भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 1.241.245

1.241.245.1

1.241
॥ नाडायन उवाच ॥
वर्तमाने तदा ग्रीष्मे विकसन्मल्लिकाकुले ॥
निवृत्तपान्थसंचारे संतप्तसिकतोत्करे

1.241.245.2

प्रफुल्लदाडिमाक्रान्ते ज्वलिताभवनान्तरे॥
चारुचम्पकपुप्पाढ्यवनराजिविराजिते

1.241.245.3

पाटलापुष्पसंलीनद्विरेफगणमण्डिते॥
संतप्तमहिषीक्रोडलुठत्पङ्कजभूषणे

1.241.245.4

पार्वतोत्तुङ्गमातङ्गविलोडितजलाशये ॥
स्वादुगावच सलिले नीहारावृतपर्वते

1.241.245.5

कर्पूरचन्दनार्द्रांग्यो मृणालवलयाः प्रियाः ॥
रमयन्ति प्रियान्यत्र वनमालाकृतस्रजः

1.241.245.6

सेव्याश्चन्द्रांशवो यत्र कामिनां कामवर्धनाः ॥
रमणीयप्रदोषाश्च सुतरां यत्र रात्रयः

1.241.245.7

रात्र्यन्ते शीतलान्वातान्कुसुमाशयगन्धिनः ॥
समाघ्रायाभिजायन्ते कामिनस्तु रिरंसवः

1.241.245.8

रात्रयः शीघ्रगामिन्यो दिवसा मन्दगामिनः ॥
मिथुनोपगमाद्भानोः संप्रतप्ता भृशं कराः

1.241.245.9

विलीनहिमतोयौघ फेनपुञ्जसमाकुलाः ॥
अत्यर्थशीताः सरितस्तथा हैमेन पर्वताः

1.241.245.1.241.10

तथा बहुलनिर्याससुरभीकृतचन्दनैः ॥
वर्धयन्ति तथा कामं कामिनीनां तु कामुकाः

1.241.245.11

रत्यन्तरसमुत्पन्नमायासश्रमजं जलम् ॥
कर्पूररजसा यत्र नाशयन्ति स्म कामिनः

1.241.245.12

यस्मिन्निदाघे सफलाम्रवृक्षे विभूषणाढ्यो नृप वत्सरस्य ॥
दिदृक्षवस्तं रघुवृन्द मुख्यं तदा प्रयाता पुनयस्त्वयोध्याम्

1.241.245.241

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शैलूषं प्रति नाडायनवाक्येष्वयोध्या दर्शने ग्रीष्मवर्णनं नामैकचत्वारिंशदुत्तरद्विशततमोऽध्यायः

1.241.245.1

1.242
नाडायन उवाच ॥
ततः सभागतं रामं द्वाःस्थो वचनमब्रवीत् ॥
द्वारि तिष्ठन्ति मुनयो यमुनातीरवासिनः

1.241.245.2

भार्गवं तु पुरस्कृत्य च्यवनं दीप्ततेजसम् ॥
महानुभावा वरदास्तपसा दग्धकिल्बिषाः

1.241.245.3

द्वाःस्थात्तु वचनं श्रुत्वा तदा रामः पुरोधसा ॥
सहितस्त्वरया द्रष्टुं तापसाँस्तान्विनिर्गतः

1.241.245.4

सोऽभिगम्य महातेजा ऋषिसङ्घांस्तपस्विनः ॥
अभिवाद्य प्रणम्यैतान्पुरस्कृत्य तदा गृहम्

1.241.245.5

प्रावेशयत्ततस्तेषां पाद्यार्घ्याचमनादिकम् ॥
आसनं मधुपर्कं च तथा राज्यं न्यवेदयत्

1.241.245.6

प्रतिगृह्य तु ते सर्वे राज्यं तस्मै पुनर्ददुः ॥
तद्वच्च तीर्थतोयानि फलानि विविधानि च

1.241.245.7

प्रतिगृह्य च रामस्तान्पृष्ट्वा कुशलमव्यमम् ॥
पप्रच्छ तान्महाभागस्ततस्त्वागमनक्रियाम्

1.241.245.8

रामस्य वचनं श्रुत्वा च्यवनो वाक्यमब्रवीत् ॥
राक्षसो लवणो नाम राजन्मधुवने वसन्

1.241.245.9

लोकांस्तापयते सर्वांस्तस्य यत्नं वधे कुरु ॥
दशप्राणिसहस्राणि चाहारस्तस्य नैत्यिकः

1.241.245.1.242.10

वधार्थं भरतं तस्य शत्रुघ्नं सहलक्ष्मणम् ॥
समा दिश महाभाग लोकाः सन्तु निरामयाः

1.241.245.11

तथा मधुवने स्फीते देशं राम निवेशय ॥
नगरीञ्च यथा पुण्यां लोकानां हितकाम्यया

1.241.245.12

त्वया स भाज्यो रक्ष्याश्च मुनिसंघा महामते ॥
एवमुक्तस्तदा रामश्चिन्तयामास धर्मवित्

1.241.245.13

लक्ष्मणेन महत्कर्म कृतं निवसता वने ॥
राज्यं पालयता कर्म भरतेन महत्कृतम्

1.241.245.14

शत्रुघ्नं प्रेरयाम्यद्य लवणस्य वधेप्सया ॥
इत्येवं चिन्तयित्वा तु रामः शत्रुघ्नमब्रवीत्

1.241.245.15

मुनींश्चैतान्पुरस्कत्य गच्छ शत्रुघ्न मा चिरम् ॥
घातयस्व दुराचारं लवणं पापकारिणम्

1.241.245.16

घातयित्वा च लवणं जनांस्तत्र निवेशय ॥
नगरी च तथा तत्र त्वया कार्या मनोरमा

1.241.245.17

तस्यां वस महाभाग पालयँस्त्वं वसुन्धराम् ॥
तत्राहमभिषेक्ष्यामि राज्ये त्वामृषिभिः सह

1.241.245.18

एतावदुक्त्वा रामस्तद्वाक्यं ऋषिगणान्वितम्॥
अभिषेकेन दिव्येन योजयामास तं तदा

1.241.245.19

उवाच च महातेजा भ्रातरं दीप्ततेजसम् ॥
इमान्यश्वसहस्राणि चत्वारि भवतोऽनघ

1.241.245.1.242.20

रथानां द्वे सहस्रे च द्विपोत्तमशतं तथा ॥
अयुतं च पदातीनां सुवर्णस्य च सञ्चयम्

1.241.245.21

अन्तरापणवीथ्यश्च नानापण्योपशोभिताः ॥
आदाय गच्छ शत्रुघ्न पर्याप्तबलवाहनः

1.241.245.22

बलं च सुभृतं वीर तुष्टपुष्टमनुद्धतम् ॥
वशं च सान्त्वदानाभ्यां कुरुष्व रघुनन्दन

1.241.245.23

न ह्यर्थास्तत्र तिष्ठन्ति न मित्राणि न बान्धवाः ॥
सुप्रीतो भृत्यवर्गस्तु यत्र तिष्ठति राघव

1.241.245.24

स त्वं दुष्टजनाकीर्णां संस्थाप्य महतीं चमूम् ॥
एक एव धनुष्पाणिर्योधयेथा मधोः सुतम्

1.241.245.25

यथा च त्वां न जानाति गच्छ तं युद्धकाङ्क्षिणम् ॥
लवणः स मधोः पुत्रस्तथा निःशङ्कनो व्रज

1.241.245.26

आख्यातो न च तस्यास्ति कश्चिन्मृत्युभयान्वितः ॥
दर्शनं योऽभिगच्छेत हन्यते लवणेन सः

1.241.245.27

माहेश्वरेण शूलेन वियुक्तं मृगयागतम् ॥
द्वारमावृत्य लवणं युध्यस्व रघुनन्दन

1.241.245.28

माहेश्वरममोघं तु शूलं च परिवर्जितम् ॥
गृहाणेमं शरं वत्स सर्वायुधविनाशनम्

1.241.245.29

अनेन लवणं युद्धे घातयिष्यस्यसंशयम् ॥
गच्छ त्वं ग्रीष्मशेषेण लवणस्य जिघांसया

1.241.245.1.242.30

काले तथा प्रावृषि संप्रवृते विवृद्धतोयासु सरिद्वरासु ॥
मद्दत्तबाणेन निशाचरस्य व्यसुं क्षिप्तौ पातय तस्य देहम्

1.241.245.242

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शैलूषं प्रति नाडायनवाक्येषु लवणवधे शत्रुघ्नं प्रति रामानुशासनं नाम द्विचत्वारिंशदुत्तर द्विशततमोऽध्यायः

1.241.245.1

1.243
राम उवाच ॥
संप्राप्य प्रावृषं वत्स भीमतोयदनिःस्वनाम् ॥
निषिद्धपान्थसंचारां विद्युत्क्षुभिततोयदाम्

1.241.245.2

मेघैस्तोयभरानम्रैः स्थगितार्कनिशाकराम् ॥
प्रवर्षणजलाघातविकासितसरोरुहाम्

1.241.245.3

यस्यां घनवरत्रासात्पीनोत्कम्पिपयोधराः ॥
कुर्वन्त्यालिङ्गनं कान्ताः कान्तानां मनसः प्रियम्

1.241.245.4

भूमिर्नवतृणच्छन्ना शक्रगोपाद्यभूषिता॥
भीमौघनादविस्तीर्णा फेनवत्यश्च निम्नगाः

1.241.245.5

सतोयतोयदाक्रांतं स्निग्धनीलं नभस्तलम् ॥
बलाकाः शोभयन्ति स्म शारदं तारका इव

1.241.245.6

घना घनागमारूढा धृतवासवकार्मुकाः ॥
तोयौघबाणधाराभिः प्रववर्षुर्महीतलम्

1.241.245.7

धाराकदम्बबकुलकुटजार्जुनशोभिताः ॥
पक्वजम्ब्वाम्रशालिन्यो वनराज्यो मनोहराः

1.241.245.8

निदाघतापसंतप्ता नवतोयसमुक्षिता ॥
मही विसृजते यस्यां गन्धमाल्यगुणं स्वकम्

1.241.245.9

गर्जमानेषु मेघेषु मृदङ्गध्वनिसन्निभम् ॥
अस्यां मयूरा नृत्यंति विकसत्सत्कलापिनः

1.241.245.1.243.10

समीरणेन मृदुना नुन्नाः खे च पयोधराः ॥
महिष्यश्च विसर्पन्ति पयःपूर्णपयोधराः

1.241.245.11

प्रत्यूषे संचरन्तीनां महिषीणां तदा समम् ॥
घण्टानिनादो मधुरः श्रूयते तृणगह्वरे

1.241.245.13

स्थलयः कृष्णसारङ्गक्षेत्रैरनिमिषैरिव ॥
यस्यां पश्यन्ति शत्रुघ्न जलपूर्णमहीतलम् ॥ ।१२ ॥
मेघपातेन हद्येन पृषतोत्करशालिना ॥
कामिन्यः कामिनां सार्धं त्याजिता रघुनन्दन

1.241.245.14

अपारगम्याः सरितो राजानो गतविग्रहाः ॥
बलाहकगणच्छत्रा द्यौस्तथैव सविग्रहा

1.241.245.15

न निर्वृतसुखोद्वाहकाम्याकाम्यक्रिया मही ॥
प्रहृष्टपौरानुगतैः संवत्सरपुरोहितैः

1.241.245.16

व्यग्रा भवन्ति राजनः शक्रयष्टिप्रवेशने ॥
शैलैर्नवतृणच्छन्नैस्तथा नीलाभ्रशेखरैः

1.241.245.17

कान्तिमद्भिर्विशेषेण विराजति वसुन्धरा ॥
तां प्रावृषं प्राप्य नदत्पयोदप्रनर्तिताशेषशिखण्डिवृन्दाम् ॥
द्वारं समाश्रित्य मधोस्तनूजं धनुर्धरस्त्वं जहि राजपुत्र

1.241.245.243

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शैलूषं प्रति नाडायनवाक्ये प्रावृड्वर्णनं नाम त्रिचत्वारिंशदुत्तरद्विशततमोऽध्यायः

1.241.245.1

1.244
राम उवाच ॥
हत्वा प्रावृषि तं पापं यमुनातीरगोचरः ॥
नय त्वं शारदं कालं यावत्सुप्तो जनार्दनः

1.241.245.2

रमणीयतरा यत्र नद्यः प्रकटसैकताः ॥
सुस्वादुशीतसलिला स्सारसैरुपशोभिताः

1.241.245.3

बालार्कसदृशैः पद्मैः पद्मिन्यो यत्र भूषिताः ॥
सरसां विमलं यत्र तोयं मधुरशीतलम्

1.241.245.4

वरस्त्रीनयनाकारचारुपत्र विभूषणैः ॥
पश्यंतीवोत्पलैर्व्योम उत्पलिन्यः सुनिर्मलम्

1.241.245.5

नभःसरसि विस्तीर्णे तारानुगुणचित्रिते ॥
शोभते च निशीथेषु हंसवद्विचरञ्शशी

1.241.245.6

आदधानो महच्चापं संदधानश्च दृश्यते ॥
यावत्संपूर इत्येव बाणैर्भूमितलं शरत्

1.241.245.7

जातीकुसुमहृद्यासु बन्धुजीवोज्ज्वलासु च॥
मनः प्रसादमायाति हृद्यासु वनराजिषु

1.241.245.8

पक्वसस्या वसुमती परां धारयति श्रियम् ॥
कलविङ्काः प्रहृष्टाश्च पक्वकेदारपङ्क्तिषु

1.241.245.9

निम्नगा काथवसनाश्चक्रवाकयुगस्तनाः ॥
सारसारावहासिन्यः सुतरां रतिवर्द्धनाः

1.241.245.1.244.10

हंसैः संघट्टनोपेतकह्लाररजसोत्करैः ॥
सरांसि दुर्विभाव्यानि कुशलैरपि मानवैः

1.241.245.11

पाण्डुराभ्रकृतन्यासाः सर्व एव शिलोच्चयाः ॥
श्रियं विडम्बयंतीव तुषाराद्रेः समुज्ज्वलाम्

1.241.245.12

शरत्प्रभूतोत्पलचारुपद्मां विपक्वकेदारविभूषितोर्वीम्॥
नीत्वा ततः प्राप्य हिमस्य कालं कार्यस्त्वया पत्तनसन्निवेशः

1.241.245.244

इति श्रीविष्णुधर्मोत्तरे प्रथम खण्डे मार्कण्डेयवज्रसंवादे शैलूषं प्रति नाडायनवाक्येषु शत्रुघ्नं प्रति रामानुशासने शरद्वर्णनंनाम चतुश्चत्वारिंशदुत्तरद्विशततमोऽध्यायः

1.241.245.1

1.245
॥ राम उवाच ॥
प्रबुद्धे पुण्डरीकाक्षे हेमन्ते वैष्णवे ऋतौ ॥
कार्यः पुरनिवेशस्ते तथा जनपदस्य वा

1.241.245.2

पक्वनारङ्गसुभगे नीहारावृतनिम्नगे ॥
प्रलूनधान्यकेदारे गततुन्दशिलीमुखे

1.241.245.3

कृतसंग्रहणे काले प्रवृत्तनृपविग्रहे ॥
विपङ्कवसुधे रम्ये स्वादुशीतजलाशये

1.241.245.4

विशाला यत्र यामिन्यः सुतरां सुरतक्षमाः ॥
भृशं मनोहरा यूनां पीडितालिङ्गनक्षमाः

1.241.245.5

यत्र शीतापदेशेन मानिनीभिरपि स्वयम् ॥
क्रियते त्यक्तमानाभिः प्रियकण्ठग्रहोत्सवः

1.241.245.6

सुखोष्णोदकगान्धर्वरम्यप्रस्रवणोदके ॥
प्ररूढपवनोद्भूते काले नीलधरातले

1.241.245.7

वासोद्गमनसंरुद्धदुर्विभाव्यनदीतटे ॥
सारसारावविज्ञेये काले कामिजनप्रिये

1.241.245.8

यत्रेक्षुपीडयन्त्राणां यष्ट्यः पुरुषचोदिताः ॥
भाग्यानीव मनुष्याणामुन्नमन्ति नमन्ति च

1.241.245.9

कृताग्रायणपूजाश्च हुतहव्या द्विजातयः ॥
यत्र प्रवेशहृष्टाश्च तथा यत्र च कर्षकाः

1.241.245.1.245.10

गृहेषु च सुखोष्णेषु गवां निःश्वास मारुतैः ॥
स्वाध्यायघोषो विप्राणां नृणां यत्र सुखावहः

1.241.245.11

सिताभिः पच्यमानाभिः क्रियमाणैस्तथा गुडैः ॥
रम्यः सुशीतलः कालः प्राणिप्रियहुताशनः

1.241.245.12

विचरन्ति नरा यत्र गुरुप्रावरणाम्बराः ॥
कुंकुमेनानुलिप्ताङ्गा धनिनः प्रियदर्शिनः

1.241.245.13

अश्वायामक्षमे काले यत्र यूनां विशेषतः ॥
मृगया दयिता वत्स मन्दरश्मौ दिवाकरे

1.241.245.14

रोहिताशनपुष्टानां साधुनारङ्गवासितम् ॥
महिषीणां तु मथितं गन्धवर्णरसान्वितम्

1.241.245.18

इक्षवश्च विदार्यश्च तथैव मूलकानि च ॥
रसवन्ति विशेषेण यत्र पिष्टकृतानि च

1.241.245.16

प्रवृत्तमेखलाबन्धविवाहादिक्रिये जने ॥
प्रबुद्धे पुण्डरीकाक्षे प्रवृत्ते यज्ञसंस्तरे

1.241.245.17

काले प्रहृष्टाश्वकरीन्द्रमुख्ये कार्या त्वया राघव वास्तुपूजा ॥
आरम्भणीयं नगरस्य कर्म शिवाय सर्वस्य जनस्य वत्स

1.241.245.245

॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शैलूषं प्रति नाडायनवाक्येषु शत्रुघ्नं प्रति रामसमुपदेशे हेमन्तवर्णनं नाम पञ्चचत्वारिंशदुत्तरद्विशततमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc