भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 1.21

1.21.1

वज्र उवाच ॥
गङ्गा विष्णुपदी लोके किमर्थं कथिता बुधैः ॥
तन्ममाचक्ष्व तत्त्वेन भृगुवंशविवर्धन!

1.21.2

मार्कण्डेय उवाच ॥
स्वायम्भुवेन्तरे पूर्वं चत्वारो देवतागणाः ॥
जयाख्याश्चाजिताख्याश्च शुक्राख्याश्च प्रकीर्तिताः

1.21.3

तेषां बभूव देवेन्द्रो विश्वभुग्लोकपूजितः ॥
आसंस्तस्या सुरा घोरास्तदा दायादबान्धवाः

1.21.4

बभूव राजा तेषां च बाष्कलिर्न्नाम नामतः ॥
येन विक्रम्य शक्रस्य हृतं राज्यं तदा बलात्

1.21.5

हृतराज्यस्तु देवेन्द्रो ब्रह्माणं शरणं गतः ॥
ब्रह्मापि शक्रमादाय जगाम शरणं हरिम्

1.21.6

निवेदयामास तदा देवदेवाय शार्ङ्गिणे ॥
बाष्कलेर्विजयं सर्वं ब्रह्मा शुभचतुर्मुखः

1.21.7

श्रीभगवानुवाच ॥
ब्रह्मन्प्रत्याहरिष्यामि राज्यमस्य शतक्रतोः॥
दिवि देवेषु धर्मात्मन्निवृत्तो भव मा चिरम्

1.21.8

अहं वामनरूपेण प्रयास्ये बाष्कलिं नृपम् ॥
मां दृष्ट्वा विस्मितं तन्तु गत्वा याचतु देवराट्

1.21.9

लोकत्रयं मम हृतं त्वया विक्रम्य बाष्कले ॥
तत्राग्निशरणार्थाय दीयतां मे क्रमत्रयम्

1.21.1.21.10

अतीव ह्रस्वगात्रस्य वामनस्यास्य मा चिरम् ॥
एवमुक्तस्तु शक्रेण तदा दाता क्रमत्रयम्

1.21.11

मार्कण्डेय उवाच ॥ ॥
इत्येवमुक्तो देवेन ब्रह्मा स्वभवनं गतः ॥
देवोऽपि वामनो भूत्वा प्रयातो यत्र बाष्कलिः

1.21.12

बाष्कलिर्वामनं दृष्ट्वा विस्मयोत्फुल्ललोचनः ॥
निरीक्ष्य तं यथाकाममसुरैर्बहुभिर्वृतः

1.21.13

एतस्मिन्नेव काले तु शक्रस्तं देशमाययौ ॥
पाद्यार्घ्याचमनीयाद्यैः शक्रं संपूज्य बाष्कलिः

1.21.14

किमागमनकार्यं ते तमुवाच प्रहृष्टवाक् ॥
अत्याश्चर्यमिदं मन्ये तवागमन कारणम्

1.21.15

शक्र उवाच ॥
लोकत्रयं मेऽपहृतं विक्रमेण तु बाष्कले! ॥
तत्राग्निशरणार्थाय दीयतां मे क्रमत्रयम्

1.21.16

अतीव ह्रस्वगात्रस्य वामनस्यास्य पार्थिव ॥
भूमिभागे तु पारक्ये वस्तुं न त्वहमुत्सहे

1.21.17

बाष्कलिरुवाच ॥
क्रमत्रयं वामनके देवराज कृतं शुभम् ॥
तत्रास्स्वमुदितः प्राप्तः सुखी सुरपते भव

1.21.16

मार्कण्डेय उवाच ॥
एवमुक्तो बाष्कलिना त्यक्त्वा रूपं तु वामनम्

1.21.19

हरिर्विचक्रमे लोकान्देवानां हितकाम्यया ॥
ब्रह्मलोकं ततो गत्वा..... ॥
देवस्य वामश्चरणो निविष्टो दानवालये

1.21.1.21.20

ततः क्रमं स प्रथमं ददौ सूर्य्ये जगत्पतिः ॥
द्वितीयं च ध्रुवे देवस्तृतीयेन च यादव ।

1.21.21

ब्रह्माण्डं ताडयामास ह्यसंपूर्णेन केशवः ॥
ब्रह्माण्डस्ताडितस्तेन छिद्रतामगमत्प्रभो

1.21.22

ब्रह्माण्डबाह्यतोयेन शतघ्नेनाम्भसावृतम् ॥
तेनच्छिद्रेण तत्तोयं विवेशाण्डं महीपते

1.21.23

अंगुष्ठाग्रक्षतादण्डाद्यत्प्रविष्टं जलं शुचि ॥
प्राप्ता देवनदीत्वं तु सा तु विष्णुपदी नदी

1.21.24

देवनद्या तया व्याप्तं ब्रह्माण्डं सकलं नृप! ॥
विभूतिभिर्महाभाग सर्वानुग्रहकाम्यया

1.21.25

वामनेन समाक्रान्ताः सर्वे लोका यदानघ! ॥
असुरैस्ते तदा त्यक्ता देवानां सत्यबान्धवैः

1.21.26

पातालश्च यदा तेन नाक्रान्तं हरिमेधसा ॥
असुरैस्तैस्तदा घोरैरुष्यते यदुनन्दन!

1.21.27

देवोऽपि हृत्वा त्रैलोक्यं जगामादर्शनं तदा ॥
पातालनिलयश्चापि सुखमास्ते स बाष्कलिः

1.21.28

शक्रोऽपि पालयामास विपश्चिद्भुवनं तदा ॥
इमं त्रिविक्रमं नाम प्रादुर्भावं जगद्गुरोः

1.21.29

गङ्गासंभवसंयुक्तं सर्वकिल्विषनाशनम्

1.21.1.21.30

तेनैव देवदेवेन प्राप्ते वैवस्वतेऽन्तरे ॥
भूयो लोकास्त्रयः क्रान्ताः पदा संयमिनो नृप

1.21.31

अनेन कारणेनोक्ता गंगा विष्णुपदी नृप ॥
यया सर्वमिदं व्याप्तं त्रैलोक्यं सचराचरम्

1.21.32

गंगासमुत्पत्तिरियं मयोक्ता श्रुत्वैव यां मुञ्चति सर्वपापम् ॥
पापैर्विशिष्टोऽपि नरो नृवीर साधुव्रतस्तु त्रिदिवं प्रयाति

1.21.21

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे त्रिविक्रमोपाख्यानं नामैकविंश तितमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc