भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 1.221.225

1.221.225.1

शैलूष उवाच ॥
श्रोतुमिच्छाम्यहं तस्य दशग्रीवस्य रक्षसः ॥
त्रिलोकविजयं ब्रह्मंस्तत्र मे संशयो महान्

1.221.225.2

नाडायन उवाच ॥
वरप्रदानात्संमत्तो दशग्रीवो निशाचरः ॥
देवगन्धर्वदैत्यानां नागेन्द्रोरगरक्षमाम्

1.221.225.3

आक्रम्याऽक्रम्य रत्नानि स जहार तदा बलात् ॥
पत्न्यश्च राजशार्दूल तदा दुहितरः शुभाः

1.221.225.4

नरेन्द्रान्धर्मसंसक्तान्ब्राह्मणांश्च जिघांसति ॥
अयोध्यावासिनं वीरमनरण्यं च जघ्निवान्

1.221.225.5

संग्रामे निहतस्तेन दशग्रीवं स शप्तवान् ॥
उत्पत्स्यति कुले नीच पुरुषो मम वीर्यवान्

1.221.225.6

यस्तवादास्यति प्राणान्समरे समरप्रिय ॥
युयुधे च तथा राज्ञा मांधात्रा रणशालिना

1.221.225.7

तत्रैनं वारयामास नारदो मुनिसत्तमः ॥
मयूरस्य ततो यज्ञे भक्षयामास वै द्विजान्

1.221.225.8

इन्द्रो मयूररूपेण तस्माद्यज्ञादपाक्रमत् ॥
मयूरस्य वरं प्रादान्मेघे वर्षति सर्वदा

1.221.225.9

गमिष्यस्यतुलां प्रीतिं मम नेत्रगणाकृतिम् ॥
धारयिष्यसि लोकेऽस्मिन्कलापं सुमनोहरम्

1.221.225.1.221.10

कृकलासस्य रूपेण धनाध्यक्षो व्यपाक्रमत् ॥
वर्णं तस्य सुवर्णाभं सद्रव्यं च तथा शिरः

1.221.225.11

प्रादाद्द्वयममेयात्मा राजराजेन दानव ॥
वरुणश्च तदा राजन्हंसरूपेण निर्गतः

1.221.225.12

हंसस्य च वरं प्रादात्तोये रतिमवाप्स्यसि ॥
वर्णतश्चन्द्ररश्म्याभो भविष्यसि तथैव च

1.221.225.13

यमो वायसरूपेण तस्याद्यज्ञादपाकमत् ॥
वायसस्य वरं प्रादादमरत्वं विना वधात्

1.221.225.14

युष्मद्दत्तेन चान्नेन घोरा मद्विषये स्थिताः ॥
परां तृप्तिं गमिष्यन्ति तदा पुण्येन योक्ष्यसे

1.221.225.15

वक्ष्यध्वं बलिदातॄणां दिग्देशगतचेष्टितैः ॥
शुभाशुभं मनुष्याणां तत्रातिथ्यं भविष्यति

1.221.225.16

वज्रतुण्डाश्च ये काका घोरा मद्विषये स्थिताः ॥
बलिपिण्डाँश्च दातॄणां भविष्यन्ति ततः शिवम्

1.221.225.17

मरुत्तयज्ञे वित्रासं जनयित्वा दिवौकसाम् ॥
बभ्राम वसुधां राजा राक्षसानां प्रतापवान्

1.221.225.18

ददर्श स तदा कन्यां तपस्यन्तीं महत्तपः ॥
रूपेणाप्रतिमां लोके यौवने प्रथमे स्थिताम्

1.221.225.19

दशग्रीवः स पप्रच्छ तां कन्यां लोकसुन्दरीम्॥
का त्वं किमर्थं सुश्रोणि चास्थिता यौवने तपः

1.221.225.1.221.20

श्रुत्वा तस्य तु सा कन्या सत्यं वचनमब्रवीत् ॥
बृहस्पतिसुतो विद्वान्पिता मम कुशध्वजः

1.221.225.21

वेदाभ्यासप्रवृत्तस्य तस्याहं नृपबान्धवा॥
सुतापरा समुत्पन्ना तत्पत्न्या विदिता तथा

1.221.225.22

नाम्ना वेदवतीत्येवं ख्याता लोकेषु राक्षस ॥
विष्णोर्मयेयं दातव्या तस्यासीन्मे पितुर्मतिः

1.221.225.23

मद्याचना निरस्तेन दैत्यनाथेन शम्भुना ॥
पिता मम हतो रात्रौ तमालिङ्ग्य विभावसुम्

1.221.225.24

प्रविष्टा जनयित्री मे यथाहं विधृता चिरम् ॥
स्वर्गस्थस्य पितुः कामं साहं सत्यमभीप्सती

1.221.225.25

आराधयामि तपसा पत्यर्थं मधुसूदनम् ॥
ततस्तामब्रवीद्रक्षो मा त्वं क्लेशे मतिं कृथाः

1.221.225.26

भवस्व मे वरारोहे भार्या त्रैलोक्यसुन्दरी ॥
रूपस्य वयसश्चैव नानुरूपं तपस्तव

1.221.225.27

त्वां कृत्वोपरतो मन्ये रूपं कृत्वा स विश्वकृत् ॥
न हि रूपोपमा त्वन्या तथास्ति सदृशी यतः

1.221.225.28

संपूर्णकान्तिमत्सौम्यं वदनं ते वरानने ॥
सकलंकेन चन्द्रेण कथमोपम्यमर्हति ॥

1.221.225.29

भव भूषणजातानां भूषणं त्वं शुचिस्मिते ॥
वृणुष्व मां वरारोहे पतित्वे वरवर्णिनि

1.221.225.1.221.30

आक्रम्याक्रम्य लोकस्य प्रधाना या मया हृताः॥
स्त्रियः कुरुष्व सर्वासां तासां स्वाम्यमनिन्दिते

1.221.225.31

जटामालाजिनधरी त्वमेवं रतिवर्धिनी ॥
न जाने मण्डनां प्राप्य कथं भीरु भवि ष्यसि

1.221.225.32

रूपेण वयसा लक्ष्म्या तथैव गुणसम्पदा ॥
विक्रमे मे वरारोहे न समो हि जनार्दनः

1.221.225.33

जन्म तस्य न जानन्ति परेभ्यो ये परे जनाः ॥
तेन त्वमकुलीनेन किङ्करिष्यसि सुन्दरि

1.221.225.34

अनिन्द्रं लोकमिच्छन्ती सुराणां हितकाम्यया ॥
हता येनानुवृत्तेन योषित्काव्या रणिः पुरा

1.221.225.35

पुराणा ये जगत्यस्मिँस्तेभ्यः पूर्वतराश्च ये ॥
तेभ्योऽप्यति पुराणं तं भर्तारं कथमिच्छसि

1.221.225.36

ब्रह्मणो वरदानेन यस्त्ववध्यो दिवौकसाम् ॥
ते दैत्यनाथाः सबलाश्छद्मना तेन घातिताः

1.221.225.37

तत्प्रताप?निविष्टेन चेतसा रक्षसां श्रियम् ॥
यो बिभर्त्यपि तां तेन किं करिष्यति भामिनि

1.221.225.38

वृद्धेभ्यो न श्रुतं तस्य त्वया रूपमनिन्दिते ॥
विदितं सर्वलोकानां विश्वरूपधरस्त्वसौ

1.221.225.31

शेषाहिभोगपर्यङ्के तेन त्वं शयिता सह ॥
सविषैर्भोगनिश्वासैः परां ग्लानिमुपैष्यसि

1.221.225.1.221.40

।
कण्ठग्रहेण निहतौ येन तौ मधुकैटभौ ॥
कथं कण्ठग्रहं तस्य समुपैष्यसि सुन्दरि

1.221.225.41

हिरण्यकशिपुर्येन नखैरुत्कान्तजीवितः ॥
कथं रत्यन्तरे तस्य नखाघातं सहिष्यसि

1.221.225.42

तस्माद्भावं समुत्सृज्य चारुगात्रि जनार्दने ॥
भजस्व भजमानं मां चिरं प्रीतिमवाप्नुहि

1.221.225.43

॥
वेदवत्युवाच ॥
गुणा एव सुरेशस्य दोषास्ते रजनीचर ॥
जगत्प्रकाशका भानोरुलूकस्येव रश्मयः

1.221.225.44

किं त्वया सह वादेन वरणीयः स मे प्रभुः ॥
यादृशस्तादृशो वापि पतित्वे रजनीचर

1.221.225.45

इति वेदवतीवाक्यं श्रुत्वा कोपसमन्वितः ॥
कामेन राक्षसेन्द्रन्तां केशपाशे परामृशत

1.221.225.45

त्वया संधर्षिता पाप प्रवेक्ष्यामि हुताशनम् ॥
अयोनिजा भविष्यामि वधार्थं न तथा तव

1.221.225.47

एवमुक्त्वा चितां कृत्वा प्रविष्टा जातवेदसम्॥
भूय सीता समुत्पन्ना जनकस्य महात्मनः

1.221.225.48

अयोनिजा महाभागा कर्षतो यज्ञमेदिनीम् ॥
भर्तारं तपसा विष्णुं रामं लब्धवती यथा

1.221.225.49

यस्या अर्थे स रामेण दशग्रीवो हतो रणे ॥
लोकापवादभीतेन दशग्रीवगृहोषिता

1.221.225.1.221.50

अतः पत्नी परित्यक्ता सीता भूयो जनेश्वर ॥
वाल्मीकेराश्रमे सा तु प्रसूता दारकद्वयम्

1.221.225.51

कुशं लवं च विक्रान्तौ ययोः सर्वाः क्रियाः कृताः ॥
वाल्मीकिना महाभागौ वेदमध्यापिता यथा

1.221.225.52

प्रकर्षं च धनुर्वेदे पारं नीता तु तौ शिशू ॥
वाल्मीकिना तथा कृत्वा रामस्य चरितं शुभम

1.221.225.53

अध्यापितो विशालाक्षौ दारकौ प्रियदर्शनौ ॥
अगायतां ततस्तौ तु रामयजे कुमाग्का

1.221.225.54

रामस्य चरितं कृत्स्नं रामस्य पुरतः स्थितौ ॥
तस्मात्काव्यात्तु विज्ञाय पुत्रौ तौ प्रियदर्शनौ

1.221.225.55

यज्ञे तां च तथाभूतामानयामाम सत्वरः ॥
उवाच च वरारोहां प्रत्ययं कुरु मे शुभे

1.221.225.56

रामस्य वचनं श्रुत्वा सीता वचनमब्रवीत ॥
यथाऽहं राघवादन्यं मनसापि न कामये

1.221.225.57

तेन सत्येन मे देवी विवरं संप्रयच्छतु ॥
एतस्मिन्नेव काले तु भुवं भित्त्वा समुत्थितम्

1.221.225.58

धृतं सिंहासनं नागैस्तत्रैनामुपवेशयत् ॥
स्वयं वसुमती देवी पातालं सा ततो गता

1.221.225.59

अविच्छिन्नेन पतता पुष्पवर्णेन पार्थिव ॥
तस्यां भूमिप्रविष्टायां राघवं क्रोधसंयुतम्

1.221.225.1.221.60

सान्त्वयामास वै ब्रह्मा सर्वलोकनमस्र्कृतः ॥
रामोऽपि कृत्वा सौवर्णीं सीतां पत्नीं यशस्विनीम्

1.221.225.61

ईजे यज्ञैर्बहुविधैः सह भातृभिरच्युतः ॥
नापद्भयं न विधवा न च व्यालकृतं भयम

1.221.225.62

न च व्याधिकृतं किञ्चिद्रामे राज्यं प्रशासति ॥
आजानुबाहुर्धर्मात्मा सिंहस्कन्धो नरेश्वरः

1.221.225.63

पृथ्वी ससागरां रामो धर्मेणान्वशिपत्प्रभुः ॥
देवाश्च ऋषयश्चैव गन्धर्वाप्सरसां गणाः

1.221.225.64

यक्षाश्च भूतानि तथा किन्नराश्चैव राक्षसाः ॥
मानुष्याणां दर्शनं ते सौम्याः सन्तो ययुस्सदा

1.221.225.65

यदर्थमेषा चरति गाथा लोके पुरातनी ॥
आजानुबाहुः सिंहास्यः कम्बुग्रीवो महाबलः

1.221.225.66

सर्वभूतशरण्यश्च विष्णुर्मानुष्यतां गतः ॥
सत्यवाननृशंसश्च जातो भक्तजनप्रियः

1.221.225.67

धृतियुक्तो दयाशीलो धर्मयुक्तो जितेन्द्रियः ॥
मितवागपि कार्येषु वक्ता वाचस्पतेः समः

1.221.225.68

वीर्यवान्न च वीर्येण महता तेन विस्मितः ॥
तेजसा भास्कग्समः क्षमया पृथिवीसमः

1.221.225.69

महेश्वरसमः क्रोधे नीतावुशनसा समः ॥
एवं सर्वेषु भूतेषु गुणैर्दाशरथिर्बभौ

1.221.225.1.221.70

वर्णानामाश्रमाणां च न साङ्कर्यं नृपोत्तमे ॥
धर्मिष्ठाश्च जनाः सर्वे रामे राज्यं प्रशासति

1.221.225.71

निर्दस्युरभवल्लोको नानर्थः किञ्चिदस्पृशत ॥
नाकालवर्षी पर्जन्यः सर्वसस्यधरा धरा ॥
जनानुरागश्च महान्रामस्य विदितात्मनः

1.221.225.72

न ते क्षमं तेन नरेन्द्रचन्द्र वैरं महात्मा स तु लोकपूज्यः ॥
तस्यास्त्रवेगस्य रणे च वेगं सोढुं न शक्तास्त्रिदशाः सशक्राः

1.221.225.221

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शैलूषं प्रति नाडायनवाक्ये रावणस्य भूर्लोकविजयं नामैकविंशत्युत्तरद्विशततमोऽध्यायः

1.221.225.1

1.222
शैलूष उवाच ॥
वह्निप्रविष्टां संप्रेक्ष्य तदा वेदवतीं द्विज ॥
किं चकार महातेजा दशग्रीवः प्रतापवान्

1.221.225.2

नाडायन उवाच॥
जगाम स तदा लङ्कां पूज्यमानो निशाचरैः ॥
तत्रस्थं प्रेरयामास दूतं धनपतिः स्वयम्

1.221.225.3

अकार्याद्विनिवर्तस्व सुरैस्ते चिन्त्यते वधः ॥
दूतस्य वचनं श्रुत्वा दूतं हत्वा निशाचरः

1.221.225.4

गत्वा विजिग्ये धनदं विजहाराऽस्य पुष्पकम् ॥
पुष्पकेण विमानेन कैलासं स तदा ययौ

1.221.225.5

पुष्पकस्य गतिं रुद्धां तत्र वीक्ष्य निशाचरः ॥
ददर्श शैलशृङ्गस्थं नन्दिनं वानराकृतिम्

1.221.225.6

तं दृष्ट्वा मुमुचे हासं नन्दी तं शप्तवांस्ततः ॥
गिरावस्मिन्दशग्रीव स्वयं क्रीडति शङ्करः

1.221.225.7

विमानेन यदा तस्य समीपमुपयास्यसि॥
करोषि चावहास्यं मां तस्माच्छप्स्याम्यहं तव

1.221.225.8

मद्वक्त्रसदृशा घोराः पुलहस्य प्रजापतेः ॥
उत्पत्स्यन्ति कुले भीमाः क्षयार्थं वानरास्तव

1.221.225.9

श्रुत्वैनं नन्दिनो वाक्यं सकैलासं त्रिलोचनम् ॥
नेतुकामस्तदा लङ्कां भुजाञ्चिक्षेप पर्वते

1.221.225.1.222.10

पौलस्त्यभुजसंक्षुब्धकैलासचलितासना ॥
जग्राह निर्भरं कण्ठे तदोमा त्रिपुरान्तकम्

1.221.225.11

ततो गर्जन्महादेवो देवानां प्रवरो हरः ॥
पादाङ्गुष्ठेन तं शैलं पीडयामास लीलया

1.221.225.12

रक्षसा तेन रोषाच्च भुजानां रुजया तथा ॥
मुक्तो विरावः सुमहांस्त्रैलोक्यं येन रावितम्

1.221.225.13

मेनिरे वक्त्रनिष्पेषं तस्यामात्या युगक्षयम् ॥
आसनेभ्यः प्रचलिता देवाः शक्रपुरोगमाः

1.221.225.14

तेन शब्देन वित्रस्ता सुतरां पर्वतात्मजा ॥
हरस्यालिङ्गनं चक्रे भयलोलेक्षणा भृशम्

1.221.225.15

अकृत्रिमालिङ्गनजां प्रीतिं प्राप्य तदा हरः ॥
मुक्त्वा चास्य भुजान्राजन्प्राह वाक्यं दशाननम्

1.221.225.16

प्रीतोऽस्मि तव वीर्यैश्च शौण्डीर्यैश्च दशानन ॥
यस्मादराक्षसो रावस्त्वया मुक्तो भयङ्करः

1.221.225.17

तस्मात्त्वं रावणो नाम भविष्यसि जगत्त्रये ॥
ततः प्रभृति राजेन्द्र रावणो लोकरावणः

1.221.225.18

शातकुम्भमयं लिङ्गं देवदेवस्य शूलिनः ॥
सम्पूजयति राजेन्द्र नित्यं श्रद्धासमन्वितः

1.221.225.19

यत्रयत्र यथा याति तत्रतत्रास्य पार्थिव ॥
सौवर्णं तस्य देवस्य लिङ्गं तदनु नीयते

1.221.225.1.222.20

ततस्तु रावणो राजा ययौ संयमनीं पुरीम् ॥
युयुधे कालपाशेभ्यो यागैश्च सह मृत्युना

1.221.225.21

जित्वा पितृगणांश्चैव मोक्षयित्वा च नारकान् ॥
यमेन युयुधे सार्धं क्रोधाद्वैवस्तस्ततः

1.221.225.22

हन्तुमिच्छन्महीपाल दण्डास्त्रेण निशाचरम्॥
वारयामास तं ब्रह्मा वाक्यं चेदमुवाच ह

1.221.225.23

अमोघस्तव दण्डोयमवध्यश्चैव रावणः ॥
एकस्मिन्नपि निष्क्रान्ते भूयामनृतवागहम्

1.221.225.24

पितामहवचः श्रुत्वा देवस्सोऽन्तर्दधे ततः ॥
रावणः सह सैन्येन ययौ कैलासपर्वतम्

1.221.225.25

उवास शर्वरीं तत्र योद्धुकामो दिवालयैः ॥
स तु चन्द्रोदये रात्रौ भ्रातृपुत्राभिसारिकाम्

1.221.225.26

ददर्श रम्भां राजन्तीं मेघस्येव शतह्रदाम् ॥
अकामां कामसंतप्तो विध्वंस्य सुरयोषितम्

1.221.225.27

अद्यप्रभृति मूर्धा ते शतधा तु गमिष्यति ॥
प्रभातसमये गत्वा सुरसद्म स राक्षसः

1.221.225.28

मेघनादेन सहितः कुम्भकर्णेन रक्षसा ॥
देवानां कदनं चक्रे तथान्ये राक्षसोत्तमैः

1.221.225.29

तस्मिन्रणमुखे घोरो सावित्रेण तदाऽनघ ॥
सुमाली निहतः संख्ये रावणस्यार्भको बलात

1.221.225.1.222.30

अजेयान्राक्षसाञ्ज्ञात्वा पुलोमा नाम दानवः ॥
जयन्तमिन्द्रतनयं दौहित्रं स्वं रणाजिरात्

1.221.225.31

रक्षार्थमनयच्छ्रीमान्स्वगृहं वसुधातले ॥
अपश्यमानं पुत्रं स्वं शक्रं विह्वलचेतसम्

1.221.225.32

बबन्ध मेघनादस्तु ब्रह्मलव्धवरः शनैः ॥
अनयच्च तथा लङ्कां ततो देवः पितामहः

1.221.225.33

गत्वा तं मोचयामास शक्रं त्रिभुवनेश्वरम् ॥
मेघनादस्य चास्त्राणि मायाश्च विविधास्तथा ॥

1.221.225.34

अमरत्वं तदा प्रादाद्वह्निकर्मान्तरं विना ॥
नाम चक्रे तदा चास्य शक्रजित्त्वं भविष्यसि

1.221.225.35

मेघनादं सान्त्वयित्वा मोचयित्वा शतक्रतुम् ॥
उवाच भगवान्ब्रह्मा देवं दशशतेक्षणम्

1.221.225.36

गौतमस्य प्रिया भार्या मनसा निर्मिता मया ॥
रूपेणाप्रतिमा शक्र त्वया विध्वंसिता यदा

1.221.225.37

तदा गौतमशापेन विफलत्वं गतः स्वयम् ॥
देवैः कृतस्त्वं सम्भूय शेपस्तम्भः पुरन्दर

1.221.225.38

अहल्या च तदा शप्ता गौतमेन महात्मना ॥
अदृश्या सर्वभूतानां विचरिष्यसि दुःखिता

1.221.225.39

परदाररतश्चासौ द्वे पापं समवाप्स्यति ॥
तेन शापेन संयोगा परदारैश्च वासव

1.221.225.1.222.40

बन्धनं तत्त्वया प्राप्तं तस्य पापस्य कर्मणः ॥
फलात्त्रिभुवनश्रेष्ठ समरेषु पराजयम्

1.221.225.41

तस्माद्धर्मेण धर्मज्ञ त्पालयस्व जगत्त्रयम् ॥
धर्मो धारयते लोकान्यतो धर्मस्ततो जयः

1.221.225.42

गते स्वलोकं भुवनप्रधानं पद्मोद्भवे दानवपूगहर्ता ॥
त्रिविष्टपं प्राप्य शशास राज्यं महानुभावस्त्रिदशाधिनाथः

1.221.225.222

इति श्रीविप्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे स्वर्गविजयो नाम द्वाविंशत्युत्तर द्विशततमोऽध्यायः

1.221.225.1

1.223
॥ शैलूष उवाच ॥ ॥
पातालविजयं तस्य रावणस्य महात्मनः ॥
श्रोतुमिच्छामि तत्त्वेन तत्र कौतूहलं हि मे

1.221.225.2

नाडायन उवाच ॥ ततः स गत्वा पातालं युयुधे दैत्यसत्तमैः ॥
कालखञ्जैर्महाभागैः कालकेयैश्च दारुणैः

1.221.225.3

निवात कवचैश्चैव संवत्सरमतन्द्रितः ॥
पतिं शूर्पणखायास्तु विद्युज्जिह्वं तु दानवम्

1.221.225.4

अजावक्त्रवतस्तत्र जघान रणगर्वितम् ॥
तत्रागम्य तदा ब्रह्मा निवातकवचैः सह

1.221.225.5

चकार सख्यं सर्वात्मा दशग्रीवस्य रक्षसः ॥
ततस्तु युयुधे नागैर्घोररूपैर्विषोल्बणैः

1.221.225.6

वशी कृत्त्वा ततो नागान्वरुणस्य पुरं ययौ ॥
ब्रह्मलोकगते राजन्वरुणे सुमहात्मनि

1.221.225.7

पुष्करः प्रददौ युद्धं रावणस्य दुरात्मनः ॥
वरुणस्य सुतः श्रीमाञ्जामाता बलिनस्तथा

1.221.225.8

सोमपुत्र्या महाराज ज्योत्स्नया यः स्वयं वृतः ॥
अर्थशास्त्रं विजानाति यः समग्रं महायशाः

1.221.225.9

अस्त्रग्रामं समग्रं च तथा शस्त्राण्यनेकशः ॥
रूपदाक्षिण्यलावण्यधर्मचर्यैः समन्विते

1.221.225.1.223.10

बले शौर्ये तथा दाने तुल्यो यस्य न विद्यते ॥
भ्रातृभिर्भ्रातृपुत्रैश्च सैन्येन महता यथा

1.221.225.11

दत्त्वा युद्धं महाघोरं सान्त्वयामास राक्षसम् ॥
ततः स नगरं जित्वा वरुणं सुमहाबलम्

1.221.225.12

सैन्यैर्विश्रवसः पुत्रो मानुष्यं पुनरागतः ॥
किष्किन्धां स ततो गत्वा पुरीं वानरपालिताम्

1.221.225.13

पप्रच्छ वानरांश्चैव क्वासौ वाली महाबलः ॥
तं जगाद महातेजा तारो गहनगोचरः

1.221.225.14

किं स्यात्ते वालिना कार्यं तन्ममाचक्ष्व पृच्छतः ॥
रावण उवाच ॥
युद्धातिथ्यमहं तस्मात्प्रार्थयामि वलीमुखात

1.221.225.15

बलवाञ्श्रूयते राजा जिज्ञासा तस्य मे बले ॥
तार उवाच ॥
जिज्ञासितो यदा वाली त्वत्तोऽन्यैर्बलवत्तरैः

1.221.225.16

निहताः शतशस्तेन त्वत्तो वीर्यबलाधिकाः ।
इदानीमेव निहतो दुन्दुभिस्तेन राक्षसः

1.221.225.17

प्रविश्य विवरं घोरं मायावी तेन घातितः ॥
बिले प्रविष्टस्य तदा राजन्संवत्सरसं गतम्

1.221.225.18

सुग्रीवेण तदा तस्य द्वारं पिहितमात्मना ॥
स तु संवत्सरस्यान्ते हत्वा मायाविनं रणे

1.221.225.19

ददर्श राजन्सुग्रीवं किष्किन्धायां तदाऽनुजम् ॥
स्वपत्न्या रुमया सार्धं वालिपत्न्या च तारया

1.221.225.1.223.20

क्रीडमानं यथा शक्रं क्रोधस्य वशमन्वगात् ॥
रुमां तारां तथा हृत्वा तेन निर्वासितस्त्वसौ

1.221.225.21

निर्वासिते तु सुग्रीवे पश्चात्ताप समन्वितः ॥
हन्तुकामस्तु सुग्रीवं वाली पर्यचरन्महीम्

1.221.225.22

तदा वालिभयत्रस्तः सुग्रीवोऽपि पलायितः ॥
न स लेभे सदा त्राणं तदा सस्मार राक्षसम्

1.221.225.24

मतङ्गशापं राजेन्द्र वालिनः स तथा स्वयम् ॥
हत्वा तु दुन्दुभिं वाली पादाडुष्ठेन योजयत्। २३ ॥
चिक्षेप राक्षसश्रेष्ठं मतङ्गस्याश्रमं प्रति ॥
मतङ्गस्याश्रमं दृष्ट्वा रुधिरेण समन्वितम्

1.221.225.25

शशाप वालिनं रोषात्तस्यास्मिन्मे महद्वने ॥
सद्यः प्रविष्टमात्रस्य जीवितं न भविष्यति

1.221.225.26

अगम्यं वालिनो ज्ञात्वा मतङ्गस्य महद्वनम् ॥
चतुर्भिः सचिवैः सार्धं सुग्रीवस्तमुपाश्रितः

1.221.225.27

नलेन राजन्नीलेन तारेण च हनूमता ॥
हनूमान्सचिवस्तस्य देवानामपि निर्भयः

1.221.225.28

जातमात्रस्तु यो बाल्ये वीक्ष्य सूर्यं खमाप्लुतः ॥
भक्ष्यार्थी तस्य पार्श्वस्थं राहुं दृष्ट्वा निशाचरम्

1.221.225.29

सूर्यमुत्सृज्य भक्ष्यार्थी तदा राहुं प्रदुद्रुवे ॥
राहुर्जगाम शरणं भयाद्भीतं च वासवम्

1.221.225.1.223.30

तस्यानु प्रययावेव स तु बालो महाबलः ॥
स ददर्श महाकायं तदा शक्रस्य दन्तिनम्

1.221.225.31

तं प्रदुद्राव भक्ष्यार्थी सशक्रं कुञ्जरोत्तमम् ॥
प्राहरत्त्वरया वज्रं ततस्तस्य सुराधिपः

1.221.225.32

तस्य वज्रप्रहारेण वामो हनुरभज्यत ॥
हनुमानिति तेनास्य नाम चक्रे पितामहः

1.221.225.33

क्रुद्धं च जगतां वायुं सान्त्वयित्वा पितामहः ॥
वरेण च्छन्दयामास हनुमन्तं महाबलम्

1.221.225.34

सर्वैर्देवगणैः सापि लोकानां हितकाम्यया ॥
अजरामरतां तस्य अजेयत्वं तथा रणे

1.221.225.35

प्रददुर्देवताः सर्वे बलं चाप्रतिमं तथा ॥
स्वयं भगवता तस्य सूर्येण सुमहात्मना

1.221.225.1

1.224
------
-- - - - -
1.225
... ...विनायकं तु तुष्टाव ततः शम्भुस्त्रिलोकधृक् ॥
पुराणां सङ्गमार्थाय अविद्येनेति मानद

1.221.225.2

शङ्कर उवाच ॥
नमस्यामि महाबाहुं देवदेवं गणेश्वरम् ॥
हस्तिवक्त्रं महाकायं व्याघ्रचर्माम्बरच्छदम्

1.221.225.3

चन्द्ररश्मिप्रतीकाशं चारुदंष्ट्रोज्वलाननम् ॥
भक्तानां विघ्नशमनं सुराद्यं पार्वतीसुतम्

1.221.225.4

परश्वधधरं वीरमक्षमाला विभूषितम् ॥
ब्रह्मण्यं वरदं सौम्यं विघ्नानां पतिमूर्जितम्

1.221.225.5

पीनास्यं लम्बजठरं हारभारार्पितोदरम् ॥
अष्टमी च चतुर्थी च वृता येन चतुर्दशी

1.221.225.6

कुल्माषोत्क्लोपिकापूपैर्मोदकैरोदनेन च ॥
पूजयन्ति जना लोके धूपमाल्याऽनुलेपनैः

1.221.225.7

स्वस्तिवाचनकैश्चैव तेषां नास्तीह दुर्लभम् ॥
पुत्रार्थी लभते पुत्रान्धनार्थी धनमुत्तमम्

1.221.225.8

व्याधितश्च तथारोग्यं बद्धो मुच्येत बन्धनात् ॥
त्वां तु संपूजयित्वा वै वरदं कामरूपिणम्

1.221.225.9

इष्टान्कामानवाप्नोति नात्र कार्या विचारणा ॥
यश्चाधीते स्तवमिमं तव नित्यं गणेश्वर

1.221.225.1.225.10

तस्यापि सर्वकामानां सदा दाता भविष्यसि ॥
नाडायन उवाच ॥
इत्येवं संस्तुतः श्रीमाञ्शंकरेण विनायकः

1.221.225.11

एकस्थानगतं चक्रे विना विघ्नं पुरत्रयम् ॥
एकस्थं त्रिपुरं विष्णुः शराग्रस्थो धनुश्च्युतः ॥
शंकरप्रेरितः शीघ्रं तदा चक्रे स भस्मसात्

1.221.225.12

पुरत्रये देववरेण तेन विनिर्मितेऽभूज्जगतां प्रहर्षः ॥
जग्मुस्तदा देवगणाः प्रहष्टाः स्थानानि राजेन्द्र तथा स्वकानि

1.221.225.225

इति श्रीविप्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शैलूषं प्रति नाडायनवाक्ये त्रिपुरदाहवर्णनो नाम पंचविशत्युत्तरद्विशततमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc