भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 1.24

1.24.1

वज्र उवाच ॥
देवकार्यं विना विष्णुर्नोत्पत्स्यति महीतले ॥
कस्मिन्कार्ये बभूवासौ दत्तात्रेय इति श्रुतः

1.24.2

मार्कण्डेय उवाच ॥
शक्रेण च यदा वृत्रो हतो वीर्योपबृंहितः

1.24.3

तस्मिन्हतेऽसुरे त्वष्टा विश्वरूपमवासृजत् ॥
तपस्यन्तं च तं गत्वा जघान च शचीपतिः

1.24.4

तस्मिन्हते ब्रह्महत्या जगाम बलसूदनम् ॥
ब्रह्महत्याभिभूतस्तु राज्यं त्यक्त्वा त्रिविष्टपे

1.24.5

मानसे बिसतन्तुस्थो बभूव स पुरन्दरः ॥
राजा कृतः शक्रहीनैर्देवैस्तु नहुषस्तदा

1.24.6

सोऽकामयत पौलोमीं शक्रस्य महिषीं प्रियाम् ॥
कालालाभपरा प्राह शक्रं देवी तथा शची

1.24.7

अपूर्वेण हि यानेन समीपं मे सुरेश्वर ॥
ऋषिभिः शिबिकां युक्त्वा स जगाम तदन्तिकम्

1.24.8

शिबिकां वहमानं तु मन्दंमन्दं द्विजोत्तमम् ॥
पादेन ताडयामास सोऽगस्त्यं पापनिश्चयः

1.24.9

अगस्त्येन तथा शप्तो भव सर्पो महीपते ॥
युधिष्ठिरेण संगम्य शापमोक्षमवाप्स्यसि

1.24.1.24.10

एवमुक्ते तु मुनिना सर्पत्वं स जगाम वै ॥
नष्टे शक्रे च पतिते नहुषे पापनिश्चये

1.24.11

रजस्तमोभ्यामाक्रान्ता बभूवुस्त्रिदशालयाः ॥
ततः प्रवृत्ता लोकेऽस्मिन्ननावृष्टिः सुदारुणा

1.24.12

दुर्भिक्षमरकौ चोभौ विषण्णास्त्रिदशालयाः ॥
नष्टोत्सवमहायज्ञं निर्वषट्कारमङ्गलम्

1.24.13

अनावृष्टिहतं सर्वं बभूव वसुधातलम् ॥
क्षुत्क्षाममानुषप्रायं विनष्टपशुसञ्चयम्

1.24.14

कपालास्थिसमाकीर्णं केशशैवालसंकुलम् ॥
स्नायुभग्नद्विजगणैः क्रव्यादैरतिसंकुलम्

1.24.15

निर्गन्धिकुणपाकीर्णं शून्यप्रायं विभीषणम् ॥
क्षुत्क्षामभूतसङ्घाभ्यां विनिवृत्तवणिक्पथम्

1.24.16

प्रनष्टकृषिवार्तं च दातृभिश्च विवर्जितम् ॥
नरकेऽपि महाघोरे निराक्रन्दैर्जनैयुतैः

1.24.17

दुर्लभान्नं निरानन्दं स्कन्धासक्तकुमारकैः ॥
इतश्चेतश्च यास्यद्भिर्दानवैरतिसंकुलम्

1.24.18

शुष्कतोयाशयं भीमं नामशेषमहापगम् ॥
तस्मिन्काले महाघोरे चोत्सृष्टनियमा द्विजाः

1.24.19

आर्यावर्तं परित्यज्य म्लेच्छदेशमुपाश्रिताः ॥
भक्ष्याभक्ष्यं परित्यज्य कुर्वाणाः प्राणधारणम्

1.24.1.24.20

प्राणधारणसक्तानां क्षुधाव्याकुलचेतसाम् ॥
तेषां ब्रह्म तदा नष्टं धावतां च इतस्ततः

1.24.21

तदा नष्टेषु देवेषु म्लेच्छीभूतमिदं जगत् ॥
म्लेच्छीभूते जगत्यस्मिन्स्वधास्वाहाविवर्जिताः

1.24.22

यथा मर्त्यास्तथा जाताः सर्वे ते देवतागणाः ॥
क्षुत्क्षामकण्ठैस्त्रिदशैः प्रार्थितश्च जनार्दनः

1.24.23

शक्रार्थं त्रिदशा गत्वा त्रैलोक्यहितकाम्यया

1.24.24

तानुवाच हरिर्देवः सर्वे गच्छन्तु मानसम् ॥
बिसतंतुगतं शक्रं तस्माल्लप्स्यथ मा चिरम्

1.24.25

यजतां सोऽश्वमेधेन मामेव सुरसत्तमाः! ॥
अहमेव करिष्यामि विपाप्मानं बिडौजसम्

1.24.26

तत्कृता ब्रह्महत्यां तु चतुर्धा स करिष्यति

1.24.27

अमेध्यक्षेपके वह्नौ पादेनैकेन यास्यति ॥
तथा चैकेन पादेन ह्यशुचिक्षेपके जले

1.24.28

पादेनैकेन च तथा सर्वकाले द्रुमच्छिदम् ॥
रजस्वलांगं पादेन तथा चैकेन यास्यति

1.24.29

अहमंशेन यास्यामि भूतलं सुरकारणात् ॥
नष्टे च भूतले धर्मं स्थापयिष्याम्यहं पुनः

1.24.1.24.30

एतत्सर्वं यथोद्दिष्टं देवदेवेन शार्ङ्गिणा ॥
चक्रुस्सुरगणाः सर्वे राज्यं चावाप वृत्रहा

1.24.31

शक्रेण नित्यं बिसतन्तुगेन ध्यातो महात्मा हरिरप्रमेयः ॥
हत्वापि कामेन स विप्रमुख्यं लेभे त्रिलोकीं पुनरेव तस्मात्

1.24.24

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे वृत्रवधोपाख्यानं नाम चतुर्विंशतितमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc