भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 1.236.240

1.236.240.1

1.236
॥ नाडायन उवाच ॥
प्रभावमपरं तस्य शृणु देवस्य शूलिनः॥
यथा विमोक्षितस्तेन श्वेतो मृत्युवशं गतः

1.236.240.2

श्वेतो नाम महातेजा ऋषिः परमधार्म्मिकः ॥
पूजयामास सततं लिङ्गं त्रिपुरघातिनः

1.236.240.3

तस्य पूजाप्रसक्तस्य कदाचित्पृथिवीपते ॥
आजगाम तमुद्देशं कालः परमदारुणः

1.236.240.4

रक्तवृत्तत्रिनयनः सर्पवृश्चिकरोमवान् ॥
दंष्ट्राकरालो विकटः चूर्णिताञ्जनसप्रभः

1.236.240.5

रक्तवासा महाकायः सर्पाभरणभूषितः ॥
पाशहस्तस्तथाभ्येत्य श्वेते पाशमथासृजत्

1.236.240.6

कण्ठार्पितेन पाशेन श्वेतः कालमथाब्रवीत् ॥
क्षणमात्रं प्रतीक्षस्व मम त्रिभुवनान्तक

1.236.240.7

निवर्त्तयाम्यहं यावत्पूजनं मन्मथद्विषः ॥
तमब्रवीत्तदा कालः प्रहसन्वसुधाधिप

1.236.240.8

न श्रुतं तु त्वया मन्ये वृद्धानां श्वेत जल्पितम् ॥
श्वः कार्यमद्य कुर्वीत पूर्वाह्णे चापराह्णिके

1.236.240.9

न हि प्रतीक्षते मृत्युः कृतं वा स्यान्न वा कृतम् ॥
गर्भे वाप्यथ बाल्ये वा यौवने वार्धकेपि वा

1.236.240.1.236.10

आयुष्ये कर्मणि क्षीणे लोकोऽयं नीयते मया ॥
नौषधानि न मंत्राश्च न होमो न पुनर्जपः

1.236.240.11

त्रायन्ति मृत्युनोपेत्ं जरया वापि मानवम् ॥
बहूनीन्द्रसहस्राणि पितामहशतानि च

1.236.240.12

मया नीतानि कर्त्तव्यो नात्र मन्युस्त्वयानघ ॥
विधत्से पूजनं यस्य महादेवस्य शूलिनः

1.236.240.13

देहन्यासं स बहुधा मया वै श्वेत कारितः ॥
स्वयं प्रभुर्न चैवाहं कर्मायत्ता मतिर्मम

1.236.240.14

कर्मणां हि तथा नाशं नास्ति भूतस्य कस्यचित् ॥
कर्ममार्गानुसारेण धात्राहं संप्रचोदितः

1.236.240.15

नयामि सर्वमाक्रम्य त्रैलोक्यं सचराचरम् ॥
एवमुक्तस्तु कालेन नीयमानस्त्रिलोचनम्

1.236.240.16

जगाम सर्वभावेन शरणं भक्तवत्सलम् ॥
श्वेते तु शरणं प्राप्ते लिङ्गस्य त्रिपुरान्तकः

1.236.240.17

भूतभव्यभविष्यद्भिः प्रादुर्भावैस्तु शार्ङ्गिणः ॥
आत्मनः कवचं कृत्त्वा कृतरक्षो महेश्वरः

1.236.240.18

भित्त्वा लिङ्गं समुत्तस्थौ क्रोधविस्फारितेक्षणः ॥
तृतीयलोचनज्वालाप्रकाशितजगत्त्रयः

1.236.240.19

दृष्टमात्रस्तदा तस्य कालो जज्वाल तेजसा ॥
स शान्तो भस्मभूतश्च सर्वभूतविधिर्ग्रहः

1.236.240.1.236.20

श्वेतस्य दत्त्वा सामीप्यं गणेशत्वं तथैव च ॥
कृत्वा विधिग्रहं कालं तत्रैवान्तरधीयत

1.236.240.21

ततः प्रभृति राजेन्द्र कालः स कलयन्प्रजाम्॥
न कैश्चिद्दृश्यते लोके विदेहत्वाज्जगत्त्रये

1.236.240.22

॥ शैलूष उवाच ॥ ॥
वैष्णवं कवचं ब्रह्मन्सर्वबाधानिवारणम् ॥
त्वत्तोहं श्रोतुमिच्छामि तत्र मे संशयो महान्

1.236.240.23

॥ नाडायन उवाच ॥
अदृश्यमेतत्परमं पवित्रं पूर्वेरितं कल्मषनाशनं च ॥
दुःखापहं ते कवचं ब्रवीमि रक्षा कृता येन महेश्वरेण

1.236.240.236

इति श्रीविष्णुधर्मोत्तरे प्रथम खण्डे मार्कण्डेयवज्रसंवादे कालदारणो नाम षटत्रिंशदुत्तरद्विशततमोऽध्यायः

1.236.240.1

1.237
॥ महेश्वर उवाच ॥ ॥
प्रणम्याजरमीशानमजं नित्यमनामयम् ॥
देवं सर्वेश्वरं विष्णुं सर्वव्यापिनमव्ययम्

1.236.240.2

बध्नाम्यहं प्रतिसरं नमस्कृत्य जनार्द्दनम् ॥
अमोघमप्रतिहतं सर्वदुःष्टनिवारणम्

1.236.240.3

विष्णुर्ममाग्रतः पातु कृष्णो रक्षतु पृष्ठतः ॥
हरिर्मे रक्षतु शिरो हृदयं च जनार्द्दनः

1.236.240.4

मनो मम हृषीकेशो जिह्वां रक्षतु केशवः॥
पातु नेत्रे वासुदेवः श्रोत्रे संकर्षणस्तथा

1.236.240.5

प्रद्युम्नः पातु मे घ्राणमनिरुद्धो मुखं मम ॥
वनमाली गलं पातु श्रीवक्षो रक्षतात्पुरः ॥
पार्श्वं तु पातु मे चक्रं वामं दैत्यविदारणम्

1.236.240.6

दक्षिणं तु गदा देवी सर्वासुरनिवारिणी ॥
उदरं मुसली पातु पृष्ठं पातु च लाङ्गली

1.236.240.7

ऊरू रक्षतु शार्ङ्गी मे जङ्घे रक्षतु चर्मकी ॥
पाणी रक्षतु शंखी च पादौ मे चरणावुभौ ॥
सर्वकार्यार्थसिद्ध्यर्थं पातु मां गरुडध्वजः

1.236.240.8

वराहो रक्षतु जले विषमेषु च वामनः ॥
अटव्यां नरसिंहस्तु सर्वतः पातु केशवः

1.236.240.9

हिरण्यगर्भो भगवान्हिरण्यं मे प्रयच्छतु ॥
सांख्याचार्यस्तु कपिलो धातुसाम्यं करोतु मे

1.236.240.1.237.10

श्वेतद्वीपनिवासी च श्वेतद्वीपं नयत्वजः ॥
सर्वाञ्शत्रून्सूदयतु मधुकैटभसूदनः

1.236.240.11

विकर्षतु सदा विष्णुः किल्बिषं मम विग्रहात् ॥
हंसो मत्स्यस्तथा कूर्मः पातु मां सर्वतो दिशम्

1.236.240.12

त्रिविक्रमस्तु मे देवः सर्वान्पाशान्निकृन्ततु ॥
नरनारायणो देवो बुद्धिं पालयतां मम

1.236.240.13

शेषो शेषामलज्ञानः करोत्वज्ञाननाशनम् ॥
वडवामुखो नाशयतु कल्मषं यन्मया कृतम्

1.236.240.14

विद्यां ददातु परमामश्वमूर्द्धा मम प्रभुः ॥
दत्तात्रेयः पालयतु सपुत्रपशुबान्धवम्

1.236.240.15

सर्वान्रोगान्नाशयतु रामः परशुना मम ॥
रक्षोघ्नो मे दाशरथिः पातु नित्यं महाभुजः

1.236.240.16

रिपून्हलेन मे हन्याद्रामो यादवनन्दनः ॥
प्रलम्बकेशिचाणूरपूतनाकंसनाशनः

1.236.240.17

कृष्णो यो बालभावेन स मे कामान्प्रयच्छतु ॥
अन्धकारं तमो घोरं पुरुषं कृष्णपिङ्गलम्

1.236.240.18

पश्यामि भयसंतप्तः पाशहस्तमिवान्तकम्॥
ततोऽहं पुण्डरीकाक्षमच्युतं शरणं गतः

1.236.240.19

योगीशमतिरूपस्थं शुभशीतांशुनिर्मलम् ॥
धन्योऽहं विजयी नित्यं यस्य मे भगवान्हरिः

1.236.240.1.237.20

स्मृत्वा नारायणं देवं सर्वोपद्रवनाशनम् ॥
वैष्णवं कवचं बद्ध्वा विचरामि महीतले

1.236.240.21

अप्रधृष्योस्मि भूतानां सर्वं विष्णुमयो ह्यहम् ॥
स्मरणाद्देवदेवस्य विष्णोरमिततेजसः

1.236.240.22

सिद्धिर्भवतु मे नित्यं तथा मंत्र उदाहृतः ॥
यो मां पश्यति चक्षुर्भ्यां यं च पश्यामि चक्षुषा

1.236.240.23

सर्वासां समदृष्टीनां विष्णुर्बध्नातु चक्षुषा ॥
वासुदेवस्य यच्चक्रं तस्य चक्रस्य ये अराः

1.236.240.24

ते च च्छिन्दन्तु मे पापं मा मे हिंसन्तु हिंसकाः ॥
राक्षसेषु पिशाचेषु कान्तारेष्वटवीषु च

1.236.240.25

विवादे राजमार्गेषु द्यूतेषु कलहेषु च ॥
नदीसन्तरणे घोरे संप्राप्ते प्राणसंशये

1.236.240.26

अग्निचौरनिपाते च सर्वग्रहनिवारणे ॥
विद्युत्सर्पविषोद्योगे खातोदे रिपुसङ्कटे

1.236.240.27

तथ्यमेतज्जपेन्नित्यं शारीरे भय आगते॥
अयं भगवतो मन्त्रो मंत्राणां परमो महान्

1.236.240.28

विख्यातं कवचं गुह्यं सर्वपापप्रणाशनम् ॥
स्वमायाकृतनिर्माणं कल्पांतगृहलोपकृत् ॥
अनाद्यं तज्जगद्बीजं पद्मनाभ नमोस्तु ते

1.236.240.29

ॐकालाय स्वाहा ॥
ॐकालपुरुषाय स्वाहा ॥
ॐप्रचण्डाय स्वाहा ॥
ॐप्रचण्डपुरुषाय स्वाहा ॥
ॐसर्वाय स्वाहा ॥
ॐसर्वसर्वाय स्वाहा ॥
ॐनमो भुवनेशाय त्रिलोकधाम्ने इतिटिपिरिटि स्वाहा ॥
ॐउत्तमेनअघे तु मे वायु तु मे ये सत्त्वाः पापानुचारास्तेषां दैत्यदानव यक्षराक्षसभूतप्रेतपिशाच कूष्माण्डापस्मारोन्मादनज्वराणां एकाहिक द्वितीयक तार्तीयक चातुर्थिक मौहूर्त्तिक दिनज्वर रात्रिज्वर सततज्वर सन्ध्याज्वर सर्वज्वरादीनामुत्सादन लूताकीटककंटककटपूतनाभुजगस्थावरविषविषमविषादीनामिदं शरीरं ममाप्रधृष्यं भवतु ॐ सुकारे प्रकरोत्कटकविकटद्रंष्ट्रपूर्वतो रक्ष ॥
ॐ हैं हैं हैं हैं दिनकरसहस्रकान्तसमोग्रतेजः पश्चिमतो रक्षरक्ष ॥
ॐ निरिनिरिप्रदीप्तज्वलन ज्वालाकालमहाकपिलजटिल उत्तरत्तो रक्ष ॥
ॐ चिलिचिलि मिलिमिलि चेकडि गौरिगांधारि विषोहनि विषं मां मोहयतु स्वाहा ॥
दक्षिणतो रक्ष माममुकस्य सर्वभूतभयोपद्रवेभ्यः स्वाहा ॥
जयति विजयदानं जायतां रिपुपुरहासनुनवध्यते भयहृदयभयदोभयेभयं दिशतु ममायमुदारमच्युतः॥
यदुदरमखिलं विशन्ति रश्मयः ॥
आद्यन्तवन्तः कवयः पुराणाः सूक्ष्मा बृहन्तो ह्यनुशासितारः ॥
सर्वज्वरान्घ्नन्तु ममानिरुद्धप्रद्युम्नसंकर्षणवासुदेवाः

1.236.240.237

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा०सं० शैलूषं प्रति नाडायनवाक्ये विष्णुकवचं नाम सप्तत्रिंशदुत्तरद्विशततमोऽध्यायः

1.236.240.1

1.238
॥ वज्र उवाच ॥
श्रुत्वा कालाङ्गदहनं ब्राह्मणेन समीरितम् ॥
किं पप्रच्छ तदा ब्रह्मञ्शैलूषो मृत्युचोदितः

1.236.240.2

मार्कण्डेय उवाच॥
श्रुत्वा कालाङ्गदहनं ब्राह्मणेन समीरितम् ॥
रावणस्यैव चरितं भूयः पप्रच्छ तं तदा

1.236.240.3

शैलूष उवाच ॥ चरितस्यावशेषं यद्दशग्रीवस्य रक्षसः ॥
तदहं श्रोतुमिच्छामि तत्र मे संशयो महान्

1.236.240.4

नाडायन उवाच ॥
ततोऽस्य नगरं भूयः परिचक्राम रावणः ॥
स ददर्श तदा तत्र प्रासादं सर्वकाञ्चनम्

1.236.240.5

मुक्ताजालपरिक्षिप्तं तथा विद्रुमतारणम् ॥
गारुडेन च रक्तेन समन्तात्कृतवेदिकम्

1.236.240.6

वैडूर्यरुचिरस्तम्भं पद्मरागप्रभोज्ज्वलम् ॥
इन्द्रनीलप्रभाच्छन्नं निर्यूहशतशोभितम्

1.236.240.7

महाभुवनसंबाधं महोद्यानविभूषितम् ॥
सुखारोहणसोपानं दीर्घिकाशतसंकुलम्

1.236.240.8

सर्वर्तु कुसुमैर्वृक्षैः समन्तादुपशोभितम् ॥
सर्वासनयुतं रम्यं महेन्द्रभवनाधिकम

1.236.240.9

तन्तु दृष्ट्वा गृहं राजन्प्रहस्तं वाक्यमब्रवीत् ॥
प्रहस्त शीघ्रं जानीहि कस्येदं भवनोत्तमम्

1.236.240.1.238.10

एवमुक्तः प्रहस्तस्तु प्रविवेश गृहोत्तमम् ॥
संप्राप्तायां च कक्षायां भिन्नाञ्जनचयोपमम्

1.236.240.11

सर्वाभरणसंवीतं सर्वलक्षणलक्षितम् ॥
गृहीत्वा लोहमुसलं द्वारदेशे व्यवस्थितम्

1.236.240.12

ददर्श पुरुषं भीमं ज्वालामण्डलदुर्दृशम् ॥
तं तु दृष्ट्वा तथाभूतं स विवेश दशाननः

1.236.240.13

समाप्तायां च कक्षायां स ददर्श तमेव हि ॥
तमुवाच महातेजा निशाचरगणेश्वरः

1.236.240.14

युद्धार्थ्यहमनुप्राप्तो युद्धातिथ्यं प्रयच्छ मे ॥
अथ वा तस्य शंस त्वं गृहे योस्मिन्व्यवस्थितः

1.236.240.15

ततो राक्षसराजस्य पुरुषो वाक्यमब्रवीत् ॥
तिष्ठत्यस्मिन्गृहे राजा दानवानां बलिर्बली

1.236.240.16

तेन चेद्योत्स्यसे वीर प्रविशेदं गृहोत्तमम् ॥
योद्धुं नार्हसि तेन त्वं स महात्मा महाबलः

1.236.240.17

ब्रह्मण्यश्च शरण्यश्च शूरः सत्यपराक्रमः ॥
वीरो बहुगुणोपेतो बलवान्दृढविक्रमः ॥
बालार्क इव तेजस्वी समरेष्वनिवर्त्तकः

1.236.240.18

प्रियंवदः संविभागी गूढ साक्ष्याय तत्परः ॥
एवमुक्तो दशग्रीवः प्रविवेश गृहोत्तमम्

1.236.240.19

अथ संदर्शनादेव बलिना सुमहात्मना ॥
शीघ्रमुत्सङ्गमारोप्य पृष्टस्त्वागमनं ततः

1.236.240.1.238.20

तस्योवाच महातेजा रावणो राक्षसाधिपः ॥
श्रुतं मया महाभाग बद्धस्त्वं किल विष्णुना

1.236.240.21

सोऽहं मोचयितुं शक्तो बन्धनात्त्वां न संशयः ॥
एवमुक्तस्ततो हासं बलिर्मुक्त्वेदमब्रवीत्

1.236.240.22

एते मे कुण्डले दिव्ये महारत्नोपशोभिते ॥
अनयोरेकमानीय चात्रोपविश मा चिरम्

1.236.240.23

अत्रोपविष्टस्य च ते व्याख्यास्ये विष्णुविक्रमम् ॥
एवमुक्तो दशग्रीवः कुण्डलानयने ततः

1.236.240.24

चकार परमं यत्नं न शशाक च शत्रुहा ॥
यदा चालयितुं स्थानान्न शशाक स कुण्डलम्

1.236.240.25

प्रस्विन्नसर्वगात्रस्तु संदष्टदशनच्छदः ॥
भ्रकुटीसंकटमुखः परं विस्मयमागतः

1.236.240.26

उत्सङ्गे तदवस्थे तु बलिः कृत्वेदमब्रवीत् ॥
हिरण्यकशिपुर्नामाभवन्मे प्रपितामहः

1.236.240.27

यदा बभूव तस्येमे कुण्डले वै बभूवतुः ॥
एताभ्यां कुण्डलाभ्यां तु सोऽभूत्पूर्व विभूषितः

1.236.240.28

ऊर्वोरारोप्य नखरैः करैस्तेन विदारितः ॥
कथमद्य महाभागं तं त्वं जेतुं व्यवस्यसि

1.236.240.29

स एव पुरुषः श्यामो द्वारि तिष्ठति नित्यशः ॥
एतेन दानवेन्द्राश्च तथान्ये बलदर्पिताः

1.236.240.1.238.30

वशं नीता बलवता पूर्वपूर्वतराश्च ये ॥
बद्धश्चाहमनेनैव कालोऽयं दुरतिक्रमः

1.236.240.31

क एनं पुरुषं लोके वञ्चयिष्यति राक्षस ॥
लोकत्रयस्य सर्वस्य कर्ता हर्ता तथैव च

1.236.240.32

संहरत्येष भूतानि स्थावराणि चराणि च ॥
पुनश्च सृजते सर्वमनाद्यन्तो महेश्वरः

1.236.240.33

इष्टं चैव हुतं चैव तपस्तप्तं तथैव च ॥
सर्वस्येव हि लोकेशो धाता गोप्ता न संशयः

1.236.240.34

सर्वदेवमयश्चैव सर्वभूतमयस्तथा ॥
सर्वलोकमयश्चैव सर्वज्ञानमयस्तथा

1.236.240.35

सर्वरूपी महारूपी महाबालो महाभुजः ॥
स्मृत्वा स्तुत्वा तथेष्ट्वा च सर्वमस्मादवाप्नुयात्

1.236.240.36

एतच्छ्रुत्वा च वचनं रावणो निर्ययौ तदा ॥
न च तं पुरुषं तत्र ददर्श रजनीचरः

1.236.240.37

समेत्य रक्षोधिपतिः सहायश्चचार भूयः पृथिवीसमग्राम्॥
न चाप्यसौ कञ्चिदपश्यतान्यं लोकेषु धीरं त्रिदशारिमुख्यः

1.236.240.238

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शैलूषं प्रति नाडायनवाक्ये बलिरावणसमागमो नामाष्टत्रिंशदुत्तरद्विशततमोऽध्यायः

1.236.240.1

1.239
॥ नाडायन उवाच ॥ ॥
स कदाचिन्महीं सर्वां विचरन्धनदानुजः ॥
पश्चिमे सागरद्वीपे ददर्श पुरुषं शुभम्

1.236.240.2

जांबूनदसमप्रख्यं ज्वलितानलसुप्रभम् ॥
विश्वरूपधरं देवं वरदं कामरूपिणम्

1.236.240.3

धर्मस्तस्य तपश्चैव जगतः सिद्धिहेतुके ॥
ऊरू चाश्रित्य तस्थाते मन्मथः शिश्नमाश्रितः

1.236.240.4

विश्वेदेवाः कटीभागे मरुतो बस्तिशीर्षके ॥
पादयोश्च धरादेवी पिशाचाश्च नखाश्रिताः

1.236.240.5

मध्येष्टौ वसवस्तस्य समुद्राः कुक्षिमाश्रिताः ॥
पार्श्वेषु च दिशः सर्वाः सर्वस न्धिषु मारुतः

1.236.240.6

पितरश्चाश्रिताः पृष्ठे हृदये च पितामहः ॥
गोदानानि पवित्राणि भूमिदानानि यानि च

1.236.240.7

सुवर्णस्य च दानानि यकृल्लोमान्तराणि च ॥
अस्थिभागेषु शैलाश्च शिरासु सरितस्तथा

1.236.240.8

मणिवक्षोऽभवत्तस्य शरीरे द्यौरव स्थिता ॥
कृकाटिकायां सन्ध्याश्च तलवाहाश्च ये घनाः

1.236.240.9

बाहू धाता विधाता च भगः पूषा तथा करौ ॥
नागा घोरविषाः सर्वे करजेषु व्यवस्थियताः

1.236.240.1.239.10

अग्निरास्यमभूत्तस्य स्कन्धौ रुद्रैरधिष्ठितौ ॥
दन्ता मासर्तवश्चैव दंष्ट्रास्तस्य तु वत्सरः

1.236.240.11

नासायां चाप्यमावस्या तच्छि द्रेषु च वासराः ॥
ग्रीवा तस्याभवद्वेदी वाणी चाथ सरस्वती

1.236.240.12

नासत्यौ श्रवणौ चोभौ नेत्रे शशिदिवाकरौ ॥
वेदाङ्गानि च यज्ञाश्च तारा रूपाणि यानि च

1.236.240.13

एतानि नररूपस्य तस्य देहाश्रितानि वै ॥
तेनातिकायेन तदा राक्षसः पाणिपीडितः

1.236.240.14

मुमूर्च्छ सचिवाश्चास्या पलायन्त दिशो दश ॥
ऋग्वेदप्रतिमः श्रेष्ठः पद्ममालाविभूषितः

1.236.240.15

क्रमेण च विवेशाथ पातालं गिरिसन्निभः ॥
उत्थाय च दशग्रीवश्चाहूय सचिवत्रयम्

1.236.240.16

क्व गतः सहसा ब्रूत प्रहस्तशुकसारणाः॥
एवमुक्ते राक्षसेन्द्रे राक्षसास्तमथाब्रुवन्

1.236.240.17

प्रविष्टः स नरोत्रैव देवदानवदर्पहा॥
तलेन तेनैव ततः प्रविवेश निशाचरः

1.236.240.18

एक एव महातेजा वरदानात्स्वयंभुवः ॥
प्रविश्य ददृशे तत्र सर्वाभरणभूषितान्

1.236.240.19

नित्यो त्सवाच्छांतभयान्निष्कलान्पावकप्रभान् ॥
चतुर्भुजान्महारूपाञ्छ्रीवत्सकृतलाच्छनान्

1.236.240.1.239.20

एकरूपधरान्यर्वान्रक्तमाल्यानुलेपनान् ॥
रागद्वेषविनिर्मुक्तान्सर्वशक्तीञ्जगत्प्रभून्

1.236.240.21

नृत्येन गीतवाद्येन सेवमानाञ्जनार्दनम् ॥
मानुष्यं पूजनं कृत्वा देवदेवस्य चक्रिणः

1.236.240.22

समीपं समनुप्राप्तास्तस्यैव परमेष्ठिनः ॥
दृष्टाः कोट्यः सहस्राणां दृष्ट्वा च रजनीचरः

1.236.240.23

ऊर्ध्वरोमास्ततस्तस्माद्देशाद्देशमपासरत ॥
जगाम ददृशेऽप्यत्राप्यनौपम्यगुणं गृहम्

1.236.240.24

ददर्श च तदा तत्र पुरुषं शयने स्थितम् ॥
पाण्डुरेण महार्घेण शयनासनवाससा

1.236.240.25

शेते स पुरुषव्याघ्रः पावकेनावगुण्ठितः ॥
दिव्यगन्धानुऽलिप्तांगो दिव्याभरणभूषितः

1.236.240.26

दिव्याम्बरधरा साध्वी त्रैलोक्यस्यैकभूषणम् ॥
बालव्यजन हस्ता वै रूपेणाप्रतिमा भुवि

1.236.240.27

पादावुत्संग आरोप्य तस्य देवस्य चक्रिणः ॥
जिघृक्षुः सहसा साध्वीं राक्षसेभ्योऽपतद्बलात्

1.236.240.28

अवगुण्ठनमात्रं वै दृष्टं तेन महात्मनः ॥
जहासोच्चैस्तदा देवो दृष्ट्वा तं राक्षसेश्वरम्

1.236.240.29

तेजसा स तु दैवस्य रावणो लोकरावणः ॥
कृन्तमूलो यथा शाखी निपपात महीतले

1.236.240.1.239.30

पतितं राक्षसेन्द्रं तं देवो वचनमब्रवीत् ॥
उत्तिष्ठ मरणं नास्ति साम्प्रतं ते निशाचर

1.236.240.31

प्रजा पतिवरो रक्षो येन जीवसि साम्प्रतम् ॥
तमब्रवीत्तदा राजा राक्षसानां तु विह्वलः

1.236.240.32

को भवाच्छयने शेते युगान्तानलसन्निभः ॥
एवमुक्तः स तेनाथ प्रत्युवाच निशाचरम्

1.236.240.33

कि ते मया दशग्रीव वध्योसि न चिरान्मम ॥
एवमेव च मृत्युस्ते भविष्यति दशानन

1.236.240.34

यां जिघृक्षसि मोहात्त्वं भूयश्चैनां हरिष्यसि ॥
मानुष्यमहमासाद्य त्वां वधिष्यामि रावण

1.236.240.35

अस्याः कृते विशालाक्ष्याः साम्प्रतं गच्छ राक्षस ॥
श्रुत्वैतद्वचनं देवाद्रावणो वाक्यमब्रवीत्

1.236.240.36

नास्ति धन्यतरो लोके मया लोकत्रये विना ॥
त्वद्धस्तान्मरणं यस्य भविष्यति जगत्प्रभो ॥

1.236.240.37

यशस्यं श्लाघनीयं च त्वद्धस्तान्मरणं मम ॥
अथास्य गात्रे संपश्यद्रावणो भीमविक्रमः

1.236.240.38

त्रैलोक्यं सकलं राजन्विश्वरूपधरस्य तु ॥
दृष्ट्वैतद्रावणो राजन्विस्मयोत्फुल्ललोचनः

1.236.240.39

बहुमेने तथात्मानं निर्जगाम तथैव च ॥
देवदेवाभ्यनुज्ञातः स जगाम तदा गृहम्

1.236.240.1.239.40

तस्य देवो वधार्थाय चतुर्मूर्त्तिर्जनार्दनः ॥
मानुष्यमागतं राजंस्तेन मा विग्रहं कृथाः

1.236.240.41

रामो जनार्दनः साक्षात्सीता लक्ष्मीस्तथैव च ॥
तथा भरतशत्रुघ्नौ लक्ष्मणोऽपि महायशाः

1.236.240.42

विष्णोर्भागास्त्वया ज्ञेया विष्णुतुल्यपराक्रमाः ॥
शत्रुघ्नेन महत्कर्म लवणस्य वधे कृतम् ॥
तस्मादभ्यधिकं मन्ये भरतं धर्मवत्सलम्

1.236.240.43

न देवसङ्घैर्मनुजैर्न यक्षैर्न राक्षसैर्नागवरैर्न दैत्यैः ॥
रणे विजेतुं रघवस्तु शक्या येषां स नाथो हरिरप्रमेयः

1.236.240.239

॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शैलूषं प्रति नाडायनवाक्ये रावणस्य महापुरुषदर्शनं नामैकोनचत्वारिंशदुत्तरद्विशततमोऽध्यायः

1.236.240.1

1.240
॥ शैलूष उवाच ॥ ॥
लवणस्य वधं ब्रह्मञ्श्रोतुमिच्छामि तत्त्वतः ॥
शत्रुघ्नेन कथं युद्धे लवणो विनिपातितः

1.236.240.2

॥ नाडायन उवाच ॥ ॥
अयोध्यायामयोध्यायां राजन्दाशरथौ स्थिते ॥
अनतीते कदाचित्तु वसन्ते रतिवर्धने

1.236.240.3

नात्युष्णशीते ससुखे सर्वप्राणिमनोहरे ॥
उत्फुल्लशाखिसंलीनचारुस्वनशिलीमुखे

1.236.240.4

कोकिलारावबहुले सप्रवालवनस्पतौ ॥
सुखार्ककिरणे काले विभूषितधरातले

1.236.240.5

पत्रचूताग्रशाखास्थपरपुष्टनिनादिते ॥
गन्तुकामाः प्रवसिताः पन्था भूयो निवर्तिताः

1.236.240.6

मञ्जर्यः सहकाराणां यत्र लग्ना शिलीमुखाः ॥
कामनामाङ्किता बाणाः कामस्येव शरीरिणाम्

1.236.240.7

कामिन्यः कामिनां कामं यत्र त्यजयतो दृढम् ॥
समीरणेन दाक्षिण्यं सर्वत्र प्रकटीकृतम्

1.236.240.8

मृदुप्रवातसंनुन्नप्रसूनयवशालिनी ॥
क्ष्वेडपङ्क्तिः सुरुरुचे वहमानेव निम्नगा

1.236.240.9

आलिङ्गितास्तु मधुना समन्ताद्वनराजयः ॥
फुल्लैः पलाशैः प्रकटं रागं बभ्रुस्तदा स्वयम्

1.236.240.1.240.10

समीरणेन मृदुना पुष्पपत्रार्चिता मही ॥
रात्रौ व्यभ्रस्य नभसः श्रियमूहे सशाद्वला

1.236.240.11

वञ्चितैर्नवजातानां वत्सानां मृदुभाषिणाम् ॥
गोष्ठेषु शोभा महती यस्मिन्गंधर्वसत्तम

1.236.240.12

हम्भारवविराविण्यः स्त्वरमाणपदक्रमाः ॥
यस्मिन्वत्सोत्सुका गावः प्रविशन्ति दिनक्षये

1.236.240.13

स्तनं पिबद्भिर्मातॄणां वत्सैरुत्क्षिप्तपुच्छकैः ॥
मुहुर्मुदं परां यत्र मातृलीढैस्तु गोपिनः

1.236.240.14

यत्र पुष्पोच्चयं चक्रुः कामिनीपाणिपल्लवाः ॥
पल्लवानां तु सादृश्याद्विज्ञाता नैव कामिभिः

1.236.240.15

ऋतुकोकिलसंगीतौ द्विरेफध्वनिवल्लकीम् ॥
श्रुत्वैव ननृतुर्यत्र मृदुवातहता लताः

1.236.240.16

तस्मिन्व्यतीते तु मधौ नरेन्द्र संतापयामास जगत्समग्रम् ॥
निदाघकालो लवणोपमस्तु संरुद्धमार्गोऽतिबृहत्पलाशः

1.236.240.240

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शैलूषं प्रति नाडायनवाक्येष्वयोध्यावसन्त वर्णनं नाम चत्वारिंशदुत्तरद्विशततमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc