विष्णुधर्मोत्तरपुराणम् · अध्याय 1.20
वज्र उवाच ॥
भागीरथीत्वं गङ्गात्वं देवनद्या मया श्रुतम् ॥
किर्मर्थं जाह्नवी लोके कथ्यते सागरङ्गमा
मार्कण्डेय उवाच ॥
पञ्चालाख्योऽस्ति विषयो मध्यदेशे महीपते ।
स्वधर्मकर्मनिरतैर्युतो वर्णाश्रमैः सदा
महोदयं पुरं तत्र कुशस्तम्भेन निर्मितम् ॥
सर्वरत्नसमाकीर्णं कान्यकुब्जेति विश्रुतम्
तस्मिन्बभूव भूपालो जह्नुः परमधार्मिकः ॥
यस्य कीर्तिमतः कीर्तिर्ब्रह्माण्डं व्याप्य तिष्ठति
स कदाचिन्महीपालो हयमेधमुपाहरत् ॥
दीक्षितस्य नरेन्द्रस्य यज्ञवाटं तु निम्रगा
प्लावयामास वेगेन जलौघैर्यदुसत्तम्
प्लाविते यज्ञवाटे तु राजा गङ्गां तदाब्रवीत्
अस्य गङ्गैऽवलेपस्य सद्यः फलमवाप्नुहि ॥
पिबामि सकलं तोयं तव सागरवल्लभे
एवमुक्त्वा पपौ राजा सर्वं भागीरथीजलम् ॥
तपसा महता राजंस्तथा योगबलेन च
दृष्ट्वैव गङ्गां निस्तोयां दीनैर्मुनिजनैस्ततः ॥
प्रसादितस्तु गङ्गार्थे तत्याज श्रवणेन ताम्
दुहितृत्वे च जग्राह राजा भागीरथीं तदा ॥
तेन सा कथिता लोके जाह्नवी यदुनन्दन
अतीव दर्पितो राजा गङ्गायाः स यदा नृप ॥
यशोऽर्थं प्लावयामास यज्ञवाटं तदानघ
एवं त्रिलोके नृप जह्नुकन्या प्रोक्ता बुधैर्विष्णुपदी पवित्रा ॥
हिमाचलस्याद्रिपतेस्तनूजा समुद्रपत्नी वरदा विशोका
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे जह्नुकन्योपाख्यानं नाम विंशतितमोऽध्यायः
मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0