भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 1.22

1.22.1

वज्र उवाच ॥
ब्रह्मन्विष्णुपदी गंगा त्रैलोक्यं व्याप्य तिष्ठति ॥
यथा तथा भृगुश्रेष्ठ सर्वमेव प्रकीर्तय

1.22.2

मार्कण्डेय उवाच ॥
प्रविश्य देवी ब्रह्माण्डं विष्णुलोकमुपागता ॥
ब्राह्मीं सभां प्लावयित्वा तपोलोकमुपागता

1.22.3

जनलोकं गता तस्मान्महर्ल्लोकं ततो गता ॥
स्वर्गलोकं समासाद्य प्रविष्टा चन्द्रमण्डलम्

1.22.4

चन्द्रमण्डलविभ्रष्टा भुवर्लोकमुपागता ॥
आकाशगंगा कथिता तत्र सा रतिवर्धिनी

1.22.5

तस्यास्तु दृश्यते पन्थाः सततं व्योम्नि निर्मले ॥
आकाशगंगामध्ये सा मेरौ निपतिता गिरौ

1.22.7

मेरुमध्याददृश्यन्ती दृश्यन्ती च तथा क्वचित् ॥
प्रयाता सर्ववर्षाणि द्वीपानि च महामते॥॥
सा तु देवी जया नाम कुरुवर्षे ह्रदास्तु ते ॥
तेभ्यः शान्ता च साध्वी च द्विधा गंगा विनिस्सृता

1.22.9

ज्योत्स्ना च मृगमन्दा च स्मृता हैरण्वती शुभा ॥
पुण्डरीका पयोदा च रम्ये वर्षे निगद्यते ॥ ८ ।
भद्रा च कथिता देवी गान्धर्वी च मनोऽनुगा ॥
इलावृते तथा सैव प्रोक्ता जाम्बवती शुभा

1.22.1.22.10

तस्यास्तीरभवं मूर्ध्नि कनकं धार्यते सुरैः॥
केतुमाले च कथिता निर्मला नड्वला तथा

1.22.11

मनस्विनी ज्योतिष्मती हरिवर्षे निगद्यते॥
तथा किम्पुरुषाख्ये तु रम्भा चन्द्रवती शुभा

1.22.12

।
इन्द्रद्युम्नपयोदा सा काशैका मतिपावनी ॥
मनोजवा ताम्रपर्णी गभस्तिमतिमालिनी

1.22.13

नागद्वीपे नागवती सौम्ये सोमप्रभा तथा ॥
रुद्रलोकं ततः प्राप्ता ब्रह्मलोकं ततो गता

1.22.14

गान्धर्वी चैव गन्धर्वी वारुणे वरुणह्रदा ॥
ह्रादिनी ह्लादिनी चैव पुण्यतोया च वर्षिणी

1.22.15

सीता चक्षुश्च सिन्धुश्च गंगा चास्मिन्प्रकीर्तिता ॥
अमरान्निषधान्सर्वान्धीवरानृषिकांस्तथा

1.22.16

ओष्ठप्रावरणान्सौम्यान्कर्णप्रावरणांस्तथा ॥॥
कालोदरान्विकर्णांश्च ह्रादिनी तु निषेवते

1.22.17

इन्द्रद्युम्नसरः पुण्यमुपचारादजायत ॥
तथा खरपदान्देशान्वेत्रशङ्कुपदानपि

1.22.18

तञ्जानकामतं चैव ह्लादिनी तु निषेवते ॥
दरदाञ्जहुडांश्चैव काश्मीरान्नैरसान्कुरून्

1.22.19

गान्धारान्दरदाभीरान्कुपर्वान्भीमरौरवान् ॥ ५३।
शिवपर्वानिन्द्रपर्वान्सिन्धुतीरान्निषेवते

1.22.1.22.20

देवान्दैत्यान्कालकेयान्गन्धर्वान्किन्नरांस्तथा ॥
विद्याधरांस्तथा नागान्सुपर्वान्सुमनोहरान्

1.22.21

कलापग्रामकांश्चैव नरनारायणाश्रमम् ॥
किरातांश्च पुलिन्दांश्च मयस्य नगरीं तथा

1.22.22

कुतून्सभारतांश्चैव पुलिन्दाँश्चैव भागशः ॥
पाञ्चालान्काशयान्वत्सान्मागधांस्ताम्रलिप्तकान्

1.22.23

सह्योत्तरांश्च वङ्गांश्च तथा श्रावस्तिवासिन ॥
अङ्गान्वंगान्सपुण्ड्रांश्च गंगा भावयते शुभा

1.22.24

ह्रादिनी ह्लादिनी चैव पावनी जाह्नवी तथा ॥
प्रविष्टा सागरं पूर्वं द्वीपेस्मिन्नृपसत्तम

1.22.25

सीताचक्षुश्च सिन्धुश्च पश्चिमं नृप सागरम् ॥
गङ्गाव्याप्तिस्तव प्रोक्ता जम्बूद्वीपे मयानघ

1.22.26

लोकेषु च तथा राजन्द्वीपेष्वन्येषु मे शृणु ॥
सुकुमारी कुमारी च सुकृता सेविनी तथा

1.22.27

इक्षुश्च वेणुका नन्दा शाकद्वीपे च सप्तधा ॥
शाल्मले त्वथ गोमेदे द्वीपे पुष्करसंज्ञके

1.22.28

नदीत्वं सा समुत्सृज्य चोदधित्वमुपागता ॥
तस्मिन्द्वीपत्रये नद्यो न सन्ति यदुनन्दन

1.22.29

उदकान्युद्भिदान्येव तेषु सन्ति सहस्रशः ॥
एवं भूमितलं प्लाव्य पातालं कृष्णमृत्तिकम्

1.22.1.22.30

एकीभूता प्रविष्टा सा भोगवत्यां समीपतः ॥
श्वेतभौमं गता तस्माद्रक्तभौमं ततो गता

1.22.31

शिलाभौमं गता तस्माद्रुक्मभौमं ततो गता ॥
रुक्मभौमादपि गता रौद्रं तेजस्सुदारुणम्

1.22.32

ततोऽपि विलयं गत्वा वाराहं लोकमागता ॥
वाराहलोकाद्ब्रह्माण्डं तदर्थं भिन्न वाहिनी

1.22.33

छिद्रेण तेन सा देवी स्वां योनिं पुनरागता

1.22.34

एवं नरेन्द्रेश जगत्समग्रमाक्रम्य गंगा सततं स्थिता या ॥
तस्याः प्रभावश्रवणादशेषं पापं नराणां समुपैति शांतिम्

1.22.22

॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे गंगाव्याप्तिर्नाम द्वाविंशतितमो ऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc