भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 1.226.230

1.226.230.1

1.226
॥ नाडायन उवाच ॥ ॥
तस्यैव देवदेवस्य शृणु कर्मेदमुत्तमम ॥
आसीद्दैत्योन्धको नाम भिन्नाञ्जनचयोपमः

1.226.230.2

तपसा महता युक्तस्त्ववध्यश्च दिवौकसाम् ॥
स कदाचिन्महादेवं पार्वत्या सहितं प्रभुम्

1.226.230.3

क्रीडमानं तदा दृष्ट्वा हर्तुं देवीं प्रचक्रमे ॥
तस्य युद्धं तदा घोरमभवत्सह शंभुना

1.226.230.4

रुद्रवर्णविनिर्भेदे रुधिरादन्धकस्य तु ॥
अंधकाश्च समुत्पन्ना शतशोथ सहस्रशः

1.226.230.5

तेषां च दार्यमाणानां रुधिरादपरे पुनः

1.226.230.6

बभूवुरंधका घोरा यैर्व्याप्तमखिलं जगत् ॥
एवं मायाविनं दृष्ट्वा देवदेवस्तदान्धकम्

1.226.230.7

पानार्थमंधकास्रस्य ससृजे मातरस्तथा ॥
माहेश्वरीं तथा ब्राह्मीं कौबेरीं चानलीं तथा

1.226.230.8

सौपर्णीमथ वा यव्यां शाक्रीं वै नैरृतीं तथा ॥
सौरीं सौम्यं शिवां दूतीं चामुंडामथ वारुणीम्

1.226.230.9

वाराहीं नारसिंहीं च वैष्णवीं च ललत्थिकाम् ॥
शतानन्दां भगानन्दां पिच्छिलां भगमालिनीम्

1.226.230.1.226.10

बलामतिबलां रक्तां सुरभीं मुखमुण्डिकाम् ॥
मातृनन्दां सुनन्दां च विडालीं शाकुनीं तथा

1.226.230.11

रेवतीं च महारक्तां तथैव पिलिपिच्छिकाम् ॥
जयां च विजयां चैव जयन्तीं चापराजिताम्

1.226.230.12

कालीं चैव महाकालीं कालदूतीं तथैव च ॥
सुभगां दुर्भगां चैव करालीं देहनीं तथा

1.226.230.13

अदितिञ्च दितिञ्चैव मालिनीं मृत्युमेव च ॥
कर्णमोटीं तथा याम्यां उलूकीं च घटोदरीम्

1.226.230.14

कपालीं वज्रहस्तां च पिशाचीं राक्षसीं तथा ॥
भुरुण्डीं हाङ्करीं चण्डां शैवां च कटकीं तथा

1.226.230.15

घंटां सुलोचनां धूम्रामेकवालीं कपालिनीम् ॥
विशालां दष्टिकां श्यामां त्रिजटीं कुकुहं तथा

1.226.230.16

विनायकीं च वैतालीमुन्मत्तां शुभनां तथा ॥
सिद्धिञ्च लेलिहानां च केकरां गर्दभीं तथा

1.226.230.17

तर्कटीं बहुपुत्रां च प्रेतयानां विटंपुराम्॥
क्रौञ्चीं सूकरमुखीं च विततां सरमां दनुम् ॥

1.226.230.18

उषारंभां पिनाकां च ललितां चित्ररूपिणीम् ॥
स्वधाकारां वषट्स्वाहां धृतिं ज्येष्ठां कपर्दिनीम्

1.226.230.19

मायाविचित्ररूपां च कामरूपां वशंगमाम् ॥
स्वकंबिलां सिञ्जिकां च महानासां महामुखीम्

1.226.230.1.226.20

कौमारीं रोचनां भीमां सदाहासां मदोद्धताम् ॥
आरक्ताक्षीं कालकर्णीं भर्त्तुकर्णीं महास्वनीम्

1.226.230.21

केशिनीं शिखिनीं लम्बां पिंगाक्षीं लोहितामुखीम् ॥
घण्टारवां च दंष्ट्रालां लोचनां काचजङ्घिकाम्

1.226.230.22

गोकर्णिकां गोमुखिकां महाग्रीवां महामुखीम्॥
उल्कामुखीं धूम्रशिखां कवनां परिकंपिताम्

1.226.230.23

मोहिनीं कुण्डिनीं त्वेडां निर्भयां बाहुशालिनीम् ॥
शूर्पकर्णीं तथैकाक्षीं विशोकां नन्दिनीं रुचम्

1.226.230.24

ज्योस्रामुखीं वरपरां निकुम्भां रक्तकम्पनाम् ॥
अविकारां महाचित्रां चित्रसेनां मनोरमाम्

1.226.230.25

सुदर्शनां हरत्पापां मातङ्गीं लंबमेखलाम् ॥
सुबालां बालतर्कारीं प्रेमोदां लाङ्गलावतीम्

1.226.230.26

चित्तां वित्तां जडां कोणां शान्तिकां भसिताशनीम् ॥
लंबस्तनीं लंबघण्टां विसतां वामचूडिनीम्

1.226.230.27

स्वलतिर्दीर्घकेशी च सुलता सुन्दरी समा ॥
अधोमुखी कटुमुखी क्रोधनी वसुवाशिनी

1.226.230.28

विराविणी वत्सरुता माषाभाजिनशालिनी ॥
कुटुम्बिका शुक्तिका च चण्डिका बलमोहिनी

1.226.230.29

मांसान्यहासिनी लम्बा गोविधारी समागधी ॥
एताश्चान्याः स देवेन्द्र ससृजे मातरस्तदा

1.226.230.1.226.30

अन्धकानां महाघोरं पपुस्तद्रुधिरं तदा ॥
ततोन्धकासृजा सर्वाः परां तृप्तिमुपागताः

1.226.230.31

तास्तु तृप्ताः सुसम्भूता भूय एवांधकास्रजा ॥
अर्दितोयैर्महादेवः शूलमुद्गरपट्टिशैः

1.226.230.32

ततः स शङ्करो देवस्त्वन्धकैर्व्याकुलीकृतः ॥
जगाम शरणं देवं वासुदेवमजं विभुम्

1.226.230.33

ततस्तु भगवान्विष्णुः सृष्टवाञ्छुष्करेवतीम् ॥
सा पपौ सत्वरं तेषामन्धकानामसृक्क्षणात्

1.226.230.34

यथायथा च रुधिरं पिबत्यन्धकसम्भवम् ॥
तथा तथाऽधिकं देवी संशुष्यति जनाधिप

1.226.230.35

पीयमाने तदा तेषामन्धकानां तथासृजि ॥
अन्धकास्तु क्षयं नीता सर्वे ते त्रिपुरारिणा

1.226.230.36

मूलान्धकं तु विक्रम्य तदा सर्वत्र लोककृत् ॥
चकार वेगाञ्छूलाग्रे तदा तुष्टाव शङ्करम्

1.226.230.37

अन्धकः सुमहावीर्यः तस्य तुष्टोऽभवद्भवः ॥
सामीप्यं प्रददौ नित्यं गणेशत्वं तथैव च

1.226.230.38

ततो मातृगणाः सर्वे शङ्करं वाक्यमब्रुवन् ॥
भगवन् भक्षयिष्यामः सदेवासुरमानुषम्

1.226.230.39

त्वत्प्रसादाज्जगत्सर्वं तदनुज्ञातुमर्हसि ॥
शङ्कर उवाच ॥
भवतीभिः प्रजाः सर्वा रक्षणीया न संशयः

1.226.230.1.226.40

तस्माद्घोरादभिप्रायान्मनः शीघ्रं निवर्त्यताम् ॥
नाडायन उवाच ॥
इत्येवं शङ्करेणोक्तं त्वनादृत्य वचस्तु ताः

1.226.230.41

क्षोभयामासुऽव्यग्रास्त्रैलोक्यं सचराचरम् । ।
त्रैलोक्ये भक्ष्यमाणे तु तदा मातृगणैर्नवैः

1.226.230.42

नृसिंहमूर्तिं देवं च प्रदध्यौ भगवाञ्छिवः ॥
अनादिनिधनं देवं सर्वलोकभवोद्भवम

1.226.230.43

दैत्येन्द्रवक्षोरुधिरप्रोक्षितोरुमहानखम ॥
विद्युज्जिह्वं महादंष्ट्रं स्फुटकेसरसङ्कटम्

1.226.230.44

कल्पान्तमारुतक्षुब्धसप्तार्णव महास्वनम ॥
वज्राग्रतीक्ष्णनखरमाकर्णाद्दारिताननम्

1.226.230.45

मरुशैलप्रतीकाशमुदयार्कसमेक्षणम ॥
हिमाद्रिशिखराकारं चारुदंष्ट्रोज्ज्वलाननम्

1.226.230.46

खविनिस्सृतरोमाग्निं ज्वालाकेसरमालिनम् ॥
बद्धाङ्गदं सुमुकुटं चारुकेयूरभूषणम

1.226.230.47

श्रोणीसूत्रेण महता काञ्चनेन विराजितम ॥
नीलोत्पलदलश्यामं वामोयुगविभूषितम

1.226.230.48

तेजसाक्रान्तसकलं ब्रह्माण्डान्तरमंडपम ॥
सादरभ्राम्यमाणानां हुतहव्य घनार्चिषाम्

1.226.230.49

आवर्त्तैः सदृशाकारैः संयुक्तं दैहलोमजैः ॥
सर्वपुप्पविचित्रां च धारयानं महास्रजम

1.226.230.1.226.50

स ध्यातमात्रो भगवान्प्रददौ तस्य दर्शनम् ॥
यादृशेनैव रूपेण यातो रुद्रेण भक्तितः

1.226.230.51

तादृशेनैव रूपेण दुर्निरीक्ष्येण दैवतैः ॥
प्रणिपत्य तु देवेशं तदा तुष्टाव शङ्करः

1.226.230.52

शङ्कर उवाच ॥
नमस्तेस्तु जगन्नाथ नरसिंहवपुर्धरः ॥
दैत्यनाथास्थिसंपूर्ण नखशुक्तिविराजित

1.226.230.53

तदस्रकणसंलग्नहेमपिङ्गलविग्रहं ॥
मेरोः सपद्मरागस्य शोभां धत्से जगद्गुरो

1.226.230.54

कल्पान्ताम्भोदनिर्घोष सूर्यकोटिसमप्रभ ॥
सहस्रयम संक्रोध सहस्रेन्द्रपराक्रम

1.226.230.55

सहस्रधनदस्फीत सहस्रवरुणात्मक॥
सहस्रकालचरित सहस्रनियतेन्द्रिय

1.226.230.56

सहस्रभूमिसद्धैर्य सहस्रानन्तमूर्त्तिमत् ॥
सहस्रचन्द्रप्रतिम सहस्रहरिविक्रम

1.226.230.57

सहस्ररुद्रतेजस्क सहस्रब्रह्मसंस्तुत॥
सहस्रवायुवेगोग्र सहस्रज्योतिरीषण

1.226.230.58

सहस्रयन्त्रमथन सहस्राबाधमोचन ॥
अन्धकस्य विनाशाय सृष्टा या मातरो मया

1.226.230.59

अनादृत्य तु मद्वाक्यं भक्षयंत्यश्च ताः प्रजाः ॥
कृत्वा ताश्च न शक्तोऽहं संहन्तुमपराजित

1.226.230.1.226.60

स्वयं कृत्वा कथं तासां विनाशमपि रोचये ॥
नाडायन उवाच ॥
एवमुक्तः स रुद्रेण नारसिंह वपुर्धरः

1.226.230.61

ससर्ज देवीं जिह्वातः तदा वागीश्वरीं हरिः ॥
हृदयाच्च तथा मायां गुह्याच्च भगमालिनीम्

1.226.230.62

अस्थिभ्यश्च तथा काली सृष्टा पूर्वं महात्मना ॥
यया तद्रुधिरं पीतमन्धकानां महात्मनाम्

1.226.230.63

या त्वस्मिन्कथिता लोके नामतः शुष्करेवती ॥
द्वात्रिंशन्मातरः सृष्टा गात्रेभ्यश्चक्रिणा ततः

1.226.230.64

तासां नामानि वक्ष्यामि तानि मे गदतः शृणु ॥
सर्वक्लिष्टा महाभागा कण्ठकर्णी तथैव च

1.226.230.65

त्रैलोक्य मोहिनी पुण्या सर्वसत्त्ववशङ्करी ॥
तथा च चक्रहृदया पञ्चमा व्योमचारिणी

1.226.230.66

शंखिनी लेखिनी चैव कालसङ्कर्षिणी तथा ॥
इति देव्यष्टकं राजन्वागीश्यनुचरं स्मृतम्

1.226.230.67

अजिता सूक्ष्महृदया वृक्षावेशाश्मदर्शना ॥
नृसिंहभैरवा चिल्ला गरुत्पक्षहृदानया

1.226.230.68

भगमालिन्य ऽनुचरा इत्यष्टौ नृप मातरः ॥
आकर्षिणी च भारूटी तथैवोत्तरमालिका

1.226.230.69

ज्वालामुखी भीषणिका कामधेनुश्च बालिका ॥
तथा पद्मकरा राजन्रेवत्यनुचराः स्मृताः

1.226.230.1.226.70

अष्टौ महाबलाः सर्वा देवगात्रसमुद्भवाः ॥
त्रैलोक्यसृष्टिसंहारसमर्थाः सर्वदेवताः

1.226.230.71

ताः सृष्टमात्रा देवेन क्रुद्धा मातृगणस्य तु ॥
प्रधाविता महाराज क्रोधविस्फूर्जितेक्षणाः

1.226.230.72

अविषह्यतमं तासां दृष्ट्वा तेजः सुदारुणम् ॥
भयेन शरणं प्राप्ता देवेशं पूर्वमातरः

1.226.230.73

शरणार्थमनुप्राप्ता नृसिंहो वाक्यमब्रवीत् ॥
नरसिंह उवाच ॥
यथा मनुष्याः पशवः पालयन्ति वराननाः

1.226.230.74

यजन्ति तैश्च पशुभिः तथा वै देवतागणान् ॥
भवत्यश्च तथा लोकान्पालयन्तु मयेरिताः

1.226.230.75

मनुजैश्च तथा देवं यजध्वं त्रिपुरान्तकम्॥
ये च मां संस्मरंतीह ते च रक्ष्या सदा नराः

1.226.230.76

बलिकर्म करिष्यंति युष्माकं ये सदा नराः ॥
सर्वकामप्रदास्तेषां भविष्यध्वं तथैव च

1.226.230.77

तत्सादनादिकं ये च करिष्यंति हरेरितम् ॥
ते च रक्ष्या सदा लोके रक्षितव्यं च शासनम्

1.226.230.78

रौद्रां चैव परां मूर्तिं महादेवः प्रदास्यति॥
युष्मभ्यं समया सार्धं तेन सार्धं वरस्यथ

1.226.230.79

मया मातृगणः सृष्टो योयं विगतसाध्वसः ॥
एष नित्यं विशालाक्ष्यो मयैव सह रंस्यति

1.226.230.1.226.80

मया सार्धं तथा पूजां वीरेभ्यश्चैव लप्स्यसि ॥
पृथक् च पूजितो लोके सर्वान्कामान्प्रदास्यति

1.226.230.81

शुष्कां संपूजयिष्यन्ति ये तु पुत्रार्थिनो जनाः॥
तेषां पुत्रप्रदा देवी भविष्यति न संशयः

1.226.230.82

नाडायन उवाच॥
एतावदुक्त्वा भगवान्सह मातृगणेन च ॥
ज्वालामालाकुलवपुस्तत्रैवांतरधीयत

1.226.230.83

समातृवर्गोपि हरस्य मूर्ति सदा यजंस्तिष्ठति तत्समीपे ॥
देवेश्वरस्यापि नृसिंहमूर्तेः पूजां विधत्ते त्रिपुरान्तकारी

1.226.230.226

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शैलूषं प्रति नाडायनवाक्ये अन्धकजयवर्णनोनाम षड्विंशत्युत्तरद्विशततमोऽध्यायः

1.226.230.1

1.227
॥ शैलूष उवाच ॥
मातृदोषप्रशमनान्महेश्वरमुखोद्गतान् ॥
प्रयोगाञ्छ्रोतुमिच्छामि वदतस्ते द्विजोत्तम

1.226.230.2

नाडायन उवाच ॥
चोचकं तु वचा कुष्टं ब्रह्मभूतजटे शुभे ॥
कालमञ्जा हरिद्रे द्वे यवचूर्णविमिश्रितम्

1.226.230.3

उद्वर्तनमिदं प्रोक्तं मातृदोषविनाशनम् ॥
अरिष्टारिष्टपत्राणि तालजीतकयोस्तथा

1.226.230.4

शिंशिपामलकीबिल्वकपित्थानां तथैव च ॥
बहुकारत्वचं पूर्वां तथैव च पुनर्नवाम्

1.226.230.5

भार्ङ्गीक्वाथमिदं स्नानं मातृदोषविनाशनम् ॥
अरिष्टकं तथा बिल्वं पद्माक्षं फलिनीफलम्

1.226.230.6

वचा कुष्टं च मुस्तञ्च वालकं रजनीद्वयम् ॥
चन्दनं कुंकुमं चैव नागदानं च रोचना

1.226.230.7

एतानि सर्वाण्याहृत्य पूर्णकुम्भे विनिक्षिपेत् ॥
स्नानमेतत्प्रयोक्तव्यं मातृदोषविनाशनम्

1.226.230.8

कुसुमैः पञ्चवर्णैस्तु धूपैर्निर्यासजैस्तथा ॥
कुंकुमागुरुकर्पूरचन्दनैश्च मनोरमैः

1.226.230.9

दीपैर्भक्ष्यैस्तथा क्षीरैः कुल्माषोल्लोपिकागुडैः ॥
पायसैर्मधुसंमिश्रैः पललेनोदनेन च ॥

1.226.230.1.227.10

बलिः सुविहितो राजन्मातृदोषविनाशनम् ॥
दूर्वाप्रवालमञ्जिष्ठानागरं नागकेशरम्

1.226.230.11

रोचनाकुंकुमं चैव चन्दनं च तथा वचा ॥
विलेपनमिदं श्रेष्ठं मातृदोषविनाशनम्

1.226.230.12

गजाश्वकपिवाराहनखानि च घृतं तथा ॥
श्रेष्ठोऽयं कथितो धूपो मातृदोषविनाशनः

1.226.230.13

सिद्धं घृतं चाप्यथ पञ्चगव्यं पुराणमश्नन्ति हि ये नरेन्द्र ॥
तेषां भयं नैव हि मातृजातं भाव्यं कदाचिद्ग्रहसंभवं वा

1.226.230.227

इति श्रीविष्णुधर्मोत्तरे प्रथम खण्डे मा० सं० मातृबाधाप्रतिषेधोनाम सप्तविंशत्युत्तरद्विशततमोऽध्यायः

1.226.230.1

1.228
॥ नाडायन उवाच ॥
तस्य देवादिदेवस्य प्रभावमपरं शृणु ॥
कथ्यमानं मया राजन्सर्वकल्मषनाशनम्

1.226.230.2

शङ्करः पार्वती चैव स्पर्धमानौ परस्परम् ॥
चक्रतुर्मैथुनं राजन्साग्रं वर्षशतं किल

1.226.230.3

तयोरन्यतरस्यासीद्यदा नैव पराजयः ॥
ततस्तु देवता खिन्नाः परस्परमथाब्रुवन्

1.226.230.4

अत्रोत्पत्स्यति यो गर्भस्त्रैलोक्यं सचराचरम् ॥
तेजसा मोहितं तस्य भविष्यति न संशयः

1.226.230.5

तस्मात्त्वमत्र प्रविश देवदेव हुताशन ॥
एवमुक्तस्तदा वह्निः प्रविवेश सुरोत्तमम्

1.226.230.6

तं दृष्ट्वा संभ्रमादेव समुत्तस्थौ त्रिलोचनः ॥
तेजोभिः क्षुभितं तत्र वह्नेरास्यमथाविशत्

1.226.230.7

शशाप पार्वती देवी भार्यासु स्वासु देवताः ॥
नैवावाप्स्यथ पुत्रान्वै मत्कोधकलुषीकृताः

1.226.230.8

हुताशनोपि शर्वस्य दह्यमानो हि तेजसा ॥
तत्याज गर्भं गङ्गायां सापि कालेन केनचित्

1.226.230.9

तत्याज पर्वते श्वेते गर्भं वह्निसमप्रभम् ॥
तेन जातेन संवृत्तं सौवर्णं श्वेतपर्वतम्

1.226.230.1.228.10

सुवर्णरेतसस्तस्य शंकरस्य तु तेजसा ॥
ददृशुः कृत्तिका बालं संत्यक्तं तत्र गङ्गया

1.226.230.11

स्तनानि प्रददुस्तस्य कृपया राजसत्तम ॥
षडाननस्तदा भूत्वा षण्णामेव स्तनं पपौ

1.226.230.12

तासां क्षीरेण धर्मात्मा विवृद्धश्चारुतेजसा ॥
कृत्तिकानां वरं प्रादाद्यत्तद्वक्ष्यामि ते नृप

1.226.230.13

नाडायन उवाच ॥
यदा चन्द्रसमायोगं गमिष्यथ शुभाननाः ॥
तदा पूजां करिष्यंति भवतीनां तु ये नराः

1.226.230.14

वह्नेश्चन्द्रमसश्चैव वरुणस्य तथा मम ॥
गन्धमाल्यैस्तथा पुप्पैर्धूपैर्दीपैस्तथैव च

1.226.230.15

गन्धोदकेन पुण्येन लाजाभिर्मधुना सह ॥
अपूपैः परमान्नेन दध्ना गव्येन चाप्यथ।

1.226.230.16

कुल्माषैः सफलैर्भक्ष्यैर्मोदकैः पानकैस्तथा ॥
प्राप्स्यन्त्यभिमतान्कामानिह लोके परत्र च

1.226.230.17

नक्ताशनस्तथा भूत्वा युष्मत्पूजापरायणः ॥
क्रीडित्वा सुचिरं नाके मानुष्ये तु भविष्यति

1.226.230.18

रूपान्वितः सत्यपरो द्यावान्धर्मे स्थितः सन्बहुभृत्ययुक्तः ॥
कुलेन शीलेन समन्वितश्च नारीविशेषात्सुभगा भवित्री

1.226.230.228

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे कृत्तिकापूजाविधिर्नामाष्टाविंशत्युत्तरद्विशततमोऽध्यायः

1.226.230.1

1.229
॥ नाडायन उवाच ॥
ततस्तु प्रययौ गङ्गा कुमारो यत्र पावकिः ॥
मया त्वं जनितः पुत्र तमुवाच सुरेश्वरम्

1.226.230.2

असहन्त्या महातेजस्त्वदीयं पर्वतोत्तमे ॥
मया स्कन्द परित्यक्तं तदा गर्भगतं मम

1.226.230.3

तस्यास्तद्वचनं श्रुत्वा पावकिर्वाक्यमब्रवीत् ॥
॥ स्कन्द उवाच ॥
नाहं गृहं ते यास्यामि शम्भुर्मे दैवतं पिता

1.226.230.4

अनुग्रहं करिष्यामि तवाहं सुरनिम्नगे ॥
वैशाखमासशुक्लस्य तृतीयायां वरानने

1.226.230.5

मानुष्यमवतीर्णासि तदा पूजामवाप्स्यसि ॥
तमिन्नहनि यः स्नानमाचरिष्यति ते शुभे

1.226.230.6

राजसूयाश्वमेधाभ्यां फलेन स तु योक्ष्यति॥
तस्मिन्नहनि यः पूजां यत्र तत्र व्यवस्थितः

1.226.230.7

गन्धमाल्योपहाराद्यैर्धूपदीपान्नसंपदा ॥
कर्ता तव महाभागे त्वत्तोयस्नानजं फलम्

1.226.230.8

ध्रुवमाप्स्यति धर्मज्ञे नात्र कार्या विचारणा ॥
तस्मिन्नहनि यत्किञ्चित्प्रदद्याच्छ्रद्धयान्वितः

1.226.230.9

अक्षयं तत्फलं तस्य भविष्यति न संशयः ॥
अक्षया सा तिथिर्ज्ञेया कृत्तिकाभिर्युता यदि

1.226.230.1.229.10

भविष्यति महाभाग विशेषेण फलप्रदा

1.226.230.11

तस्मिन्दिने ये तव चारुगात्रि पूजां करिष्यंति तथेरितां प्राक् ॥
ते नाकलोके सुचिरं निरुप्य लोकान्गमिष्यन्ति जलाधिपस्य

1.226.230.229

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शैलूषं प्रति नाडायनवचने अक्षयतृतीयामहालयं नामैकोनत्रिंशदुत्तरद्विशततमोऽध्यायः

1.226.230.1

1.230
नाडायन उवाच ॥
ततस्तु जातकर्माद्याः क्रियास्तस्य महात्मनः ॥
विश्वामित्रस्तु कृतवान्मङ्गलानि तथैव च

1.226.230.2

एतस्मिन्नेव काले तु देवनाथाय वज्रिणे ॥
श्वेतजातमथाचख्युः कुमारं दीप्ततेजसम्

1.226.230.3

निधनाय मतिं चक्रे तदा तस्य पुरन्दरः ॥
दैवतैः पितृभिर्यज्ञैः प्रभुर्दानवराक्षसैः

1.226.230.4

भूतनागपिशाचैश्च पितृगन्धर्वमानुषैः ॥
संमन्त्र्य निधने तस्य सृष्टवान्स महाग्रहान्

1.226.230.5

देवदैत्यग्रहान्घोरान्पितृदानवराक्षसान् ॥
यक्षगन्धर्वनागानां नृणां च पिशिताशिनाम्

1.226.230.6

ते ग्रहा बहुसाहस्रा नानाप्रहरणोद्यताः ॥
अभिजग्मुः श्वेतगिरिं कुमारवधकाम्यया

1.226.230.7

ते ग्रहा बहुसाहस्रा ग्रहांश्च शतशः शिवः ॥
स्कंदो ग्रहान्वै ससृजे पूर्वग्रहनिशाचरान्

1.226.230.8

महाबलान्महावीर्यान्कामगान्कामरूपिणः ॥
अनेकशतसाहस्रान्नानावेशान्मनोजवान्

1.226.230.9

तेषां प्रधानान्वक्ष्यामि तन्मे निगदतः शृणु ॥
स्कंदो विशाखश्च तथा नैगमेयस्तथैव च ॥
भीमो भीमकरः क्रव्यो निरतः क्रोश एव च

1.226.230.1.230.10

क्रव्यादोथ हविर्बुद्धिः कोटिमुद्गरिकः पृथुः ॥
कालश्चाप्युपकालश्च सिद्धार्थः पुष्पकस्तथा

1.226.230.11

पुष्पमित्रः कोकिलकः सिद्धो लंबोदरस्तथा ॥
खल्यूः कपोतो लम्बोष्ठः तथा नायास एव च

1.226.230.12

यदण्डो गृद्ध्रनासाश्च गृद्ध्रवृत्तुक एव च ॥
क्षुद्रकः कालकालश्च कालस्तत्पुरुषस्तथा

1.226.230.13

विद्युद्भूतोऽथ संवर्तो वर्तश्चावर्त एव च ॥
शितिकण्ठः कपर्दी च कच्छपः परिकण्टकः

1.226.230.14

परिप्रकाशो मत्तश्च मातङ्गवसनस्तथा ॥
गदराक्षः पिशाचश्च वीरनाशो वलीमुखः

1.226.230.15

महाभूतश्च नन्दश्च सोमानन्दः प्रमोदकः ॥
आनन्दो व्यवसायश्च निश्चयोऽथ पराक्रमः

1.226.230.16

जयश्च विजयश्चैव सञ्जयः कल्प एव च ॥।
पुष्पदन्तो दन्तवक्रो हेगुण्डिर्भीषणस्तथा

1.226.230.17

वसुभूतिर्वसुस्त्रातो जीवकस्तापसस्तथा ॥
वीरबाहुः सुबाहुश्च सुन्दरो गण्ड एव च

1.226.230.18

तुण्डा विचेला गोदंतः कलशः कलशोचरः ॥
शीर्यग्राहो ललाटस्थो ग्रीवाग्राभरतो ग्रहः

1.226.230.19

परिलेपकजात्यन्धौ करालः कुञ्जनामनौ ॥
अन्येद्युकः सततगस्त्रैतीयकचतुर्थकौ

1.226.230.1.230.20

व्यरोचको नेत्ररोगः कासश्वासानुगस्तथा ॥
धूतपापः पापहितः पापाचारस्तथैव च

1.226.230.21

काण्डो धनञ्जयश्चैव शठो नैष्कृतिकस्तथा ॥
वसुधाता वसुमना गौरः शोथो गलग्रहः

1.226.230.22

भ्रमश्च चित्तमोहश्च तथा कार्यविघातकः ॥
सर्वकार्यकरश्चैव जृंभकश्चार्यकस्तथा

1.226.230.23

एते चान्ये च बलिनः कामरूपा विहङ्गमाः ॥
त्रैलोक्यसृष्टिसंहारसमर्था विविधायुधाः

1.226.230.24

नानारूपधरा वीरा नानाविविधवाससः ॥
प्रादुद्रवन्महान्घोरान्पूर्वदेवैर्विसर्जितान्

1.226.230.25

अविषह्यतमात्मानो ग्रहाः स्कन्दग्रहास्तथा ॥
स्कन्दं देववरं सर्वे तदा शरणमागताः

1.226.230.26

तांस्तु वै शरणं प्राप्तान्स्कंदो वचनमब्रवीत् ॥
स्कंद उवाच॥
शरणं वै प्रपन्नानां वरं दास्यामहं ग्रहाः

1.226.230.27

वरयध्वं यथाकामं पूज्या मे शरणार्थिनः ॥
ग्रहा ऊचुः ॥
भगवन्भक्षयिष्यामस्त्वत्प्रसादेन मानुषान्

1.226.230.28

एतद्वरमभीष्टं नः सर्वेषां दीप्तविग्रह ॥
स्कंद उवाच ॥
दुराचारांस्तथा लोके गन्धमाल्यानुलेपने

1.226.230.29

तेषां शरीरे रत्यर्थं वसध्वं नात्र संशयः॥
ये भक्तास्त्र्यम्बके देवे तथा देवे जनार्दने

1.226.230.1.230.30

आस्तिकाञ्छ्रद्धधानांश्च वर्जयध्वं प्रयत्नतः ॥
वरार्थमपि सङ्गृह्य न्यस्ता कर्मादिभिः क्रमः

1.226.230.31

त्यक्षध्वं पुरुषाञ्शीघ्रं मम विज्ञाय शासनम् ॥
॥ नाडायन उवाच ॥
एवमुक्ता ग्रहाः सर्वे स्वाम्ये चक्रुस्तदा शिशुम्

1.226.230.32

कुमारं शर्वतनयं महाबलपराक्रमम् ॥
स्कन्देनैव यथोक्तं तु स्कन्दं स्कन्दग्रहास्तदा

1.226.230.33

समेता सर्वे वचनमिदमुचुर्नराधिप ॥
अस्माकमपि देवेश प्रसादं कर्तुमर्हसि

1.226.230.34

एवमुक्तोऽथ धर्मात्मा ग्रहा न्स्कन्दस्त्वभाषत ॥
यावत्षोडशवर्षाणि मानवानां भवन्त्युत

1.226.230.35

तावद्भवन्तो बाधन्तु मनुष्याणां तथा प्रजाः ॥
तत्रापि बलिकर्माद्यैः क्षेमं तेषां करिष्यथ ॥
ततः पूर्वं ग्रहाणां तु पूज्या लोके भविष्यथ

1.226.230.36

एतावदुक्त्वा भगवान्कुमारो ददौ ग्रहाणामपरं शरीरम् ॥
देहान्स्वकान्नायक उग्रसत्त्वो लोकस्य रक्षार्थमतीव हृष्टः

1.226.230.230

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शैलूषं प्रति नाडायनवाक्ये त्रिंश दुत्तरद्विशततमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc