भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 1.231.235

1.231.235.1

1.231
॥ शेष उवाच ॥ ॥
नृणां ग्रहगृहीतानां लक्षणं कथयाशु मे ॥
प्रतिषेधं च धर्मज्ञ तत्र मे संशयो महान् ॥

1.231.235.2

॥ नाडायन उवाच ॥ ॥
देवर्षिपितृभूतानां सततं चावमाननात् ॥
गुरुवृद्धद्विजाचार्यसिद्धतापसमर्दनात्

1.231.235.3

बलिमंगलहोमादि नियमाचारवर्जनात् ॥
व्रताध्ययनधर्मादिध्यानयोगव्यतिक्रमात्

1.231.235.4

गुडामिषतिलक्षौद्रमेध्यैरुच्छेषितस्य वा ॥
श्मशानायतनाभ्यासविण्मूत्रोत्सर्जनादपि

1.231.235.5

रात्रौ चतुष्पथारण्यशून्यवेश्मनिवेशनात् ॥
भोजनाद्भिन्नभाण्डेषु तथा मंत्रच्छलादपि

1.231.235.6

श्मशानचैत्यवृक्षादि मैथुनादिनिषेवणात् ॥
अवमानादभीघातान्मङ्गलानामदर्शनात्

1.231.235.7

ईर्ष्यया बन्धुशापाच्च रथ्यावस्कन्धसेवनात ॥
ऐश्वर्यनाशाच्छोकाच्च दर्पोत्सेकातिहर्षणात्

1.231.235.8

निर्लज्जनास्तिकानां हि त्रासितानां विशेषतः ॥
गुरुभिः सम्परित्यागात्कार्त्तघ्न्यात्साधुनिन्दनात्

1.231.235.9

दुःखात्प्रजननात्स्त्रीणां मिथ्या चैव प्रभाषणात् ॥
तुषकेशकपालास्थिकार्पासादिष्वधिष्ठितात्

1.231.235.1.231.10

प्राणिनां सुखदुःखेषु तथा मृतकसूतके ॥
अत्यर्थनक्तस्नानेषु ग्रहा गृह्णन्ति मानवान्

1.231.235.11

बलैश्वर्यविसंयोगाद्देहमाविशति ग्रहः ॥
जीवः कुक्षिं यथा दृश्यः प्रविशन्नेव दृश्यते

1.231.235.12

वनस्पतीन्वा ऋतवो विज्ञेयाश्च तथा ग्रहाः ॥
कारणैर्नवभिदेहं ग्रहो गृह्णाति देहिनाम्

1.231.235.13

रौद्रस्वभावाद्धिंसार्थी रत्यर्थी बलिकामुकः ॥
वित्रासार्थी बलोद्रेकाद्रौद्रात्प्राग्दैहिकाद्भयात्

1.231.235.14

प्रयुक्तोन्येन मन्त्रैश्च ग्रहो गृह्णाति मानवान् ॥
कारणानि तवोक्तानि यद्यप्येतानि पार्थिव

1.231.235.15

तथापि त्रय एवात्र विज्ञेयानि विपश्चिता ॥
तेषामन्तर्भवन्त्येते यस्मात्पार्थिवसत्तम

1.231.235.16

बलिकामस्तु रत्यर्थी हिंसार्थी च तथा ग्रहः ॥
असाध्यं बलिकामं तु कृच्छ्रसाध्यं रतिग्रहम्

1.231.235.17

हन्तुकाममसाध्यन्तु विना मन्त्रबलं महत् ॥
सांत्वपूर्वं ग्रहो विष्टो मधुरं यः प्रजायते

1.231.235.18

ततश्चान्तरमासाद्य विचित्रं याचते बलिम् ॥
पानमाल्यानुलेपांश्च वैद्यं दृष्ट्वा नमस्यति

1.231.235.19

बलिकामस्य लिङ्गानि प्रोक्तान्येतानि वै मया ॥
रमते नृत्यति शुचिस्तथा हसति गायति

1.231.235.1.231.20

गंधमाल्याम्बरस्नानधूपोद्वर्त्तनसेवकः ॥
कथा विचित्राः कुरुते मधुरं सम्प्रभाषते

1.231.235.21

अलंकृतं चाविशति वर्जयत्यनलंकृतम् ॥
रतिकामस्य रूपाणि ज्ञेयान्येतानि बुद्धिना

1.231.235.22

यश्चाविष्टो विद्रवति सिंहव्याघ्रतरक्षुपम् ॥
युद्धमारभते कर्त्तुं गजादिभिरभीतवत्

1.231.235.23

भृशं ताडयति स्वाङ्गं पतत्यग्नौ पतङ्गवत् ॥
राजद्वेषाणि कुरुते विजने रमतेऽधिकम्

1.231.235.24

करोति मरणोपायान्हन्तुं कामार्दितो नरः ॥
लोमहर्षोङ्गमांद्यं च छायावैकृत्यमेव च

1.231.235.25

अमानुषोत्साहबलं विहाराहारचेष्टितम् ॥
द्वौ वा त्रयो वा नेत्रेऽस्य संपश्यन्ते कुमारकाः

1.231.235.26

निमीलिताक्षितात्यर्थं रक्तादिवमनं तथा ॥
सामान्यमेतदुद्दिष्टं गृहीतस्य तु लक्षणम्

1.231.235.27

मुक्तस्य लक्षणं चातः प्रवक्ष्यामि निबोधत ॥
भूमौ विनिपतत्याशु तथा संज्ञां प्रपद्यते

1.231.235.28

परामृशति केशांश्च वासांस्याभरणानि च ॥
शुभाशुभं चात्मकार्यं पृच्छति स्म सुहृज्जनम्

1.231.235.29

अतः परं प्रवक्ष्यामि देवादिग्रहलक्षणम् ॥
चिकित्सितेन संयुक्तं तन्निबोध जनाधिप

1.231.235.1.231.30

नदीकूलाद्रिशिखररुचिः प्रासादमेव च ॥
शुचिशील समाचारो ज्ञेयो देवग्रहार्द्दितः

1.231.235.31

देवानां पूजनं तस्य पुष्पधूपफलाक्षतैः ॥
गन्धदीपप्रदानैश्च वह्निसन्तर्पणैस्तथा

1.231.235.32

गोरसैश्च स शाल्यन्नैर्ब्राह्मणैः स्वस्तिवाचनैः ॥
कर्त्तव्यं विदुषा नित्यं ततः संपद्यते सुखी

1.231.235.33

उच्छिष्टान्भैरवान्रावान्विरसं कुरुतेऽधिकम् ॥
तस्मिंस्तथोत्सवान्यक्षान्व्रतानध्ययनानि च

1.231.235.34

बहुशो वटुचाश्नाति वस्त्रं पाटयति स्वकम् ॥
असुरग्रहदुष्टस्य रूपमेतद्विनिर्द्दिशेत्

1.231.235.35

दैत्यसंपूजनं तस्य कार्यं मांससुरासवैः ॥
रक्तैः पुष्पैर्धूपदीपैस्तथा बीजसमुद्भवैः

1.231.235.36

गन्धर्ववाद्यनिर्घोषं श्रुत्वा हृष्टः प्रनृत्यति ॥
तीर्थोद्याननदीतीरगन्धमाल्यादिसेवनात्

1.231.235.37

यथाकामं विचरति गन्धर्वोन्मादितो नरः ॥
गन्धैर्माल्यैश्च विविधैर्गीतवाद्यैस्तथैव च

1.231.235.38

गन्धर्वपूजनं कार्यं तेन संपद्यते सुखी ॥
निद्रालुरलसो दुष्टो दर्वीवत्कुरुते करौ

1.231.235.39

गर्भवासगुहासेवी नरोन्मत्तं विदुर्बुधाः ॥
नागानां पूजनं तस्य कार्यं कुल्माषपर्पटैः

1.231.235.1.231.40

पायसोल्लोपिकापूपैः पद्मोत्पलबिसैस्तथा ॥
अमत्सरी मृदुर्वीरः प्रियवाग्बहुभोजनः

1.231.235.41

पृथुविह्वलताम्राक्षः तथा वै गोरसप्रियः ॥
भूतोन्मादसमाविष्टो लिङ्गैरेतैर्विनिर्दिशेत्

1.231.235.42

कुसुमैर्बहुवर्णैश्च गोरसैर्विविधैस्तथा ॥
भूतपूजा तु कर्त्तव्या तेन सम्पद्यते सुखी

1.231.235.43

शून्यागारश्मशानाद्रिचतुष्पथनिषेवकः ॥
रात्रौ चरति योच्छिष्टः पिशाचोन्मादितो नरः

1.231.235.44

पिशाचयजनं तस्य कर्त्तव्यं पललामिषैः ॥
कण्टकीसम्भवैः पुष्पैः कृष्णवर्णैस्तथैव च

1.231.235.45

अव्यक्तभाषी रक्ताक्षो हास्ये चोच्चस्वरस्तथा ॥
रौद्रं निरीक्षतेऽत्यर्थं यक्षेनोन्मादितो नरः

1.231.235.46

कुल्माषघृतपिण्याकपललोल्लोपिकागुडैः ॥
यक्षाणां पूजनं तस्य कर्तव्यं दोषशान्तये

1.231.235.47

उद्विग्नचेताः शीतश्च नातिशोकपरायणः ॥
राक्षसेन गृहीतश्च भवत्योष्ठविलेहकः

1.231.235.48

पक्वामिषेण मांसेन रुधिरेण तथैव च ॥
राक्षसानां बलिः कार्यस्तस्य दोषप्रशान्तये

1.231.235.49

भस्मपांशुरजोध्वस्तो मलिनो मलिनाम्बरः ॥
प्रेतगृहीतो भवति विकृतो ध्वस्तमस्तकः

1.231.235.1.231.50

ओदनं मधुपानीयं सर्पिः क्षीरसमन्वितम्

1.231.235.51

प्रेतानां तत्र दातव्यं तेन संपद्यते सुखी ॥
शुचिः शुचिसमाचारः सन्ध्याचारी तिलप्रियः

1.231.235.52

पितृग्रहगृहीतस्य रूपमेतद्विनिर्दिशेत ॥
तिलगोरसपुष्पान्नमधुमूलफलैः शुभैः

1.231.235.53

दीपैर्दानैस्तथा नित्यं प्रणिपातेन चाज्ञया ॥
पितॄणां पूजनं तस्य कर्त्तव्यं दोषशान्तये

1.231.235.54

अधीते जपते चैव शुचिस्तिष्ठति चाप्यथ ॥
योगासक्तस्तथार्षेण गृहीतो मानवो भवेत्

1.231.235.55

हविर्गोरसपुष्पाद्यैस्तथाऽध्ययनसंस्तवैः ॥
ऋषीणां पूजनं कार्यं तस्य दोषप्रशान्नये

1.231.235.56

कर्मप्रसक्तो भवति न निद्रां भजते दिवा ॥
पौरुषेण गृहीतस्य लक्षणं समुदाहृतम

1.231.235.57

ब्राह्मणान्भोजयेत्तत्र मिष्टमन्नं सुसंस्कृतम् ॥
गन्धमाल्योज्वलान्राजंस्तस्य दोषप्रशान्तये

1.231.235.58

स्कन्दग्रहगृहीतानां बालानां शृणु लक्षणम ॥
रोदिति स्तनति ध्याति भूमौ स्वपिति चासकृत्

1.231.235.59

असम्बद्धप्रलापी वा ज्ञेयः स्कन्दग्रहार्द्दितः ॥
रक्तैः पुष्पैः फलैर्मूलैः बालक्रीडनकैस्तथा

1.231.235.1.231.60

घण्टा च कुक्कुटैः पूजा बलिना विविधेन च ॥
पताकाभिश्च कर्त्तव्या कुमारस्य महात्मनः

1.231.235.61

अतः परं लोकहितं तवाद्य सर्वग्रहघ्नान्निपुणान्प्रयोगान् ॥
वक्ष्यामि येषां हि निषेवणेन ग्रहैर्विमुच्यन्ति नरा नरेन्द्रान्

1.231.235.231

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शैलूषं प्रति नाडायन वाक्ये ग्रहलिङ्गानि नामैकत्रिंशदुत्तरद्विशततमोऽध्यायः

1.231.235.1

1.232
॥ नाडायन उवाच ॥
अभ्यङ्गोत्सादनं स्नानं धूपो रक्षाबलिर्घृतम ॥
नेत्राञ्जनं प्रधवनं नवग्रहहराः क्रियाः

1.231.235.2

सर्पगन्धा वचा कुष्ठमुस्ताक्षेपणचन्दनैः ॥
सक्षीरमूत्रैर्विपचेत्तैलं सर्वग्रहापहम्

1.231.235.3

बिल्वमध्यं ब्रह्मदत्त गवाक्षीबृहतीफलम् ॥
उत्सादनमिदं श्रेष्ठं श्लक्ष्णपिष्टं जलेन तु

1.231.235.4

उशीरकुष्ठमञ्जिष्ठादेवदारुमनःशिलाः ॥
श्रीवेष्टकस्तथा कौन्ती हरितालैलवालुके

1.231.235.5

एतच्चूर्णीकृतं सर्वं पञ्चगव्यांशमिश्रितम् ॥
सर्वग्रहप्रशमनं स्नानमायुष्यमुत्तमम्

1.231.235.6

सर्षपाश्च खुरं कुष्टं घृतं भल्लातकं वचा॥
पूतीकमजमोदा च धूपः सर्वग्रहापहः

1.231.235.7

शस्त्रं वा रोचनं शस्तं सुवर्णं मणिमौक्तिकम् ॥
विषं सवत्सां धेनुं च मत्तं छागं तथैव च

1.231.235.8

पूर्णकुम्भं च मंत्राश्च वीणा चन्दनमेव च ॥
मयूरपक्षान्रजतं समार्गणगुणं धनुः

1.231.235.9

भल्लातकानि सर्पिश्च रक्षार्थं धारयेद्गृहे ॥
पुष्पैर्धूपैस्तथा गन्धैर्भक्ष्यैर्नानाविधैस्तथा

1.231.235.1.232.10

पूर्णकुम्भैः सकुल्माषैर्गोरसैश्चन्दनेन च ॥
धूपैरन्नप्रकारैश्च बलिः कार्यो विजानता

1.231.235.11

कायस्थां ज टिलां वीरां वयस्थां नकुलीद्वयम् ॥
जयां च विजयां चैव मानां पर्पटकम्बरीम्

1.231.235.12

मर्कटीं सूकरीं छत्रामतिच्छत्रां पलङ्कषाम् ॥
रामां पूतनकां केशीं मारटां कटुकां वचाम्

1.231.235.13

चौरकां विष्णुदत्तां च वृष्टिकाण्डीं च चूर्णयेत् ॥
पुराणमेभिर्विपचेद्घृतं तोये चतुर्गुणे

1.231.235.14

महापैशाचकं नाम सर्वग्रहनिवारणम् ॥
रसाञ्जनं त्रिकटुकं मञ्जिष्ठा समनःशिला

1.231.235.15

समानि च्छागमूत्रेण पिष्ट्वा वर्तिन्तु कारयेत् ॥
छाया शुष्कं तु तं कुर्यादञ्जनं ग्रहनाशनम्

1.231.235.16

श्वेतज्योतिष्मतीं व्योषं वस्त्रसूत्रेण वेष्टितम् ॥
छायाशुष्के पुनः पिष्टं ज्ञेयं प्रशमनं हितम् ॥

1.231.235.17

संपूजनं देवगुरुद्विजानां भक्तिः परा चक्रगदाधरस्य ॥
येषां न तेषां प्रभवन्ति दीपा ग्रहोद्भवा भूमिपतिप्रधान

1.231.235.232

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे ग्रहबाधाप्रतिषेधो नाम द्वात्रिंशदुत्तरद्विशततमोऽध्यायः

1.231.235.1

1.233
॥ शैलूष उवाच ॥ ॥
स्कन्दस्य शरणं प्राप्तान्ग्रहाञ्श्रुत्वा शतक्रतुः ॥
यश्चकार महाभाग तन्ममाचक्ष्व पृच्छतः

1.231.235.2

॥ नाडायन उवाच ॥
स्कन्दस्य शरणं प्राप्ताञ्श्रुत्वा शतमखो ययौ ॥
देवदेवगणैः सार्द्धं स्कन्दो यत्र व्यवस्थितः

1.231.235.3

स्कन्दं देवेश्वरो दृष्ट्वा दीप्ततेजःसमद्युतिम् ॥
तुष्टाव राजशार्दूल प्रयतः सुसमाहितः

1.231.235.4

॥ शक्र उवाच ॥ ॥
देवदेवं नमस्यामि कुमारं वरमच्युतम् ॥
कार्तिकेयं दुराराध्यं वह्नितेजः समुद्भवम्

1.231.235.5

उमाशङ्करजं भीमं गङ्गया जठरे धृतम् ॥
शक्तिहस्तं विशालाक्षं षण्मुखं दीप्ततेजसम्

1.231.235.6

भक्तानुकम्पिनं दांतं ब्रह्मण्यं वरदं प्रभुम् ॥
काकपक्षधरं शांतं शिखण्डकविभूषितम्

1.231.235.7

रक्ताम्बरं महाबाहुं मयूरवरगामिनम् ॥
घण्टाप्रियं गणाध्यक्षं महाबलपराक्रमम् ॥

1.231.235.8

देवसेनापतिं देवं सर्वलोकहितेप्सया ॥
षष्ठ्यान्तु शुक्लपक्षस्य ये च त्वां भौमवासरे

1.231.235.9

कृत्तिकास्वर्चयिष्यन्ति यथालाभं पृथक्पृथक् ॥
न तेषां दुर्ल्लभं किञ्चिद्भविष्यति सुरोत्तम

1.231.235.1.233.10

द्वियोगे द्विगुणं तेषां फलं स्कन्द भविष्यति ॥
त्रियोगे पूजनं कृत्वा भवतः सुरसत्तम

1.231.235.11

अक्षयं फलमाप्स्यन्ति नात्र कार्या विचारणा ॥
वैशाखमासादारभ्य पञ्चम्यां य उपोषितः

1.231.235.12

भवन्तं पूजयेत्षष्ठ्यां संवत्सरमतन्द्रितः ॥
पुत्रार्थी लभते पुत्रान्धनकामो धनानि च

1.231.235.13

मृतश्च प्राप्नुयात्स्वर्गं त्वयि तुष्टे हरात्मज ॥
स्तोत्रेण च मदीयेन ये स्तोष्यन्ति तव प्रभो ॥

1.231.235.14

लोकद्वयेऽपि ते कामान्प्राप्स्यन्ति मनसेप्सितान् ॥
॥ स्कन्द उवाच ॥ ॥
पिता मे दैवतं शक्र महादेवः प्रतापवान्

1.231.235.15

तस्याज्ञया करिष्यामि यन्मां वक्ष्यति वासव ॥
॥ नाडायन उवाच ॥ ॥
ततः प्रादुरभूत्तत्र देवदेवस्त्रिलोचनः

1.231.235.16

अभ्यषिञ्चत्कुमारं च ब्रह्मणा सहितः प्रभुः ॥
सेनापत्येन देवानां सोऽभिषिक्तस्तदा प्रभो

1.231.235.17

जघान महिषं नाम दानवं देवकण्टकम् ॥
महिषेन समान्वीर्ये जघानायुतशोऽपरान्

1.231.235.18

बहुत्वाद्दानवान्वीरः स्कन्दः परबलार्द्दनः ॥
यदा हन्तुं न शक्नोति तदा देवस्त्रिलोचनः

1.231.235.19

जघान मनसा तत्र ततः शूलवरायुधः ॥
जघान दानवानन्याञ्शतशोऽथ सहस्रशः

1.231.235.1.233.20

भक्ताऽनुकम्पी भगवांस्त्रिनेत्रो देवारिसंघान्विनिपात्य संघे ॥
कृत्वा त्रिलोकीं च तदा प्रहृष्टां जगाम कैलासगिरिं महात्मा

1.231.235.233

॥
इति श्रीविष्णुधर्मोत्तरे प्रथमकाण्डे मार्कण्डेयवज्रसंवादे महिषवधो नाम त्रयस्त्रिंशदुत्तरद्विशततमोऽध्यायः

1.231.235.1

1.234
॥ नाडायन उवाच ॥ ॥
तस्यैव देवदवस्य प्रभावमपरं शृणु ॥
यष्टुकामैः सुरैः पूर्वं यज्ञे भागो न कल्पितः

1.231.235.2

यदा राजंस्त्रिनेत्रस्य तदा क्रुद्धेन शंभुना ॥
यज्ञवाटं ततो गत्वा देवा वित्रासिता बलात्

1.231.235.3

पुरोडाशं भक्षयित्वा पूष्णो दन्तानशातयत ॥
भगस्य नयनं वामं बभञ्ज परवीरहा

1.231.235.4

क्रुद्धं दृष्ट्वा महादेवं मृगरूपधरस्तदा ॥
प्राद्रवत्सहसा यज्ञो नरनारायणाश्रमम्

1.231.235.5

तमन्वयो महातेजा बाणचापधरो हरः ॥
यज्ञानुसारिणं प्राप्तं हरं बाणधनुर्धरम्

1.231.235.6

नारायणस्तु तं चक्रे विह्वलं कण्ठपीडनात् ॥
विह्वले तु महादेवे यज्ञो दिवमथाश्रितः

1.231.235.7

हरोऽपि लब्धसंज्ञस्तमन्वयौ दिवि सत्त्वरः ॥
न शशाक मृगं वेद्धुं यदा धर्मश्च तेजसा

1.231.235.8

ततस्तं बोधयामास ब्रह्मा शुभचतुर्मुखः ॥
भगस्य पूर्णं च तदा प्रसादमकरोत्पुनः

1.231.235.9

यज्ञस्य चाभयं दत्त्वा क्रीडयान्वेति तं पुनः ॥
तारामृगश्च गगने महादेवानुगः सदा

1.231.235.1.234.10

दृश्यते स महाभाग रात्रौ गगनभूषणः

1.231.235.11

क्रुद्धेन रुद्रेण सुरा निरस्ताः स्वस्थाः प्रसन्नेन कृताश्च भूयः ॥
तस्मात्प्रसन्नास्तु भवाय लोके क्रुद्धश्च लोकान्तकरः प्रदिष्टः

1.231.235.234

इति श्रीविप्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे यजविध्वंसनो नाम चतुस्त्रिंशदुत्तरद्विशततमोऽध्याय

1.231.235.1

1.235
॥ नाडायन उवाच ॥
तस्यैव देवदेवस्य प्रभावमपरं शृणु ॥
तेन विध्वंसितो यज्ञो यदा दक्षस्य धीमतः

1.231.235.2

दक्षस्य यजमानस्य गङ्गाद्वारे पुरा प्रभो ॥
अनाह्वाने च शर्वस्य देवीप्रकुपिताऽभवत

1.231.235.3

देव्याः प्रकोपाच्च तथा क्रुद्धः शूलधरस्तदा ॥
वीरभद्रेति विख्यातं क्रोधजं सृष्टवान्गणम्

1.231.235.4

भद्रकाली स्वकाद्देहात्सृष्टवत्यथ पार्वती ॥
गणैरनुगतो राजन्वीरभद्रो महायशाः

1.231.235.5

भद्रकालीं तथा गत्वा दक्षयज्ञमशातयत् ॥
विध्वस्यमानं यज्ञन्तु पार्वत्या सहितः शिवः

1.231.235.6

दृष्टवांस्तत्र राजेन्द्र भद्रकर्णेश्वरः स्थितः ॥
विध्वस्यमाने यज्ञे तु दक्षो वचनमब्रवीत्

1.231.235.7

वीरभद्रं महाभागं भद्रकालीं तथैव च ॥
कौ भवन्ताविह प्राप्तौ मम यज्ञोपघातकौ

1.231.235.8

वीरभद्र उवाच ॥
क्रुद्धेन शङ्करेणावां भागस्यापरिकल्पनात् ॥
यज्ञविध्वंसनार्थाय प्रेषितौ ते परन्तपौ

1.231.235.9

भद्रकर्णेश्वरं शर्वं गच्छ शीघ्रं प्रसादय ॥
नाडायन उवाच ॥
वीरभद्रवचः श्रुत्वा गत्वा तुष्टाव शङ्करम्

1.231.235.1.235.10

अश्वमेधसहस्राग्र्यं फलं लेभे त्रिलोचनात् ॥
त्रिलोचनस्तदा तुष्टो वीरभद्रमभाषत

1.231.235.11

यत्रस्थेन त्वया यज्ञो दक्षस्याद्य विनाशितः ॥
तत्र स्थाने तु सततं सान्निध्यं त्वं करिष्यसि

1.231.235.12

पूजां च विपुलां तत्र प्रास्प्यसे मत्प्रसादजाम् ॥
ये च त्वां पूजयिष्यन्ति वीरभद्र गणेश्वर

1.231.235.13

ते नाकपृष्ठं यास्यन्ति नात्र कार्या विचारणा ॥
दक्षेण च समाहूता भद्रकर्णेश्वरे त्वया

1.231.235.14

सरस्वती महाभागा प्रविष्टा जाह्नवीजलम् ॥
सङ्गमे च तयोः स्नात्वा पूजां मम करिष्यति

1.231.235.15

यः पुमान्स गणेशत्वं मम प्राप्स्यत्यसंशयम्॥
गङ्गाद्वारं कुशावर्तं बिल्वकं नीलपर्वतम्

1.231.235.16

तथा कनखलं तीर्थं सर्वपापप्रमोचनम् ॥
भविष्यति महाभाग तथैव च मनोहरम्

1.231.235.17

प्रजापतेर्यज्ञभुवं समासाद्य यतस्ततः ॥
मोक्ष्यते पातकं सर्वं त्रिदिवं च गमिष्यति

1.231.235.18

भूमिष्ठमुद्धृतात्पुण्यं तस्मात्प्रस्रवणोदकम्॥
तस्मादपि तथा पुण्यं सारसं परिकीर्तितम् ॥
सारसान्नैर्झरं पुण्यं नादेयमपि नैर्झरात्

1.231.235.19

तस्मादपि च गाङ्गेयं तदिहापि विशेषतः ॥
सर्वत्र दुर्लभा गङ्गा त्रिषु स्थानेषु दुर्लभा।

1.231.235.1.235.20

गङ्गाद्वारे प्रयागे च गङ्गासागरसङ्गमे॥
गङ्गाद्वारे कुशावर्त्ते बिल्वके नीलपर्वते

1.231.235.21

स्नात्वा कनखले तीर्थे न पुनर्जन्मभाग्भवेत् ॥
तीर्थपञ्चकमेतद्धि यत्रैव गणनायकः

1.231.235.22

तत्र सन्निहितो ब्रह्मा तत्राहं तत्र केशवः ॥
तत्र देवगणाः सर्वे ऋषयश्च तपोधनाः

1.231.235.23

तत्समीपे च ते स्थानं त्विदं दत्तं मया तव ॥
तत्र त्वं सततं वत्स लोकात्पूजामवाप्स्यसि

1.231.235.24

एवमुक्त्वा महातेजा वीरभद्रं महेश्वरः ॥
उवाच वचनं देवो भद्रकालीं महेश्वरः

1.231.235.29

महेश्वर उवाच ॥
नमोस्तु ते महाभागे वरदे कामरूपिणि ॥
अष्टादशभुजे स्वस्ति शूलमुद्गरधारिणि

1.231.235.26

पीतकौशेयवसने शशाङ्कसदृशानने ॥
नीलोत्पलदलश्यामे गजकुम्भोपमस्तनि

1.231.235.27

वरदे चारुसर्वाङ्गि सर्वाभरणभूषिते॥
कमण्डलुधरे देवि देवारिबलनाशिनि

1.231.235.28

अदितिश्च दितिश्चैव वनिता सिद्धिरेव च॥
रात्रिर्निद्रा प्रभा कान्तिर्बुद्धिर्लक्ष्मीः सरस्वती

1.231.235.29

धृतिः कीर्तिः स्वधा स्वाहा त्वमेव वरवर्णिनी ॥
त्वां जनाः पूजयिष्यन्ति सर्वकामप्रदां शुभाम्

1.231.235.1.235.30

नवम्यां शुक्लपक्षस्य लोकात्पूजामवाप्स्यसि ॥
नवम्यां पूजयिष्यन्ति ये त्वा सम्यगुपोषिताः

1.231.235.31

तेषां त्वं काम्यदा सौम्ये भविष्यसि न संशयः ॥
कन्दरेषु च शैलानां वनानां गहनेषु च

1.231.235.32

रंस्यसे त्वं विशालाक्षि तदा पूजामवाप्स्यसि ॥
ये च त्वां मत्प्रभावज्ञाः पूजयिष्यन्ति मानवाः

1.231.235.33

न तेषां दुर्लभं किञ्चिदिहलोके परत्र च ॥
ये चेदं मत्कृतं स्तोत्रमभिदास्यन्ति भक्तितः

1.231.235.34

ते सर्वे भयनिर्मुक्ता भविष्यन्ति न संशयः ॥
नाडायन उवाच॥
एतावदुक्त्वा वचनं तत्रैवान्तरधीयत

1.231.235.35

दक्षोपि च वरं लब्ध्वा मुदं लेभे त्रिलोचनात्

1.231.235.36

एवं प्रभावो वरदः स देवो भक्तानुकम्पी जगतो निवासः ॥
कस्यास्य वक्तुं नृपवर्य तस्य गुणान्प्रवक्तुं सकला हि शक्तिः

1.231.235.235

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शैलूषं प्रति नाडायनवाक्ये दक्षयज्ञविध्वंसनो नाम पञ्चत्रिंशदुत्तरद्विशततमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc