः

1.251.255.14

द्वावश्विन सुतौ वीरौ मैन्दो द्विविद एव च ॥
धूम्रश्च जाम्बवांश्चैव वेगदर्शी च वानरः

1.251.255.15

मृत्योः पुत्रा महावीर्या मृत्युतुल्यपराक्रमाः ॥
गजो गवाक्षो गवयः शरभो गन्धमादनः

1.251.255.16

यमस्य तनयाः पञ्च गोलांगूला महाबलाः ॥
श्वेतो ज्योतिर्मुखश्चान्यो भास्करस्यात्मजावुभौ

1.251.255.17

वरुणस्यावरः पुत्रो हेमकूटः प्रतापवान् ॥
देवपुत्रास्तथैवान्ये ऋक्षगोपुच्छवानराः

1.251.255.18

शतसाहस्रयूथानां राजानो भीमविक्रमाः ॥
हिमवन्मेरुनिलयाः श्वेतनीलनिवासिनः

1.251.255.19

शृङ्गवन्माल्यवद्विन्ध्यऋक्षवन्तनिवासिनः ॥
ये वसन्ति सदा सह्ये ऋषभे गन्धमादने

1.251.255.1.252.20

सागरानूपपर्यन्ते तथा द्वीपेषु सप्तसु ॥
ब्रह्मण्या बलवन्त शूरा धर्मपरायणाः

1.251.255.21

नीतिशास्त्रेषु कुशलाः सर्वशास्त्रविशारदाः ॥
सुनीताः सत्त्ववन्तश्च दृप्ता नीतिग्रहे रताः

1.251.255.22

सखायो रामभद्रस्य रावणस्य वधैषिणः ॥
हस्तिवानरसंग्रामे पुरा रुधिरकर्दमे

1.251.255.23

गिरिकूटनिभा नागा विजिता यैः सहस्रशः ॥
सहाया रामभद्रस्य ते वीरा भरतस्य च ॥
मा गच्छ संयुगं तस्माद्भरतेन महात्मना

1.251.255.24

सर्वास्त्रविज्ञानविशारदेन संग्रामशौण्डेन जितेन्द्रियेण ॥
धर्माच्च रामस्य परायणेन शक्राधिकेन त्वतिपौरुषेण

1.251.255.252

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शैलूषं प्रति नाडायन वाक्येषु वानरोत्पत्तिर्नाम द्विपञ्चाशदुत्तरद्विशततमोऽध्यायः

1.251.255.1

1.253
॥ शैलूष उवाच ॥
किंनिमित्तमभूद्वैरं वानराणां तु कुञ्जरैः ॥
कीदृशं चाभवद्युद्धं तन्ममाचक्ष्व पृच्छतः

1.251.255.2

नाडायन उवाच ॥
वनाष्टकं करीन्द्राणां यन्मयोक्तं पुरा तव ॥
तदुक्तं भारताद्वर्षाद्भागस्य नवमस्य च

1.251.255.3

द्वीपेषु राजन्सर्वेषु वर्षेषु च पृथक्पृथक् ॥
वनेषु निवसन्त्येते करीन्द्रा वानरास्तथा

1.251.255.4

रक्षन्ति वानरास्तत्र काननेषु च शाखिनः ॥
पातयन्ति द्रुमान्नागा लीलयैव जनाधिप

1.251.255.5

द्रुमेषु पात्यमानेषु कुञ्जराणां तरस्विनाम् ॥
वानराः कदनं चकुः क्रोधाविष्टाः पुनः पुनः

1.251.255.6

हन्यमानेषु नागेषु करीन्द्राश्च वलीमुखान् ॥
पातयन्ति महाराज शतशोऽथ सहस्रशः

1.251.255.7

एवं प्रवृद्धे वैरे तु वानरैः कुञ्जरैस्तथा ॥
राज्ञे निवेदितं गत्वा ऋक्षैरावणयोस्तदा

1.251.255.8

ततस्तौ पार्थिवौ क्रुद्धौ चक्रतुर्यत्नमुत्तमम् ॥
वानरास्तु महाकाया वीराः परमरंहसः

1.251.255.9

ऋक्षाश्चैव सगोपुच्छाः किष्किन्धां पुनरागताः ॥
ऐरावणाज्ञां ये नागाः सपक्षाः पर्वतोत्तमाः

1.251.255.1.253.10

प्राच्यां वनमथाजग्मुः सर्वतः पृथिवीपते ॥
बलार्णवावुभौ क्षुब्धौ क्रोधाविष्टौ परस्परम्

1.251.255.11

अन्तर्वेदी तदा तौ तु जग्मतुर्बलदर्पितौ ॥
ततः प्रावर्तत रणं घोररूपं भयानकम्

1.251.255.12

भूमौ चैवान्तरिक्षे च नागानां सह वानरैः ॥
द्रुमप्रहाराभिहताः कुञ्जरा वानरोत्तमैः

1.251.255.13

पतन्तो गगनाद्भूमिं चालयन्ति मुहुर्मुहुः ॥
खुरेषु वानरं गृह्य द्वौ नागौ गगने तथा

1.251.255.14

पातयन्ति महाराज भिन्दन्ति दशनैस्तथा ॥
ममन्थुरपरे पादैर्देहेनाताडयँस्तथा

1.251.255.15

वृक्षान्करैरथोन्मूल्य चुक्षुभुर्येन वानराः ॥
ऐरावणेन निहताः कोटिशस्तत्र वानराः

1.251.255.16

पद्मेन सुप्रतीकेन वामनेनाञ्जनेन च ॥
कुमुदेन च नीलेन पुष्पदन्तेन चाप्यथ

1.251.255.17

तेषामन्वयसम्भूतैस्तथैवान्यैश्च कुञ्जरैः ॥
भद्रेण चाथ मन्देन मृगेण च महीपते

1.251.255.18

भद्रमन्देन मिश्रेण सार्वभौमेन वेधसा ॥
राज्ञा सुमनसा राजंस्तथैव च सुवर्चसा

1.251.255.19

बलाहकेन मत्तेन भीमेनेन्दीवरेण च ॥
हेमकूटेन कूटेन शंखेन निषधेन च

1.251.255.1.253.20

श्वेतेन राजन्रक्तेन काञ्चनेनांङ्ग सुप्रज ॥
विरूपाक्षेण चोग्रेण षड्दन्तेनासितेन च

1.251.255.21

चतुर्दन्तेन यक्षेण रक्षसा भीममालिना ॥
ऋक्षेण वानरेन्द्रेण कोटिशः कुञ्जरा हताः

1.251.255.22

शरभेण गवाक्षेण तथा कनकबिन्दुना॥
ऋक्षराजेन धूम्रेण तथा जाम्बवता नृप

1.251.255.23

सुषेणदधिवक्त्राभ्यां तथा केसरिणा रणे ॥
रणचण्डेन वीरेण वानरेन्द्रेण जानुना

1.251.255.24

तथा शतबलिर्यश्च तेनापि कदनं कृतम् ॥
पनसेन विशालेन गजेन गवयेन च

1.251.255.25

हेमकूटेन विभुना भानुरोम्णा निशाभृता ॥
गन्धमादननाम्ना च विजयेन जयेन च

1.251.255.26

कुमुदेनाथ पद्मेन कनकाक्षेण शम्भुना ॥
इत्येवं दृश्यमानेषु वानरेषु गजेषु च

1.251.255.27

चचाल मेदिनी राजँस्तस्मिन्काले मुहुर्मुहुः ॥
खस्थैर्भूस्थैश्च विक्रान्तैर्वानरैः कुञ्जरैस्तथा

1.251.255.28

हतैश्च हन्यमानैश्च घोरमायोधनं बभौ ॥
शरीरैर्यत्र संरुद्धा स्रवन्तो रुधिरापगाः

1.251.255.29

वानराणां गजानां च महाशैलोपमैर्नृप ॥
तस्मिंस्तथाविधे युद्धे गजवानरसंक्षये

1.251.255.1.253.30

आजगामाथ तं देशं स्वयं देवः शतक्रतुः ॥
अभ्येत्य वारयामास वानराँश्चैव कुञ्जरान्

1.251.255.31

ततश्च वानराः सर्वे शक्रगौरवयन्त्रिताः ॥
संन्यवर्तन्त संग्रामात्प्रह्वाः प्राञ्जलयः स्थिताः

1.251.255.32

त्यक्तयुद्धान्रणे जघ्नुर्वानरान्कुञ्जरांस्तथा ॥
कुद्धस्तेषां महेन्द्रस्तु वज्रेण शतपर्वणा

1.251.255.33

पक्षाँश्चिच्छेद नागानां निहता यैर्वलीमुखाः ॥
छिन्नपक्षाँस्तदा नागान्वाहनार्थं महीतले

1.251.255.34

प्रददौ लोमपादाय तदाङ्गेशाय पार्थिव ॥
लोमपादोऽपि नृपतिस्तदा तेषां चिकित्सितम्

1.251.255.35

शिक्षां स्वस्त्ययनं चैव चक्रे सूत्रनिबन्धनम् ॥
ततः प्रभृति लोकेऽस्मिन्वाहनत्वं गता गजाः

1.251.255.36

गुर्विणीभिर्वनस्थाभिः करिणीभिर्जनेश्वर ॥
वने विवर्धिता वंशाः कुञ्जराणां पुनःपुनः

1.251.255.37

वनेष्वपि तदा जाता विपक्षाः कुञ्जरोत्तमाः ॥
छिन्नपक्षेषु जातेषु प्रभावेण शतक्रतोः

1.251.255.38

वानराश्च जयं लब्ध्वा प्रणिपत्य पुरन्दरम् ॥
स्थानानि जग्मुः स्वान्येव राज्ञा ऋक्षेण पूजिताः

1.251.255.39

एवंविधैरभूत्तेषां वानराणां तु कुञ्जरैः ॥
युद्धमासीन्महाघोरं विजिता यत्र कुञ्जराः

1.251.255.1.253.40

वानराश्च महाभागा वानरेन्द्रप्रमर्दनाः ॥
दैवयोगेन विजिते भरतेऽपि यदृच्छया ॥
क्षिप्रमेवोद्धरिष्यन्ति त्वां समेत्य सबान्धवम्

1.251.255.41

तस्मान्न युद्धं मम रोचते ते रघूद्वहेनाप्रतिमेन राजन् ॥
नयात्मना च प्रतिपूरुषेण धर्माभिरामेण जनप्रियेण

1.251.255.253

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शैलूषं प्रति नाडायनवाक्ये गजवानरयुद्धवर्णनं नाम त्रिपञ्चाशदुत्तरद्विशततमोऽध्यायः

1.251.255.1

1.254
शैलूष उवाच ॥
श्रुतमेतन्मया सर्वं यत्त्वयोक्तं पुनःपुनः ॥
प्रणिपातमहं कर्तुं न शक्तो भरताय तु

1.251.255.2

उद्यच्छेदेव न नमेदुद्यमश्चैव पौरुषम् ॥
अद्य सर्वनिरुद्योगं न नमे चेह कस्यचित्

1.251.255.3

अतिक्लेशेन येऽर्थाः स्युर्धर्मस्यातिक्रमेण च ॥
अरेर्वा प्रणिपातेन मास्म तेषु मनः कृथाः

1.251.255.4

आज्ञाफलं यदा राज्यं प्रणिपत्य तदा परम् ॥
किं नो राज्येन कर्त्तव्यं सामान्यजनधर्मिणा

1.251.255.5

प्रणिपत्य नरः शत्रुं मानी शौण्डीर्यवर्जितः ॥
कथं शक्नोत्यवस्थातुं भार्यादृग्विषयेष्वपि

1.251.255.6

अरेर्वा प्रणिपातस्य संग्रामे मरणस्य च ॥
यदन्तरं तद्भवति ब्रह्महत्याश्वमेधयोः

1.251.255.7

मार्कण्डेय उवाच ॥
शैलूषवचनं श्रुत्वा तदा नाडायनो द्विजः ॥
जगाम स्वगृहायैव हतं मत्वा जनेश्वरम्

1.251.255.8

नाडायने तदा याते राजा गन्धर्वसत्तमान् ॥
समाहूयाब्रवीत्काश्चित्काश्चित्तत्र कृताञ्जलीन् ॥
अवज्ञाय नरः शत्रुं क्षिप्रमेव विनश्यति

1.251.255.9

तस्मात्कार्यमवज्ञानं न कदाचिदरातिषु ॥
केचिदयोध्यां गच्छन्तु गन्धर्वा बलदर्पिताः

1.251.255.1.254.10

आनयन्तु स्त्रियः शीघ्रं तत्र गत्वा च मायया ॥
ये मुख्याः सैनिकास्तस्य भरतस्य समत्विषः

1.251.255.11

सैनिकानां स्त्रियस्तेषां कृत्वा प्रमुखतो रणम् ॥
एवं विमनसां तेषां कर्तास्मि कदनं महत्

1.251.255.12

घातयिष्यामि भरतं हतसैन्यमनन्तरम् ॥
शिबिरं चापरे यान्तु भरतस्य सुविद्विषः

1.251.255.13

निघ्नन्तु योधान्संसुप्तान्रात्रौ तस्य सहस्रशः ॥
हतसैन्यं हनिष्यामि ततोऽहं भरतं रणे

1.251.255.14

राज्ञो गृहं तथैवान्ये प्रविशन्तु महाबलाः ॥
निघ्नन्तु तत्र संसुप्तान्सैनिकाँस्तु युधाजितः

1.251.255.15

हतसैन्यं हनिष्यामि भरतं सयुधाजितम् ॥
अदृश्यैर्मायया गत्वा गन्धर्वैर्बलदर्पितैः

1.251.255.16

यथोक्तमेतत्कर्तव्यं वचनं मम सत्वरैः ॥
एवमुक्तास्तु गन्धर्वाः प्रणिपत्य महीपतिम्

1.251.255.17

राजाज्ञां शिरसाऽऽगृह्य जग्मुस्त्वरितविक्रमाः॥
दिनशेषेण संप्राप्य यथोद्दिष्टं महीक्षिता

1.251.255.18

व्यचेष्टन्निशि राजेन्द्र यथाज्ञप्तं चिकीर्षवः ॥
विसर्जयित्वा गन्धर्वाञ्शैलूषोऽप्यथ सत्वरः

1.251.255.19

आज्ञापयत सैन्यानि श्वो युद्धमिति पार्थिव ॥
जगाम चास्तं सविता कमलानि विशीलयन् ॥
छादिते तमसा लोके प्रवृत्ता यामिनी तथा

1.251.255.1.254.20

गन्धर्वराजोऽपि तदा विजह्रे स्त्रीभिः सहान्तःपुरमेत्य साकम् ॥
गन्धर्वपुत्राश्च तथा विजह्रुः श्वो युद्धमित्येव विवृद्धदर्पाः

1.251.255.254

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे गन्धर्वप्रेषणं नाम चतुष्पञ्चाशदुत्तरद्विशततमोऽध्यायः

1.251.255.1

1.255
॥ मार्कण्डेय उवाच ॥
आज्ञप्ता ये त्वयोध्यायां गन्धर्वास्तेन भूभुजा ॥
अयोध्यां ते समासेदुर्निशीथे लघुविक्रमाः

1.251.255.2

मायाच्छन्नशरीराश्च विचेरुस्ते महीपते ॥
अयोध्याय महाराज पराञ्च ददृशुः श्रियम्

1.251.255.3

शशाङ्ककन्शुभ्राणि बहुभौमानि यादव ॥
ददृशुर्गृहमुख्यानि शतशोऽथ सहस्रशः

1.251.255.4

सर्वरत्नोपपन्नानि शयनासनवन्ति च ॥
सुवर्णदामचित्राणि मुक्ताजालचितानि च

1.251.255.5

प्रज्वलद्भिर्महादीपैर्दीपितानि समन्ततः ॥
बहुमाल्यानि मुख्यानि दीपोद्गारेण पार्थिव

1.251.255.6

प्रविष्टा गृहमुख्येषु ददृशुस्तेषु मानवान् ॥
चन्दनागुरुदिग्धाङ्गान्सर्वाभरणभूषितान्

1.251.255.7

क्रीडमानान्सह स्त्रीभिर्दिवि देवगणानिव ॥
भरतानुगतानाञ्च सैनिकानां गृहेषु च

1.251.255.8

स्त्रीणां भर्तृविहीनानां ददृशुर्बलचेष्टितम् ॥
काचिन्न लेभे शयने निद्रामुद्भ्रान्तलोचना

1.251.255.9

आकुलं शयनं चक्रे काचिद्भूयो विवर्त्तनैः ॥
मृणालशयने काचित्कदलीपर्णसंस्तरे

1.251.255.1.255.10

चन्दनं चन्द्रपादेषु मृणाल वलयेषु च ॥
कामाग्निनाशाशक्तेषु काचिच्चक्रे तथा रुषम्

1.251.255.11

अश्रुधारा निपतिताः कामाग्निपरीदीपिते ॥
अम्बरीषे यथा नाशं कस्याश्चिद्याति वक्षसि

1.251.255.12

काचिन्मुमोह शयने वर्णयन्ती सखीजने ॥
लब्धनिद्रा तदा दैवात्कान्तसम्भोगजं सुखम्

1.251.255.13

तालवृन्तानिलैः शीतैर्वीज्यमाना सखीजनैः ॥
दह्यताभ्यधिकं काचित्स्वनिःश्वासविनिस्सृतैः

1.251.255.14

स्वप्नेऽपि कान्तसंयोगकारिण्यां हि सखी मम ॥
दैवान्मयि हता निद्रा सापि काचिदभाषत

1.251.255.15

केयूरस्थानसंप्राप्ता वराङ्गदविभूषणा ॥
कामक्षामवपुः काचिज्जगाम सखि शोच्यताम्

1.251.255.16

दत्तध्यानतया कान्ते शोच्यमाना सखीजनैः ॥
अविज्ञानात्तथा काचिन्नाभाषत सखीजनम्

1.251.255.17

चित्रभित्तिगतं कान्तं काचिच्चानिमिषेक्षणा॥
बभूव चित्रन्यस्तेव पश्यन्ती विगतक्रिया

1.251.255.18

इति गन्धर्वमुख्यानां पश्यतां रजनीमुखे ॥
नासीत्स्त्रीहरणे शक्तिः प्रभावाद्राघवस्य च

1.251.255.19

हितेच्छुरासां स यदा निविष्टो देवेश्वरश्चक्रधरो नृरूपी ॥
ततः प्रभावो न बभूव तेषां हर्तुं स्त्रियश्चारुशशाङ्कवक्त्राः

1.251.255.255

॥
इति श्रीविष्णुधमोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे विरहिणीवर्णनं नाम पञ्चपञ्चाशदुत्तरद्विशततमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc