भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 1.246.250

1.246.250.1

1.246
राम उवाच ॥
ततस्तु शैशिरे प्राप्ते काले तपनवल्लभे ॥
हिमालीपटलच्छन्नदुर्विभाव्यदिशामुखे

1.246.250.2

सुपक्वमातुलुङ्गाढ्यवनराजिसुगन्धिनि ॥
प्रफुल्लवृत्तकुसुमचारुरागोज्ज्वलत्विषि

1.246.250.3

हिमप्रयातसञ्जातसर्वरत्नतृणोल्बणे॥
अत्यर्थशीतकुसुमे कुङ्कुमागुरुवल्लभे

1.246.250.4

कामिन्यः कुङ्कुमार्द्राङ्ग्यः पीनोन्नवपयोधराः ॥
आलिङ्गनेन कान्तानां यत्र शीतभयापहाः

1.246.250.5

पुष्पितैरतसीवाटैर्नीलनीरजनिर्मलैः ॥
पूर्णतोयाशयाशङ्का जायते सुधियामपि

1.246.250.6

माध्यकुन्दकपुष्पाढ्या वनराज्यो मनोहराः ॥
सुशीर्णपर्णसरलानमेरुकविभूषणाः

1.246.250.7

संत्यक्त्वा दक्षिणामाशां व्रजमाने तथोत्तराम ॥
सूर्ये मुमोच पवनं निःश्वाममिव दक्षिणा

1.246.250.8

रम्याश्च गंधमंजर्यः शोभयन्ति वनस्थलीः ॥
मन्मथस्य शराः कांता कामिमन्मथवर्धनाः

1.246.250.9

हयानां मधुरः शब्दः श्रूयते दशनोद्भवः ॥
शब्दो यवभुजां यत्र स्वामिनां रतिवर्धनः

1.246.250.11

निर्मलानां तु सरसां विनिविष्टा जलेचराः ॥
ब्रुवन्तौ मधुरं पांथा जनयन्ति परां मुदम्॥1.246.१ ०॥
जनयन्ति परां प्रीतिं कामिनीनां तु कामुकाः ॥
यत्र मेध्यैर्नवैर्वत्स मातुलुङ्गाधिवासितैः

1.246.250.12

वापीकूपतडागेषु ह्रदप्रस्रवणेषु च ॥
यत्र काले रटन्त्यापः कम्पयन्त्यः पुरीं महत्

1.246.250.13

तस्मिंस्त्वं शिशिरे काले कृत्वा गृहवरे स्वके ॥
प्रावेशयतु विधिना शिल्पिभिर्यन्त्र निर्मितैः

1.246.250.14

धर्मेण पालयन्क्षोणीं वस राजीवलोचन ॥
हृदि कार्यस्त्वया धर्मो नित्यमेव नरोत्तम

1.246.250.15

उत्तिष्ठ शीघ्रं विजयाय गच्छ दीप्तां श्रियं प्राप्नुहि राजपुत्र ॥
रक्षन्तु देवास्तव सर्वकालं पदं विधत्स्वारिगणस्य मूर्ध्नि

1.246.250.246

॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शैलूषं प्रति नाडायनवाक्येषु शत्रुघ्नं प्रति रामानुशासने लवणं प्रति शत्रुघ्नप्रस्थानं नाम षट्चत्वारिंशदुत्तरद्विशततमोऽध्यायः

1.246.250.1

1.247
॥ नाडायन उवाच ॥ ॥
इति रामवचः श्रुत्वा बाढमुक्त्वा स सत्वरः ॥
अभिवाद्य वसिष्ठस्य पादौ रामस्य चाप्यथ

1.246.250.2

पुरस्कृत्य महाभागान्भार्गवप्रमुखानृषीन् ॥
यथोक्तसेन्यानुगतः प्रययौ भीमविक्रमः

1.246.250.3

वाल्मीकेराश्रमं प्राप्य तामुवास तदा निशाम् ॥
पूजयित्वा तु वाल्मीकिमृषिणा प्रतिपूजितः

1.246.250.4

यस्मिन्नहनि शत्रुघ्नो वाल्मीकेराश्रमं गतः ॥
उभौ प्रसूतौ तनयौ तस्मिन्नेवाह्नि जानकी

1.246.250.5

सीताप्रसवसंहृष्टः क्रमेण रघुनन्दनः ॥
निदाघशेषेण नदीमुत्ततार स सूर्यजाम्

1.246.250.6

शिबिरं समवस्थाप्य यथावद्यमुनातटे ॥
एक एव धनुष्पाणिः प्रविवेश मधोर्वनम् ॥

1.246.250.7

प्रविश्य च युधा तत्र लवणस्य निवेशनम् ॥
तस्थौ द्वारमथाश्रित्य वीरो विततकार्मुकः

1.246.250.8

एतस्मिन्नेव काले तु मृगान्हत्वा सहस्रशः ॥
बहुना मृगभारेण स ददर्श मधोः सुतम्

1.246.250.9

वृत्ताक्षमुत्कटं भीमं दन्तोत्कृत्तोत्तरच्छदम् ॥
दंष्ट्राकरालवदनं दंतिवत्परुषच्छविम्

1.246.250.1.247.10

स तु दृष्ट्वैव शत्रुघ्नमुवाच परुषं बहु ॥
विप्रधावत दुष्टात्मा शत्रुघ्नवधकाम्यया

1.246.250.11

त्यक्त्वा मृगसहस्राणि द्रुमविक्षेपतत्परः ॥
द्रुमवृष्टिं सुघोरां तां लवणेन विसर्जिताम्

1.246.250.12

चिच्छेद बाणैः सौमित्रिः शतशोऽथ सहस्रशः ॥
छिन्ने द्रुममहावर्षे लवणः शत्रुतापनः

1.246.250.13

जघान सुरशत्रुघ्नं शत्रुघ्नं मुष्टिना भृशम् ॥
मुष्टिप्रहारनिश्चेष्टं शत्रुघ्नं लवणस्तदा

1.246.250.14

न जग्राह च तच्छूलं मृत्युपाशवशङ्गतः ॥
प्रवेशयामास गृहं मृगसंघाननेकशः

1.246.250.15

एतस्मिन्नेव काले तु लब्धसंज्ञः स राघवः ॥
वितत्य कार्मुकं तस्थौ द्वारमावृत्य वेश्मनः

1.246.250.16

ततः पादपवर्षेण च्छादयन्तं निशाचरम् ॥
चकार विमुखं बाणैश्छित्त्वाश्छित्त्वा महीरुहान्

1.246.250.17

रामदत्तं ततो बाणं सन्धाय वरकार्मुके ॥
निर्बिभेद महातेजा लवणं रघुनन्दनः

1.246.250.18

सन्धीयमाने बाणे तु त्रस्तं त्रिभुवनं तदा ॥
आश्वासयामास विभुर्ब्रह्मा कमलसम्भवः

1.246.250.19

तेन बाणप्रहारेण निर्भिन्नहृदयः क्षितौ ॥
व्यसुः पपात मेदिन्यां शैलो वज्राहतो यथा

1.246.250.1.247.20

तस्मिन्निपतिते भूमौ दैत्ये देवभयङ्करे ॥
त्रैलोक्यं विगतातङ्कं क्षणेन समपद्यत

1.246.250.21

तं च देशमथाजग्मुः सुराः सब्रह्मकास्तदा ॥
पूजितास्तेन वीरेण शत्रुघ्नं वाक्यमब्रुवन्

1.246.250.22

॥ देवा ऊचुः ॥
वरं वरय शत्रुघ्न यत्ते मनसि कांक्षितम् ॥
अपनीतं त्वयास्माकं भयं शूलवरायुधात्

1.246.250.23

त्वया तु निहते तस्मिँल्लवणे पापराक्षसे ॥
पश्य शूलवरं यांतमेनं शार्वं विहायसा

1.246.250.24

॥ शत्रुघ्न उवाच ॥ ॥
अस्मिन्देशे करिष्यामि पुरीं रामाज्ञया त्वहम् ॥
मासे समाप्यतां शीघ्रं वरमेतत्प्रदीयताम्

1.246.250.25

॥ देवा ऊचुः ॥ ॥
निष्पत्तिं यास्यते धीर स्थिरा चैव भविष्यति ॥
पुण्या च रमणीया च मथुरा नामतः शुभा

1.246.250.26

॥ नाडायन उवाच ॥ ॥
एवमुक्त्वा सुराः सर्वे जग्मुर्नाकमतंद्रिताः ॥
आजगाम स तं देशं सैन्येन च्यवनः सह

1.246.250.27

संवर्द्धयित्वा शत्रुघ्नं जगामाश्रममंजसा ॥
सर्वं रामवचश्चक्रे शत्रुघ्नोऽपि महायशाः

1.246.250.28

कृत्वा पुरीनिवेशं च गृहप्रावेशनं तथा ॥
उषित्वा द्वादश समाः सम्प्राप्ते सुरकर्मणि

1.246.250.29

जगाम भ्रातरं द्रष्टुं वाल्मीकेराश्रमं पुनः ॥
तत्र शुश्राव धर्मात्मा शुभां रामकथां कृताम्

1.246.250.1.247.30

वाल्मीकिना प्रहृष्टेन गीयमानां कुशीलवैः ॥
तत्रोष्य रजनीमेकां रामं दृष्ट्वा तथैव च

1.246.250.31

तत्रोष्य पञ्चरात्रं च भूयो रामविसर्जितः ॥
मथुरायां च वसुधां पालयामास धर्मवित्

1.246.250.32

एवंविधः स शत्रुघ्नो भरतोऽप्यधिकस्ततः ॥
मा तेन विग्रहं गच्छ भरतेन महात्मना ॥
अजेया रघवो येषां सहाया वानरोत्तमाः

1.246.250.33

सुग्रीवनीलाङ्गदवायुपुत्रसुषेणमैन्दद्विविदप्रधानाः ॥
महाबलाः पर्वतमात्रकायाः सुरासुरैर्युद्धगता अजेयाः ॥

1.246.250.247

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शैलूषं प्रति नाडायनवाक्येषु लवणवधो नाम सप्तचत्वारिंशदुत्तरद्विशततमोऽ ध्यायः

1.246.250.1

1.248
॥ शैलूष उवाच ॥ ॥
पुलहस्य प्रजासर्गं श्रोतुमिच्छामि तत्त्वतः ॥
यस्य वंशे समुत्पन्ना वानरा बलदर्पिताः

1.246.250.2

नाडायन उवाच ॥ ॥
मृगा च मृगमंदा च हरिस्ताम्रा तथा इरा ॥
भूता च कपिशा दंष्ट्री सुरसा सरमा तथा

1.246.250.3

कश्यपो जनयामास क्रोधात्तु दश कन्यकाः ॥
कश्यपेन च ता दत्ताः पुलहाय महात्मने

1.246.250.4

प्रजास्तासां प्रवक्ष्यामि सर्वासां त्वं निबोध मे ॥
मृगायास्तु मृगा जाता हरिणैणाः शशास्तथा

1.246.250.5

रुरव पृषतश्चैव न्यङ्कवः शशकास्तथा ॥
सृमरा मृगमंदाया गवया महिषास्तथा

1.246.250.6

चमरोष्ट्रवराहाश्च खड्गा गौरखरास्तथा ॥
हर्याश्च वानरा जाता गोलाङ्गूला सकिन्नराः

1.246.250.7

मण्डूका नकुलाश्चैव ये चाप्यन्ये बिलेशयाः ॥
पञ्च कन्याश्च ताम्रायाः पत्न्यस्ता वरुणस्य च

1.246.250.8

प्रादाद्धर्मभृतां श्रेष्ठः पुलहस्तपसां निधिः ॥
श्येनी भासी तथा क्रौञ्ची धृतराष्ट्री शुकी तथा

1.246.250.9

श्येनी तु जनयामास पुत्रं संपातिनं तथा ॥
जटायुषं च राजानं गृध्राणां बलदर्पितम्

1.246.250.1.248.10

संपाती जनयामास श्येनगृध्रवटांस्तथा ॥
भासीपुत्राः स्मृता भाणाः क्रौञ्चाः क्रौञ्चीसुताः स्मृताः

1.246.250.11

धृतराष्ट्रीसुता हंसा धार्त्तराष्ट्रास्तथैव च ॥
चक्रवाकमुखाश्चान्ये तथा ये जलचारिणः

1.246.250.12

शुकीपुत्राः शुका ज्ञेयाः पक्षिणश्चापि कीर्तिताः ॥
कश्यपस्य तु या पत्नी इरा नाम प्रकीर्तिता

1.246.250.13

कुञ्जरं जनयामास सुरकार्योद्यतं सदा ॥
भूतापुत्रास्तथा भूता महादेवमनुव्रताः

1.246.250.14

उपवीरोलूखलिका आस्यकर्णा कुषण्डिका ॥
पांसवः पाणिपात्राश्च चैतन्यानि पुनस्तथा

1.246.250.35

सूचीमुखा शोषणिकाः कुलान्येतानि षोडश ॥
कुलेष्वेतेपु जायन्ते नानाकारविचेष्टिताः

1.246.250.16

निष्कुटेषु प्रतोलीषु चत्वरेषु गुहासु च ॥
तेषां प्रादात्तदा स्थानमन्तर्धानं प्रतापिताः

1.246.250.17

अणिमा लघिमा प्राप्तिर्यत्र कामावसायिता ॥
दंष्ट्रीपुत्रास्तथालोके दंष्ट्रिणो ये प्रकीर्तिताः

1.246.250.18

सरमायास्तथा सर्पाः कीटजात्यश्च सर्वशः ॥
श्यामश्च धवलश्चैव सारमेयौ तथा शुनौ

1.246.250.19

यमस्यानुचरौ तौ च महाबलपराक्रमौ ॥
इति क्रोधादुहितॄणां प्रजातिः कीर्तिता मया

1.246.250.1.248.20

कश्यपस्य तु या पत्नी सुरभिर्नाम विश्रुता ॥
कनीयसं तु शूद्राणां तस्यासीद्दुहितृद्वयम्

1.246.250.21

रोहिणी चैव भद्रं ते गन्धर्वी च महीपते ॥
पुलहायैव ते दत्ते कश्यपेन महात्मना

1.246.250.22

सुरुपा हेमरूपा च सर्वकामदुघा तथा ॥
रोहिण्यां जनयामास पुलहः स महातपाः

1.246.250.23

ब्रह्मचर्यव्रतास्तास्तु धेनवो दश कीर्तिताः ॥
मानसी तु प्रजा तासां यथासंख्येन मे शृणु

1.246.250.24

गावश्चैव महिष्यश्च अजाश्चैवावयस्तथा ॥
गन्धर्वी जनयामास तुरगान्वातरंहसः

1.246.250.25

गरुडी च मयूरी च द्वे तु कन्ये मनोरमे ॥
पुलहेन तु ते दत्ते गरुडाय महात्मने

1.246.250.26

गरुडी जनयामास सुपर्णान्भीमविक्रमान् ॥
मयूरी जनयामास मयूराद्यान्विहङ्गमान्

1.246.250.27

गरुडान्वयसम्भूताः सर्वे पन्नगभोजिनः ॥
पक्षिणस्तु वया ज्ञेयाः सुपर्णान्गरुडाञ्छृणु

1.246.250.28

सुवर्णचूडो नागश्च दारुणश्चूडतुण्डकः ॥
अनिलश्चानलश्चैव विशालाक्षोऽथ कुण्डली

1.246.250.29

कर्कशो ध्वजविष्कम्भी विनतो वामनस्तथा ॥
वातवेगो दिशाचक्षु र्निमिषोऽनिमिषस्तथा

1.246.250.1.248.30

त्रिवारः सप्तवारश्च वाल्मीकिर्विपुकिस्तथा ॥
दैत्यद्वीपः सरिद्द्वीपः सारसः पद्मकेतनः

1.246.250.31

सुमुखश्चित्रकेतुश्च चित्रबर्हस्तथानघ ॥
मेघः सत्कुमुदो दक्षः सर्वभुक्सामभोजनः

1.246.250.32

गुरुभारः कपोतश्च पूर्वनेत्रश्चिरातकः ॥
विष्णुगन्धाः कुमारश्च परिबर्हो हरस्तथा

1.246.250.33

अश्वाम्बरो मधुपर्कश्च हेमवर्णस्तथैव च ॥
मलयो मातरिश्वा च निशाकरदिवाकरौ

1.246.250.34

एते प्रदेशमात्रेण मयोक्ता गरुडात्मजाः ॥
कुलमेतत्सुपर्णानां धन्यानां नृपसत्तम

1.246.250.35

सर्व एते श्रिया युक्ताः सर्वे श्रीवत्सलक्षणाः ॥
कुलमेतद्धि शैलूष श्लाध्यं विष्णुपरिग्रहम्

1.246.250.36

दैवतं विष्णुरेतेषां विष्णुरेव परायणम् ॥
हृदि येषां सदा विष्णुर्विष्णुर्येषां परा गतिः ॥

1.246.250.37

एतत्तवोक्तं पुलहस्य वंशं पुत्रैः सुताभिश्च समन्वितं यत् ॥
वंशे तु सर्वोत्तमवीर्ययुक्ता जाता खगेन्द्रा हरयश्च वीराः

1.246.250.248

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शैलूषं प्रति नाडायनवाक्येषु पुलहवंशानुकीर्तनं नामाष्टचत्वारिंशदु त्तरद्विशततमोऽध्यायः

1.246.250.1

1.249
॥ वज्र उवाच ॥
कथाप्रसङ्गैर्बहुभिर्भवता मम कीर्तितम् ॥
सम्भवं सर्वभूतानां सर्वकल्मषनाशनम्

1.246.250.2

तेषां विकारेष्वाचक्ष्व राजानो मम भार्गव ॥
पालयन्ति द्विजश्रेष्ठ सकलं ये जगत्त्रयम्

1.246.250.3

मार्कण्डेय उवाच ॥
एवं प्रजासु सृष्टासु स्वयमेव पितामहः ॥
निकायेषुनिकायेषु सोऽभ्यषिंचत पार्थिवान्

1.246.250.4

ओषधीनां द्विजातीनां नक्षत्राणां तथैव च ॥
यज्ञानां तपसां चैव सोमं राज्ये ऽभिषेचयत्

1.246.250.5

प्रजापतीनां सर्वेषां दक्षं प्राचेतसं यथा ॥
वलीमुखानां श्वेतानामृक्षाणां धूम्र एव च

1.246.250.6

मनः सर्वेन्द्रियाणां च सुरस्त्रीणां च मन्मथम् ॥
प्रह्लादं सर्वदैत्यानां पितॄणां च तथा यमम्

1.246.250.7

अपां तु वरुणं राज्ये तथैव जलवासिनाम ॥
यक्षाणां राक्षसानां च पार्थिवानां धनस्य च

1.246.250.8

पुत्रं विश्रवसो ज्येष्ठं कुबेरं नरवाहनम्॥
विप्रचित्तिं च राजानं दानवानां महाबलम्

1.246.250.9

सर्वभूतपिशाचानां गिरीशं शूलपाणिनम्॥
शैलानां हिमवन्तं च निम्नगानां च लावणम्

1.246.250.1.249.10

भारतं सर्ववर्षाणां द्वीपानामथ मध्यमम् ॥
स्वादूदकं समुद्राणामश्वत्थं सर्वशाखिनाम्

1.246.250.11

कर्मणां व्यवसायं च मेरुं सर्वशिलाभृताम् ॥
गन्धर्वाणां चित्ररथं गरुडं च पतत्रिणाम्

1.246.250.12

उच्चैःश्रवसमश्वानां गोवृषं च तथा गवाम् ॥
सुवर्णं सर्वरत्नानामोषधीनां तथा यवम्

1.246.250.13

सत्यलोकं च लोकानां पातालानां रसातलम् ॥
शास्त्राणां च यजुर्वेदं सर्वेषामविशेषतः

1.246.250.14

गायत्रीं सर्वमन्त्राणां छन्दसां च यदूत्तम ॥
मृगाणामथ शार्दूलं पन्नगानाञ्च तक्षकम्

1.246.250.15

ऐरावतं गजेन्द्राणां धर्मं सर्वसुखस्य च ॥
वासुकिं सर्वनागानामृषीणां च तथा भृगुम्

1.246.250.16

विद्याधराणां सर्वेषां तथा देवीं सरस्वतीम् ॥
उत्पातानां तथा राहुं ग्रहाणां च दिवाकरम्

1.246.250.17

कालस्यावयवञ्चैव कालं संवत्सरं तथा ॥
व्याधीनां च ज्वरं राज्ये नृणामर्कनिशाकरौ

1.246.250.18

अभिषिक्तो नरेन्द्रेन्द्र ब्रह्मणा स्वयमेव हि ॥
भारतेऽस्मिन्पुरा वर्षे प्राप्ते वैवस्वतेन्तरे

1.246.250.19

तस्मादद्यापि च तयोरंशजाताश्च पार्थिवाः ॥
ततोऽभिषिक्तो देवानां राज्ये देवः शतक्रतुः ॥
संभूय राजभिः सर्वैस्त्रैलोक्यपतिरूर्जितः

1.246.250.1.249.20

वज्र उवाच ॥
राज्येऽभिषिक्तः स कथं महात्मा सम्भूय सर्वैस्त्रिदशारिहर्त्ता ॥
एतन्ममाचक्ष्व भृगुप्रधान भक्तिर्ममेयं त्रिदशेन्द्रशत्रौ

1.246.250.249

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा० सं० शैलूषं प्रति नाडायनवाक्ये प्रतिसमूहे राजकीर्तनं नामैकोन ण्ञ्चाशदुत्तरद्विशततमोऽध्यायः

1.246.250.1

1.250
॥ मार्कण्डेय उवाच ॥
सुमेरौ पर्वतश्रेष्ठे नानारत्नोज्वलत्विषि ॥
प्रजापतिरथादाय राजसंघान्प्रकीर्तितान्

1.246.250.2

अभ्यषिञ्चत देवानां राज्ये कश्यपनन्दनम् ॥
तेजस्विनमथादित्यं जज्ञे निर्धूतकल्मषम्

1.246.250.0

तस्याभिषेके प्रददौ विश्वकर्मा मनोहरम् ॥
रत्नोज्ज्वलं भद्रपीठं कामरूपधरं शुभम्

1.246.250.4

अत्रैवमुपदिश्याथ स्वयं ब्रह्मा जगद्गुरुः ॥
अभ्यषिञ्चत देवानामाधिपत्ये शतक्रतुम्

1.246.250.5

ब्रह्मा विष्णुश्च शम्भुश्च साध्याश्च समरुद्गणाः॥
आदित्या वसवो रुद्रा विश्वेदेवा मरुद्गणाः

1.246.250.6

भृगवोऽङ्गिरसः साध्या अश्विनौ च भिषग्वरौ ॥
ऋषयश्च महाभागास्त्रैकाल्यामलदर्शिनः

1.246.250.7

यानि तोयान्युपादाय समुद्रः सरितस्तथा ॥
सरांसि च सतीर्थानि गन्धर्वाप्सरसस्तथा

1.246.250.8

तस्येन्दुमण्डलाकारं छत्रं जग्राह केशवः ॥
श्वेतौ च बालव्यजनौ तथा चन्द्रदिवाकरौ

1.246.250.9

भृङ्गारं यादसां भर्ता दण्डं दण्डधरः प्रभुः ॥
मेनका चैव रंभा च तालवृन्तौ मनोहरौ

1.246.250.1.250.10

विधिवच्च जुहावाग्निं देवाचार्यो बृहस्पतिः ॥
ततस्तस्य ददौ प्रीत्या वाहनार्थे मदोत्कटम्

1.246.250.11

ऐरावणं चतुर्दन्तं नागं च पुलहः स्वयम् ॥
पुलहः स्वसुतं प्रादाच्छ्वेतं तुरगमेव च

1.246.250.12

तुरगाणां सहस्रं च हरीणां वातरंहसाम् ॥
श्रिया दत्तं ततः प्रीत्या रथवाहनमुत्तमम्

1.246.250.13

तमग्निर्योजयामास काञ्चनेन रथेन च ॥
इन्द्रायुधसवर्णाभिः पताकाभिरनन्तरम्

1.246.250.14

वायुस्तं योजयामास ध्वजं नागेन शङ्करः ॥
बबन्ध मुकुटं तस्य स्वयं ब्रह्मा जगद्गुरुः

1.246.250.15

उपानहौ ददौ तस्य विरूपाक्षस्तथानघ ॥
खड्गश्च विमलोदत्तस्तस्य शुक्रेण यादव

1.246.250.16

चन्दनानि च मुख्यानि गन्धानि विविधानि च ॥
हिमालयः स्वयं तस्य प्रादाल्लोकगुरुर्गुरुः

1.246.250.17

रत्नानि सुविचित्राणि समुद्रः स्वयमेव हि ॥
ददुश्च ऋतवस्तस्य पुष्पाणि च फलानि च

1.246.250.18

ननृतुदेवगन्धर्वा जगुश्चाप्सरसां गणाः ॥
हृष्टं प्रमुदितं चासीत्त्रैलोक्यं सचराचरम्

1.246.250.19

सर्वगन्धानुपादाय सुरभिर्मारुतो ववौ ॥
महता स वरौघेन तर्पयित्वा बृहस्पतिम्

1.246.250.1.250.20

वरौघैस्तर्पयामास सर्वानेव द्विजोत्तमान् ॥
सप्ताहं मानसीं सिद्धिं प्रादात्सर्वेषु जन्तुषु

1.246.250.21

व्याधिमृत्युजराशोकविनिवृत्ता जगत्त्रयी ॥
सप्ताहं नरकस्थानां नैव सर्वाश्च यातनाः

1.246.250.22

सर्वं मुदितमेवासीत्त्रैलोक्यं सचराचरम् ॥
किरीटी स्वनुलिप्ताङ्गः कुण्डलोत्तमभूषितः

1.246.250.23

कौशेयवसनस्तत्र श्वेतमाल्यविभूषणः ॥
श्रियं दधार सोमस्य श्वेतस्थस्य शतक्रतुः

1.246.250.24

भद्रासनगतं शक्रं प्रणेमुः सर्वदेवताः ॥
ख्याप्यमानो महाराज तदा देवेन दण्डिना

1.246.250.25

ऋषयस्तुष्टुवुस्तं च गन्धर्वाप्सरसस्तथा ॥
मङ्गलालंभनं चक्रे ततः शक्रः सुरारिहा

1.246.250.26

पूर्णकुम्भं सुमनसो रत्नान्याज्यं तथा दधि ॥
फलानि श्रीफलं चैव उद्भृतानि वसुंधरा

1.246.250.27

स्वस्तिकान्रुचिरांश्चैव नन्द्यावर्तांश्च काञ्चनम् ॥
कांचनोल्लिखिताश्चैव याश्च मुख्याः सरिद्वराः

1.246.250.28

उदग्दानं तथा दूर्वां दर्पणं चाज्यमेव च ॥
धर्मः सत्यं च शूलं च बलं च यदुनन्दन

1.246.250.29

उपासन्त महाभागं सशरीराः शतक्रतुम् ॥
कांतिर्लक्ष्मीर्धृतिः श्रद्धा पुष्टिर्मेधा क्रिया मतिः

1.246.250.1.250.30

बुद्धिर्लज्जा वपुः शान्तिरनसूया तथैव च ॥
उपासन्त तदा देवं सर्वराजेश्वरं विभुम

1.246.250.31

ततो ववन्दे पितरं मातरं शङ्करं हरिम् ॥
ब्रह्माणं वरदं सौम्यमृषींश्च यदुनन्दन

1.246.250.32

ततो रथेन शुक्रेण स तु मातलियंत्रिणा ॥
विनाशयामास रणे देवतानामरातयः

1.246.250.33

पालयामास सकलं तथैव च जगत्त्रयम् ॥
शक्राभिषेकमेतत्ते कथितं यदुनन्दन

1.246.250.34

श्रोतव्यमभिषेकं तु यात्राकालेषु चाप्यथ ॥।
गृहप्रवेशे वैवाह्ये पुण्याहेषु परेषु च

1.246.250.39

एतत्पवित्रं मङ्गल्यं धन्यं श्रुतिसुखावहम् ॥
पाप्मालक्ष्मीप्रशमनं दुःस्वप्नकिल्बिषापहम्

1.246.250.36

।
पुण्याहकालेषु नरेन्द्रचन्द्र श्रुत्वाभिषेकं बलसूदनस्य ॥
धर्मार्थकामान्पुरुषा लभन्ते व्याधिप्रणाशं च यशस्तथाग्र्यम्

1.246.250.250

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शक्राभिषेको नाम पञ्चाशदुत्तरद्विशततमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc