भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 1.206.210

1.206.210.1

1.206
॥ मार्कण्डेय उवाच ॥ ॥
निवेशमकरोद्राजन् गङ्गातीरे स राघवः ॥
भरतस्य तदा चक्रुर्गङ्गायां जलमण्डपान्

1.206.210.2

तथैव बलमुख्यानां प्राधान्येन नराधिप ॥
सैनिकश्च जनस्तस्य प्राप्य तां सुरनिम्नगाम्

1.206.210.3

साफल्यं जन्मनो मेने तत्याज च तथा क्लमम् ॥
सस्नौ पपौ पयः कामं हर्षेण महता युतः

1.206.210.4

।
स्नापयाञ्चक्रिरे तत्र तुरगांस्तुरगप्रियाः ॥
कुञ्जरान्स्नापयमासुर्महामात्रास्तथैव च

1.206.210.5

मज्जद्भिर्बहुसाहस्रैः कुञ्जरैर्जाह्नवी नदी ॥
किरातविषयैः सैव विरराज यथोपलैः

1.206.210.6

समुत्थितमहामात्रान्दृष्ट्वाभ्युक्षणछद्मना ॥
चिक्रीडुर्दृतिभिः केचिद्विविशुर्बाहुभिस्तथा

1.206.210.7

गङ्गामासाद्य संहृष्टा भरतस्य तु सैनिकाः ॥
भरतोऽपि तथा स्नातः कृतदैवतपूजनः

1.206.210.8

श्राद्धं चक्रे महातेजा ददौ दानं तथैव च ॥
दत्त्वा तत्र महादानानाज्ञापयति यादव

1.206.210.9

शिल्पिनो मम कुर्वन्तु कूटागारान्मनोरमान् ॥
रात्रौ दीपनिवेशार्थं शतशोऽथ सहस्रशः

1.206.210.1.206.10

आनीयन्तां तथा नावः सैन्यस्य तरणाय मे ॥
क्रियन्तां चर्मनावश्च प्लवाश्च शतशस्तथा

1.206.210.11

उत्तरं पारमासाद्य निवेशः क्रियतां तथा ॥
परं पारं जना यान्तु उदयास्तमयान्तरे

1.206.210.12

एवमाज्ञाय भरतो विजहार यथासुखम् ॥
प्रसारितकरो राजन्सर्वत्रैव दिवाकरः

1.206.210.13

ययावदर्शनं तत्र भरतस्यैव लज्जया ॥
पद्मपत्रदलाग्राभा प्रतीची चाभवत्क्षणात्

1.206.210.14

आदित्येस्तमनुप्राप्ते सन्ध्यारागानुरञ्जिता ॥
ततस्तु तमसा व्याप्ते न प्राज्ञायत किञ्चन

1.206.210.15

भरताज्ञाकृतान्पूर्वं कूटागारान्सदीपकान् ॥
ध्वजमालापरिक्षिप्तांश्चिक्षिपुर्जाह्नवीजले

1.206.210.16

सैनिकैश्च तथा मुख्यैर्भरतस्य पृथक्पृथक् ।
गङ्गाम्भसि परिक्षिप्ता दीपवृक्षाः सहस्रशः

1.206.210.17

सा दीपमालिनी गङ्गा तीरद्योतितविग्रही ॥
जहास फेनहासेन जिह्वेव गगनप्रिया

1.206.210.18

जलान्तरागतै र्दीपैर्दीपवृक्षैर्मनोहरैः ॥
तथा कल्लोलसंक्रान्तैर्गङ्गा दीप्तेव लक्ष्यते

1.206.210.19

एवं हि क्रीडतां तत्र गङ्गातीरे तथा नृणाम् ॥
रात्रावेवाञ्जसा जग्मुर्नावो बहुविधा नृप

1.206.210.1.206.20

शशाङ्कराजहंसेन दृष्ट्वा खसरसीं जनाः ॥
आक्रम्यमाणा सुषुपुर्निशीथे निद्रयान्विताः

1.206.210.21

शशाङ्कोदयसंसुप्तबलं पद्मवनोपमम् ॥
निबोधयामास तथा दिवाकरकरोत्करम्

1.206.210.22

चकृषुस्ते तदा नावः कर्णधारा यथा स्वकाः ॥
बलं च सकलं पारं तारया ञ्चक्रिरे तदा

1.206.210.23

नावस्तां किङ्किणीजालैः पताकाभिश्च राजिता ॥
निन्युर्बलं परं पारं कर्णधारस्फिगाहताः

1.206.210.24

भाण्डैः पूर्णास्तथा काश्चित्काश्चित्पूर्णा जनेन च ॥
तुरङ्गमैस्तथा पूर्णा गोखरोष्ट्रैस्तथा पराः

1.206.210.25

काश्चित्सकुञ्जरा नावो ययुः पारं तदा परम् ॥
तथा पद्मदलाक्षीणां स्त्रीणां नावश्च पूरिताः

1.206.210.26

विमानाभाः प्रदृश्यन्ते गङ्गाम्भसि नरेश्वर ॥
कर्णधारवरोपेता दण्डिभिः पुरुषैर्वृताः

1.206.210.27

लोकसन्तारणार्थाय भूयो जग्मुस्तथा पराः ॥
चर्मनौभिस्तथा केचित्प्लवैः केचित्सुयन्त्रितैः

1.206.210.28

जग्मुरादाय भाण्डानि दृतिभिश्च तथा क्वचित् ॥
नरैर्दृतिसमारूढैः कृष्यमाणास्तुरङ्गमाः

1.206.210.29

जग्मुः केचित्परं पारं बाहुभिर्मनुजेश्वर ॥
जग्मुरन्ये परं पारं संगृहीताश्च रश्मिभिः ॥

1.206.210.1.206.30

नौस्थैरेव परैः शीघ्रं तुरगा नृपबाहुभिः ॥
महिषीणां च सङ्घानि गवां च यदुनन्दन

1.206.210.31

जग्मुर्गोपालकैः सार्धं परं पारं च बाहुभिः ॥
उष्ट्रगर्दभसंघानि तार्यमाणानि बाहुभिः

1.206.210.32

भूयोभूयो न्यवर्तन्त तत्र रावो महानभूत् ॥
तीर्णस्य तार्यमाणस्य नरस्य यदुसत्तम

1.206.210.33

आसीत्कोलाहलो घोरस्तीरयोरुभयोरपि ॥
भरतोऽपि महातेजाः स्नातो हुतहुताशनः

1.206.210.34

मत्स्यरूपधरं विष्णुं पटे सम्पूज्य यादव ॥
स्वस्तिवाच्यांस्ततो विप्रान्गोभिर्वस्त्रैर्धनेन च

1.206.210.35

सम्पूज्य जाह्नवीं देवीं गन्धमाल्यानुलेपनैः ॥
सम्पूजयामास तदा भूय एव द्विजोत्तमान्

1.206.210.36

गोभिरश्वैस्तथा निष्कैर्वस्त्रैर्गन्धैस्तथैव च ॥
आरुरोह तदा नावं पाण्डुकम्बलसंवृताम्

1.206.210.37

किङ्किणीजालविततां पताकाध्वजमालिनीम् ॥
भरते तु समारूढे कर्णधारस्फिगाहता

1.206.210.38

जगाम सा परं पारं नौर्विमानोपमा नृप ॥
सम्प्राप्य स परं पारं सम्पूर्णकटकस्तदा ॥
उवास राजंस्तत्रैव दिवि देवेश्वरो यथा

1.206.210.39

देवीं महादेवजटातटस्थां शशाङ्कसंसर्गविवृद्ध शीताम् ॥
उत्तीर्य राजा भरतः स चैनां निन्ये क्षयं शक्रसमप्रभावः

1.206.210.206

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे गङ्गावतरण वर्णनो नाम षडुत्तरद्विशततमोऽध्यायः

1.206.210.1

1.207
॥ मार्कण्डेय उवाच ॥
भरते तु समुत्तीर्णे गङ्गां गगनमेखलाम् ॥
विवेश कटकं तस्य तमन्यः कौरवो नृप

1.206.210.2

बलेन चतुरङ्गेण समुद्राभेन संयुतः ॥
ईश्वरश्च किरातानां दमनो नाम पार्थिवः

1.206.210.3

गन्धिनां बहुसाहस्रैर्बलैर्युक्तो व्यदृश्यत ॥
यथार्हं पूजयित्वा तं भरतो धर्मवत्सलः

1.206.210.4

आससादार्कतनयां यमुनां पापनाशिनीम् ॥
यमस्य भगिनीं पुण्यां नीलमालां मनोहराम्

1.206.210.5

यत्र क्वचन नद्यां हि कृत्वा श्राद्धन्नराधिप ॥
अक्षयं फलमाप्नोति नाकपृष्ठे च मोदते

1.206.210.6

यत्र कृष्णचतुर्दश्यां स्नातः सम्पूज्य भानुजाम् ॥
मुच्यते पातकैः सर्वैर्नाकलोकं स गच्छति

1.206.210.7

अनर्काभ्युदिते काले माघकृष्णचतुर्दशीम् ॥
यस्यां स्नातस्तु सम्पूज्य धर्मराजं तिलांभसा

1.206.210.8

न दुर्गतिमवाप्नोति कुलं चैव समुद्धरेत् ॥
यत्र क्वचन नद्यां हि माघकृष्णचतुर्दशीम्

1.206.210.9

नादेयाम्भसि सर्वस्मिन्स्नातः पापैर्विमुच्यते ॥
यमुना तु विशेषेण यमस्य भगिनीति सा

1.206.210.1.207.10

स्नातश्च यामुने तोये सन्तर्प्य पितृदेवताः ॥
न दुर्गतिमवाप्नोति नाकलोकं च गच्छति

1.206.210.11

तां समासाद्य यमुनां यथा गङ्गाजलं तथा ॥
विहृत्य भरतस्तद्वदुत्ततार महानदीम्

1.206.210.12

समुत्तीर्णस्य यमुनां भरतस्य महात्मनः ॥
विवेश कटकं राजा मत्स्यानां सुरथस्तदा

1.206.210.13

गोरसेनश्च साल्वानां शिबीनां च प्रभद्रकः ॥
स तैर्नृपतिभिः सार्धं कुरुक्षेत्रमुपाययौ

1.206.210.14

यदर्थमेषा चरति लोके गाथा पुरातनी ॥
पांसवोऽपि कुरुक्षेत्रे वायुना सममीरिताः

1.206.210.15

अपि दुष्कृतकर्माणो नयन्ति परमां गतिम् ॥
समन्तपञ्चके पुण्ये ये मृता मनुजेश्वर

1.206.210.16

ते सर्वे नाकमासाद्य राजन्ते दिवि देववत् ॥
सन्नीतिर्यत्र राजेन्द्र तीर्थं त्रैलोक्यविश्रुतम्

1.206.210.17

तीर्थसन्नयनादेव सन्नीतिरिति विश्रुतम् ॥
पृथिव्यां यानि तीर्थानि आसमुद्रसरांसि च

1.206.210.18

मासान्ते सततं तत्र नित्यमायान्ति यादव ॥
तत्र श्राद्धं तु यः कुर्याद्राहुग्रस्ते दिवाकरे

1.206.210.19

अश्वमेधशतस्याग्रं फलं विन्दति मानवः ॥
भरतस्तु समासाद्य तत्रोवास सुखी तदा

1.206.210.1.207.20

पप्रच्छ ब्राह्मणांस्तत्र तीर्थसन्नीतिकारणम् ॥
पृष्टस्तु भरतेनाथ ब्राह्मणस्तु घटोदरः

1.206.210.21

उवाच भरतं तत्र कथां पापप्रणाशिनीम् ॥
घटोदर उवाच ॥
शक्रे वृत्रवधाक्रान्ते त्रैलोक्ये दैत्यसाद्गते

1.206.210.22

सब्रह्मकाः सुराः सर्वे विष्णुं शरणमाययुः ॥
तानुवाच हरिर्देवश्च्यवनस्यात्मसम्भवः

1.206.210.23

भार्गवो ब्राह्मणः श्रीमान्दधीच इति विश्रुतः ॥
अस्थिभिः क्रियतां तस्य देवेन्द्रस्य वरायुधम्

1.206.210.24

प्रविश्य देवांस्तत्राहं हन्ता वृत्रमसंशयम् ॥
एवमुक्ताः सुराः सर्वे दधीचस्याश्रमं ययुः

1.206.210.25

ददृशुश्च महाभागं दधीचं तपसां निधिम् ॥
पूजयित्वा महाभागं तमूचुः संहताः सुरा.

1.206.210.26

त्वदस्थिभिः करिष्यामो वज्रं दैत्यनिबर्हणम् ॥
अन्यानि च तथास्त्राणि सुरकार्यार्थसिद्धये

1.206.210.27

तत्र त्वं देवकार्यार्थं संन्यासं द्विज रोचय ॥
एवमुक्तो दधीचस्तु प्रत्युवाच स तान्सुरान्

1.206.210.28

तीर्थयात्रा प्रतिज्ञाता सर्वतीर्थेषु वै मया ॥
तां तु कृत्वा करिष्यामि देहन्यासं सुरोत्तमाः

1.206.210.29

देवा ऊचुः ॥
शक्तस्त्वं सर्वतीर्थानामाह्वाने द्विजपुङ्गव ॥
इहाद्यैव समायान्तु सर्वतीर्थानि तेऽनघ

1.206.210.1.207.30

तेजसा च त्वदीयेन तथास्माकं च भार्गव ॥
घटोदर उवाच ॥
एवमुक्तः सुरैः सर्वैस्तीर्थानि सरितस्तथा

1.206.210.31

सरांसि च समुद्राश्च तत्राजग्मुर्नराधिप ॥
काम्येन महता राजन्योगेन परमेण च

1.206.210.32

ज्ञात्वा च तेषां सान्निध्यं तत्र स्नातो द्विजोत्तमः ॥
तर्पणं च तथा कृत्वा सुराणां पितृभिः सह

1.206.210.33

उवाच देवांस्तत्रस्थानिदं वचनमर्थवत् ॥
दधीच उवाच ॥
अद्य प्रभृति मासान्ते भवद्भिः सततं सुराः

1.206.210.34

सान्निध्यमिह कर्तव्यं तीर्थैश्चैव यथागतैः ॥
घटोदर उवाच ॥
एवमुक्तैस्तथेत्युक्तो देवैस्तीर्थैश्च स त्वथ

1.206.210.35

त्यक्त्वा देहं दिवं यातो दधीचः स्वेन तेजसा ॥
विश्वकर्मा च तस्यास्थ्नां भागैर्वज्रमथा करोत्

1.206.210.36

आयुधानि च देवानां तथैव च पृथक्पृथक् ॥
तेन वज्रेण महता वृत्रं हत्वा महासुरम्

1.206.210.37

जघान दैत्यमुख्यानां नवतिर्नवतिस्तथा ॥
ततः प्रभृति मासान्ते नित्यमेव रघूद्वह

1.206.210.38

सान्निध्यमिह तीर्थानां देवतानां च कल्पितम् ॥
मार्कण्डेय उवाच ॥
एतच्छ्रुत्वा महातेजा दत्त्वा दानानि राघवः

1.206.210.39

ययौ सैन्येन महता भरतोऽमरकण्टकम् ॥
तत्र विष्णुपदं प्राप्य पूजयित्वा च राघवः

1.206.210.1.207.40

आससाद नदीं गौरीं पुण्यां पापभयापहाम् ॥
विश्वामित्राज्ञया रक्षः प्रविवेश पुरा नृपम्

1.206.210.41

कशाहतेन मार्गस्थं शप्तं भूपाल शक्तिना ॥
सौदासं स प्रविष्टस्तु भक्षयामास शक्तिनम्

1.206.210.42

ततः पुत्रशतं राजन्वसिष्ठस्यैव सत्वरः ॥
हृते पुत्रशते दुखाद्वसिष्ठो भगवानृषिः

1.206.210.43

विवेश निम्नगां गौरीं प्राणत्यागचिकीर्षया ॥
विप्रस्य भूप यातस्य विद्रुता सा तदाभवत्

1.206.210.44

ततः प्रभृति लोकेऽस्मिञ्छतद्रुरिति शब्दिता ॥ शतद्रु
सर्वपापप्रशमनी सर्वकल्याणकारिणी

1.206.210.45

स्नातानां च तथा राजन्दशधेनुफलप्रदा ॥
तां समासाद्य तत्रापि दत्त्वा दानं स राघवः

1.206.210.46

उत्तीर्य तां ययौ तत्र सा चान्त्या यत्र निम्नगा ॥
यस्यां स्नात्वा विमुच्यन्ते सर्वपापभयैर्नराः

1.206.210.47

यस्यां स्नानादवाप्नोति दशगोदानजं फलम् ॥
आषाढे च तथा कृत्वा गोसहस्रफलं लभेत्

1.206.210.48

गौरीतोयाद्विनिर्मुक्तो वसिष्ठो भगवानृषिः ॥
पाशबन्धभरैर्यस्यां पपात सहसा नृप

1.206.210.49

विपाशश्च तथा देव्या कृत्वा तीरे विसर्जितः ॥ विपाशा
शक्तिपुत्रं ततो दृष्ट्वा वसिष्ठोऽपि पराशरम्

1.206.210.1.207.50

अस्ति सन्तानमित्युक्त्वा मरणाद्विनिवर्तत ॥
सा चान्त्या च तथा लोके विपाशेत्यभिधीयते

1.206.210.51

विपाशां च समुत्तीर्णे भरते धर्मवत्सले ॥
विवेश कटकं तस्य कुणिदेशो महोदयः

1.206.210.52

त्रैगर्तो वसुधानश्च कुलूताधिपतिर्जयः ॥
दाशेरकस्तथा राजा गोवाशन इति श्रुतः

1.206.210.53

इरावतीं शीघ्रगमां भरतोऽपि तदा ययौ ॥
दशधेनुफलं यत्र स्नात एव समश्नुते

1.206.210.54

षष्टितीर्थसहस्राणि वहत्येका इरावती ॥
अष्टम्यां तु विशेषेण यत्र युज्येत रेवती

1.206.210.59

तत्र दत्त्वा बहुविधं दानं रघुकुलोद्वहः ॥
उत्तीर्य तां ययौ शीघ्रं देविकां पापनाशिनीम्

1.206.210.56

दृष्टमात्रैव या देवी सर्वकल्मषनाशिनी ॥
शरीरबहुला सा तु हरस्य दयिता उमा

1.206.210.57

तत्रापि दत्त्वा दानानि पूजयामास शङ्करम् ॥
भरते चाथ तत्रस्थे विविशुः पञ्च पार्थिवाः

1.206.210.58

पार्वतीया महाराज पदातिगणसङ्कुलाः ॥
कुमारः श्रेणिमाञ्छूरो बलबन्धुः सुयोधनः

1.206.210.59

मद्रराजोंऽशुमांश्चैव तथैव च महाबलः ॥
पूजितो मद्रराजेन शाकलेन नरोत्तमः

1.206.210.1.207.60

त्रिरात्रमुषितः श्रीमांश्चन्द्रभागां नदीं ययौ ॥
चन्द्रांशुशीतलजलां सर्वपापप्रणाशिनीम्

1.206.210.61

बहुतीर्थसमायुक्तां स्नानात्सर्वप्रदां नृणाम् ॥ ।
विशेषेण महाराज माघपुष्यत्रयोदशीम्

1.206.210.62

भरते तां समुत्तीर्णे विवेश कटकं ततः ॥
एतच्छ्रुतञ्जयः श्रीमानभिचारः कृतञ्जयः

1.206.210.63

।
काश्मीरकश्च धर्मात्मा सुबाहुरिति विश्रुतः ॥
आससाद स तैः सार्द्धं वितस्तां तु महानदीम्

1.206.210.64

स्वर्गलोकप्रदां स्नाने सर्वकल्मषनाशिनीम् ॥
प्रोष्ठपादस्य मासस्य शुक्लपक्षत्रयोदशीम्

1.206.210.65

विशेषेण महाराज पुण्यां परमपावनीम् ॥
भरतस्तां समुत्तीर्य सुदामां चैव निम्नगाम्

1.206.210.66

आससाद महातेजाः कैकेयान्यदुनन्दन ॥
बलेन चतुरङ्गेण युधाजित्कैकयाधिपः

1.206.210.67

निर्ययौ भरतं प्राप्तं श्रुत्वा भरतमातुलः ॥
नागराश्च तथा मुख्या राजगृहनिवासिनः

1.206.210.68

ब्राह्मणाः क्षत्त्रिया वैश्या ये च वर्णवरा जनाः ॥
यानैरुच्चावचैः सर्वै नगरात्तु विनिर्गताः

1.206.210.69

वादित्रान्पुरतः कृत्वा गणिकाश्च विनिर्गताः ॥
प्रतिग्रहनिमित्तं तु राघवस्य महात्मनः

1.206.210.1.207.70

भरतोऽपि महातेजाः स समेत्य युधाजिता ॥
अभ्यधावत तत्प्रीत्या मातुलं कैकयाधिपम्

1.206.210.71

कण्ठे गृहीत्वा भरतं मूर्ध्न्युपाघ्राय चासकृत् ॥
भरतोऽपि समादाय राजगेहमुपागमत्

1.206.210.72

॥
समे मनोरमे देशे प्रभूतयवसेन्धने ॥
शिबिरं भरतश्चक्रे नगरस्याविदूरतः

1.206.210.73

पृथक्पृथक्तदा चक्रुः स्कन्दावारनिवेशनम् ॥
मनःप्रियेषु देशेषु नानादेश्या नराधिपाः

1.206.210.74

कृत्वा निवेशान्मनुजेश्वराणामादिश्य भोगान्सकलान्स तेषाम् ॥
विवेश नागेन स मातुलस्य पुरं प्रहृष्टो रघुवंशचन्द्रः

1.206.210.207

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे राजगृहगमनो नाम सप्तोत्तरद्विशततमोऽध्यायः

1.206.210.1

1.208
मार्कण्डेय उवाच ॥
ततः स्वल्पपरीवारो भरतो धर्मवत्सलः ॥
अभ्यधाय ततः प्रीत्या मातुलः केकयाधिपः

1.206.210.2

कण्ठे गृहीत्वा भरतं मूर्ध्न्युपाघ्राय चासकृत् ॥
भरतोऽपि समादाय राजन् गृहमुपागतम्

1.206.210.3

प्रविवेश पुरं हृष्टो मातुलस्य युधाजितः ॥
पताकाध्वजसंबाधं सिक्तं चन्दनवारिणा

1.206.210.4

धूपेनाऽगुरुसाराणां समन्तादाकुलीकृतम् ॥
कृतोपहारं सर्वत्र कुसुमैः पञ्चवर्णकैः

1.206.210.5

सर्वपण्यविसंयुक्तं समालंकृतबालकम् ॥
खमुल्लिखद्भिः प्रासादैः श्वेतमेघगणैर्युतम्

1.206.210.6

विन्यस्तबलिपूजञ्च देवतायतनेषु च ॥
महावादित्रघोषेण समन्तात्कृतनिःस्वनम्

1.206.210.7

पौरैर्दिदृश्रुभिः सवैर्राकीर्णापणवीथिकम् ॥
राजमार्गे महाराज पिण्डीकृतमहाजनम्

1.206.210.8

)
राजमार्गादपाकृष्टशून्यसर्वनिवेशनम् ॥
योषिद्वृन्दसमाक्रान्त राजमार्गमहागृहम्

1.206.210.9

प्रविवेश पुरं श्रीमान्भरतो नागधूर्गतः ॥
तस्य कामाभवपुषः प्रवेशे भरतस्य तुं

1.206.210.1.208.10

गृहकार्याणि संत्यज्य ययुर्नार्यो गवाक्षकान् ॥
काश्चिदर्धानुलिप्तांग्यः काश्चिदेकाञ्जितेक्षणाः

1.206.210.11

केशैः संयमितैकार्धैः काश्चिदर्धनिवेशितैः ॥
एकस्मिंश्चरणे काश्चिद्गृहीत्वा काष्ठपादुकाः

1.206.210.12

त्वरिताशा ययुर्नार्यो द्वितीये चर्मपादुकाः ॥
तथा पराः समाक्षिप्य पूर्वाक्रान्तगवाक्षकाः

1.206.210.13

व्रजन्तीषु तथान्यासु काश्चिन्नार्यो गवाक्षकात् ॥
वेगवत्यो ययुः शीघ्रं संत्यक्त्वा चर्मपादुकाः

1.206.210.14

नार्यः स्ववदनैश्चक्रुः सुवक्त्राँस्तान्गवाक्षकान् ॥
अर्धप्रविष्टसत्कम्बुपाणिवारिजकुड्मलाः

1.206.210.15

द्वितीयपाणिसंदर्शसमाक्रान्तैर्ययुः करैः ॥
नीवीबन्धनविश्लेषसमाकुलितचेतनाः

1.206.210.16

ययुरेवापरास्तत्र पाणिसंश्लिष्टनीवयः ॥
कुसुमप्रकरं काश्चिदूहमानाः शिरोगतैः

1.206.210.17

ययुरेवांशुकैदीर्घैस्त्वरमाणा गवाक्षकान् ॥
सितासितेन रामाणां रमणीयेन राघवः

1.206.210.18

ययौ दृष्टिनिपातेन रज्यमान इवांशुमान् ॥
स चकर्ष तदा तासां पतितैर्नेत्ररश्मिभिः

1.206.210.19

हृदयान्निगृहीत्वेव गच्छमानः स राघवः ॥
स तु दृग्विषये यासां यासां तस्मात्परागतः

1.206.210.1.208.20

न ता बुबुधिरे काञ्चित्क्रियां चित्रगता इव ॥
भरते दूरयातेऽपि निश्चेष्टाः काश्चिदेव ताः

1.206.210.21

आकृष्टास्ता ययुः क्षोणीं प्रेर्यमाणैः सखीजनैः ॥
प्रद्युम्नांशसमुत्पन्नः प्रद्युम्नसमदर्शनः

1.206.210.22

आदाय तासां चेतांसि ययौ गजगृहं द्रुतम् ॥
तस्मिन्राजगृहे राजन्राघवो राजमन्दिरम्

1.206.210.23

आससाद महातेजाः कैलासमिव चापरम् ॥
प्रविश्य स गृहं मुख्यं प्रेषयामास भूभुजम्

1.206.210.24

पानभोजनवासांसि सैनिकानां च यादव ॥
उवास स सुखं तत्र पूजितश्च युधाजिता ॥
जगाम चास्तं सविता जपापुष्पोत्करप्रभः

1.206.210.25

जाम्बूनदे रत्नसहस्रचित्रे स राजपुत्रः शयने विचित्रे ॥
सुष्वाप रात्रौ भवने विचित्रे निदाघरात्रिं पवने विचित्रे

1.206.210.208

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे भरतस्य राजगृहप्रवेशवर्णनो नामाष्टोत्तरद्विशततमोऽध्यायः

1.206.210.1

1.209
मार्कण्डेय उवाच ॥
तस्मिन्रात्र्यवसाने तु भूमिपानां पृथक्पृथक् ॥
कटकेष्वभ्यहन्यन्त संज्ञातूर्याणि यादव

1.206.210.2

।
बहूनां बलमुख्यानां नानालिङ्गानि भागशः ॥
तेषां कोलाहलः शब्दो बभूव गगनङ्गमः

1.206.210.3

विविशुर्भरतस्यापि ततः प्राबोधिका जनाः॥
वेणिका गायना मुख्या वंशवाद्यविदश्च ये

1.206.210.4

मार्दङ्गिका पाणविकाः शङ्खवादनकाश्च ये ॥
रक्तकण्ठाः सुमधुरा ये च मङ्गलपाठकाः

1.206.210.5

सूतमागधमुख्याश्च बन्दिनश्च नराधिप ॥
तुष्टुवुर्भरतं वीरं सुखसुप्तं महामतिम्

1.206.210.6

सुप्रभातं समुत्तिष्ठ प्रभाता रजनी शुभा ॥
दिक्प्राची रघुशार्दूल वर्ततेऽरुणरञ्जिता

1.206.210.7

नूनमस्यां हि वेलायां मातलिस्त्रिदशाधिपम् ॥
विबोधयति राजेन्द्र सुखाय जगतां विभुम्

1.206.210.8

त्वयि सुप्ते जगत्सुप्तं विबुद्धे च सुखान्वितम् ॥
तस्मादुत्तिष्ठ लोकानां शिवाय रघुनन्दन

1.206.210.9

त्वं हि सर्वगुणारामो यथा रामो महीपतिः ॥
गुणैः शशाङ्करश्म्याभैस्त्वया वै रञ्जितं जगत्

1.206.210.1.209.10

अत्याश्चर्यं महाबाहो यशसा सुसितेन ते ॥
मुखान्यरातिवृन्दानां क्रियन्ते मलिनानि यत्

1.206.210.11

कृपाणधारापानीयं दृष्ट्वाऽरातिगणस्तव ॥
तृष्णयैव भवत्याशु रञ्जितानिलयो भयात्

1.206.210.12

अक्षोभ्यश्चातिगम्भीरो भवान्रत्नाकरस्तथा ॥॥।
अग्राह्यत्वात्समुद्रेण न समः प्रतिभाति नः

1.206.210.13

सौम्यः कलावाँल्लक्ष्मीवान्नयनानन्दकारकः ॥
(दोषाकरेण क्षयिणा नौपम्यं ते नराधिप)

1.206.210.14

बाहुभोज्यातिविस्तीर्णा सर्वाश्रयवती दृढा ॥
नौपम्यं याति ते सम्यक् क्षोणी विन्ध्येन कम्पिना

1.206.210.15

यत्तेऽस्ति तदवश्यं त्वं ददासि रिपुसूदन॥
अविद्यमाना भीर्दत्ता भवतारिगणे कुतः

1.206.210.16

निमेषमपि यो दृष्टस्त्वयापाङ्गनिरीक्षणैः ॥
समग्रदृष्ट्या य दृष्टो नित्यमेवेक्षणैः श्रियः ।

1.206.210.17

क्षुरपर्यन्तधारेण चक्रेणारिगणस्य ते ॥
शिरांस्यपहरत्याजौ देवदेवो जनार्दनः

1.206.210.18

कपालमाली खट्वाङ्गी शशाङ्ककृतभूषणः ॥।
वामार्धदयिताकारः शङ्करः शं करोतु ते

1.206.210.19

पद्मासनः पद्मजन्मा सर्वलोकपितामहः ॥
ऋद्धिं मेधां धृतिं लक्ष्मीं बलं च विदधातु ते

1.206.210.1.209.20

नभश्चरोऽम्बुजो देवो दिग्वधूकरपूरकः ॥
ब्रह्माण्डमण्डपे दीपः सुप्रभातं करोतु ते

1.206.210.21

केशयक्षेशदेवेशप्रेतेश्वरनिशाचराः ॥
सर्वदेवगणैः सार्धं सुप्रभातं दिशन्तु ते

1.206.210.22

ऋषयः सरितः शैलाः सागराश्च दिशो दश ॥
कालस्यावयवाश्चैव सुप्रभातं दिशन्तु ते

1.206.210.23

इति शृण्वन्गिरं पुण्यामेषां मङ्गलवादिनाम् ॥
महापुण्याहघोषेण तत्याज शयनं तदा

1.206.210.24

आयव्ययं स शुश्राव लेखकैर्गणकैः सह ॥
वेगोत्सर्गं ततः कृत्वा ययौ स्नानगृहं शुभम्

1.206.210.25

स्नानारम्भं ततश्चक्रे दन्तधावनपूर्वकम् ॥
उत्सादितः कषायेण बलवद्भिर्नरैस्तदा

1.206.210.26

सुखं भद्रासनासीनः सूक्ष्माम्बरधरः प्रभुः ॥
सस्नौ स विविधैस्तोयैर्नदीसागरजैः शुभैः

1.206.210.27

कुम्भैः सुवर्णमाहेयैस्ताम्रै रौप्यमयैस्तथा ॥
शताधिकैर्महाराज सर्वौषधि समन्वितैः

1.206.210.28

क्षीरप्रवाहसंयुक्तैर्माल्यकण्ठैः सुपूजितैः ॥
आवर्जितैर्महीपाल सुस्नातालङ्कृतैर्नरैः

1.206.210.29

चन्दनस्रावसम्पूर्णैर्द्विजमन्त्रानुमन्त्रितैः ॥
बभार वसनं चारु स्नानतोयौघसङ्कुलम्

1.206.210.1.209.30

शशाङ्कमण्डलं पूर्णं तन्वभ्रैरिव संवृतम् ॥
वाद्यपुण्याहघोषेण तथा गीतस्वनेन च

1.206.210.31

स्नात्वोपस्पृश्य विधिवत्पूर्वां सन्ध्यां समाहितः ॥
ददर्श वदनं चारु दर्पणे चाथ सर्पिषि

1.206.210.32

स सुवर्णे महाराज दैवज्ञेनाभिमन्त्रिते ॥
दिनेशं तिथिनक्षत्रं ततः शुश्राव राघवः

1.206.210.33

सांवत्सरमुखोद्गीर्णं कलिदुःस्वप्ननाशनम् ॥
चकाराभ्यर्चनं चाथ देवदेवस्य चक्रिणः

1.206.210.34

गन्धमाल्यनमस्कारधूपूदीपान्नसम्पदा ॥
स्तवैर्बलिप्रदानैश्च गीतवाद्यस्वनेन च

1.206.210.35

संपूज्य देवदेवेशं विवेशाग्निगृहं शुभम् ॥
तत्राग्निं समुपस्थाय हुतं पूर्वं पुरोधसा

1.206.210.36

दुःस्वप्ननाशनं कर्म सिद्धिवृद्धिजयप्रदम् ॥
प्रागेव तस्य कृतवान्विद्वान्नृपपुरोहितः

1.206.210.37

(ततस्त्वौपसमे वह्नौ भरतः प्रीतमानसः ॥)
श्रीसूक्तं पौरुषं सूक्तं जुहाव प्रयतस्तदा

1.206.210.38

आज्येन मन्त्रपूतेन विधिना सुसमाहितः ॥
दत्त्वा पूर्णाहुतिं चाग्नौ कृतजप्यो महामतिः

1.206.210.39

उदकेनार्चनं चक्रे देवानां पितृभिः सह ॥
ततः स निर्ययौ तस्माद्भरतो वह्निवेश्मनः

1.206.210.1.209.40

निष्क्रम्य पूजयामास ब्राह्मणान्वसुना तदा ॥
गोभिरश्वैः सुवर्णेन दधिपुष्पफलान्वितैः

1.206.210.41

मोदकैश्च तथा रत्नैर्वस्त्रैश्च रघुनन्दनः ॥
पूजितानां द्विजेन्द्राणां भरतेन महात्मना

1.206.210.42

पुण्याहघोषस्त्रिदिवं जगाम मधुरस्वरः ॥
स पूजयित्वा विप्रेन्द्रान्प्रविश्य च तथा गृहम्

1.206.210.43

नित्यकर्म च कृत्वेदं चन्दनेन सुगन्धिना ॥
सूक्ष्मशुक्लपरीधानो वरधूपेन धूपितः

1.206.210.44

आभूष्य सर्वगात्राणां भूषणानि रघूद्वहः ॥
शुक्लं सुगन्धि माल्यं च स्रजश्च विविधास्तथा

1.206.210.45

मङ्गलालम्भनं कृत्वा निश्चक्राम सभागृहम् ॥
क्लृप्तं शय्यासनं तत्र वररत्नविभूषितम्

1.206.210.46

महार्घतोरणोपेतं सोत्तरच्छदमृद्धिमत् ॥
वितानञ्च तथा दत्तं तस्योपरि महर्द्धिमत्

1.206.210.47

आसीनमासने तस्न्निभरतं सत्यसंगरम् ॥
प्रांशवो बद्धनिस्त्रिंशाः कवचोत्तमभूषिताः

1.206.210.48

रक्ताम्बरधरा वीरा ररक्षुः पृष्ठसंस्थिताः ॥
तथैवोभयपार्श्वस्थाः पूर्णचन्द्रनिभाननाः

1.206.210.49

वारमुख्याः सुवेशास्तमुपासांचक्रिरे तदा ॥
बालव्यजनधारिण्यस्तालवृन्तकराः पराः

1.206.210.1.209.50

ताम्बूलभाण्डधारिण्यो नीलनीरजलोचनाः ॥
कुण्डली बद्धनिस्त्रिंशो दण्डपाणिः सुवेशवान्

1.206.210.51

उवाच भरतं क्षत्ता भूमिविन्यस्तजानुकः॥
दिदृक्षवस्ते संप्राप्ता ब्राह्मणाः संशयच्छिदः

1.206.210.52

श्रेणीमहत्तरा ये च बलमुख्यास्तथैव च ॥
प्रवेशयैनानित्युक्तो द्वास्थान्क्षत्ता ततोऽब्रवीत

1.206.210.53

ब्राह्मणान्बलमुख्यांश्च प्रवेशयत सत्वरम् ॥
आशीर्भिरभिनन्द्यैनं संप्रविष्टा द्विजोत्तमाः

1.206.210.54

बृसीषु दन्तपीठेषु विविशुश्च यथासुखम् ॥
ततस्तु बलमुख्यानां नमतां भरतं तदा

1.206.210.55

क्षत्ता जग्राह नामानि कण्ठारक्तस्वरान्वितः ॥
ततस्तेषूपविष्टेषु द्वारेषु विवृतेषु च

1.206.210.56

प्रविवेश जनः सर्वो न न्यवार्येत कश्चन ॥
एतस्मिन्नेव काले तु शुश्रुवे तुमुलो ध्वनिः

1.206.210.57

।
भरतं द्रष्टुकामानां भूमिपानां महात्मनाम् ॥
ह्रादेन गजघण्टानां बृंहितेन तथैव च

1.206.210.58

ह्रेषितेन तुरङ्गाणां रथनेमिस्वनेन च ॥
नामभिः कीर्त्यमानैश्च बन्दिभिः पृथिवीक्षिताम्

1.206.210.59

शङ्खवादित्रघोषेण पटहानां स्वनेन च ॥
( आजग्मुर्भरतं द्रष्टुं नरेन्द्राः प्रियदर्शनाः

1.206.210.1.209.60

तोरणादवतीर्यैव वाहनेभ्यो महीक्षितः) ॥
सर्वे स्वल्पपरीवारा विविशुस्ते सभां शुभाम्

1.206.210.61

शिरःकम्पेन भरतं नमस्कृत्य निवेदिताः ॥
प्रतीहारेण दक्षेण तेन चकुर्वरासनम्

1.206.210.62

सिंहासनस्थान्नृपतीन्भरतस्त्वनुरूपयन् ॥
गिरा पप्रच्छ कुशलं पूजयामास चाप्यथ

1.206.210.63

तुष्टुवुर्वन्दिनस्तत्र नानादेश्यान्नराधिपान् ॥
निवेदयन्तः स्तुत्यन्ते भरताय महात्मने

1.206.210.64

स्तुवतां भरतं तत्र बन्दिनां स महास्वनः ॥
प्रासादभोगसंरुद्धो विपुलः समपद्यत

1.206.210.65

क्ष्मापालमौलिमाणिक्यमरीचिविकटोज्ज्वलम् ॥
बालातपांशुच्छुरितं बभूव च सभागृहम्

1.206.210.66

ततः स भरतः श्रीमान्विससर्ज नराधिपान् ॥
स्वहस्तदत्तताम्बूलान्प्रतीहारनिवेदितान् ॥

1.206.210.67

ततः समुत्थाय ययौ द्वितीयगृहमुत्तमम् ॥
तत्र चक्रे तदा मन्त्रं मातुलेन युधाजिता

1.206.210.68

पुरोधसा च गार्ग्येण स्वेन कालविदा तथा ॥
युधाजिदुवाच ॥
काले त्वमीप्सिते प्राप्तो गन्धर्वाणां वधेच्छया

1.206.210.69

तत्र यावन्न जानन्ति गन्धर्वास्ते त्वदागमम् ॥
अवस्कन्देन तानद्य तावद्रात्रौ जहि प्रभो

1.206.210.1.209.70

अवस्कन्देन निधनं सुखं तेषां भविष्यति ॥
कालविदुवाच ॥
सुप्ते प्रमत्ते विश्वस्ते तथा राजञ्च्छ्रमा न्विते

1.206.210.71

अवतीर्णे बले चैव सरितं वहतीं तथा ॥
रात्रौ जागरणश्रान्ते छद्मयुद्धं विधीयते

1.206.210.72

रात्रौ विहारशीलास्ते गन्धर्वाः सततं प्रभो ॥
न तेऽवस्कन्दमर्हन्ति रात्रौ कैकेयिनन्दन

1.206.210.73

विजयश्च दिवा युद्धे भरतस्य प्रदृश्यते ॥
गार्ग्य उवाच ॥
आदौ दूतेन वक्तव्यं गन्धर्वाणां प्रयोजनम्

1.206.210.74

यथा देशमिमं त्यक्त्वा व्रजध्वं तुहिनाचलम् ॥
गन्धर्वाणां निवासस्तु हिमवत्यचलोत्तमे

1.206.210.75

पूर्वमेव कृतस्तेन येनेदं निर्मितं जगत् ॥
स्थानमेतन्मनुष्याणां त्यक्तुमर्हथ मा चिरम्

1.206.210.76

ते च दूतवचः श्रुत्वा स्थानं दद्युर्नराधिप ॥
असंशयमुपारुह्य चैतन्मम मतं भवेत्

1.206.210.77

भरत उवाच ॥
राघवाः सत्यसन्धास्तु कूटयुद्धं न शिक्षिताः ॥
तस्मात्तेषां वधः कार्यः सुयुद्धेन मया नृप

1.206.210.78

गार्ग्यवाक्यं तथा बुद्ध्या रोचतेऽतिशयेन मे॥
प्रयातु तेषां दौत्येन गार्ग्य एव महायशाः

1.206.210.79

युधाजिदुवाच ॥
गच्छ गार्ग्य महाभाग गन्धर्वाधिपतिं प्रति ॥
तं च श्रावय वाक्यानि त्वयोक्तानीह यानि मे

1.206.210.1.209.80

अक्रियायां तथा तेषां श्रावयाऽग्र्याणि मा चिरम् ॥
अस्यैव नाम्ना धर्मज्ञ भरतस्य महात्मनः

1.206.210.81

मार्कण्डेय उवाच ॥
एवमस्त्वित्यथोक्तोऽसौ ययौ गार्ग्यो महायशाः ॥
रथेन काञ्चनाङ्गेन गन्धर्वनगरं प्रति

1.206.210.82

गते पुरोहिते गार्ग्ये भरतोऽपि महाशयाः ॥
हस्तिपृष्ठे रथे चाश्वे शस्त्रे शास्त्रे तथैव च

1.206.210.83

व्यायामं च तथा चक्रे नियुद्धे च यदूत्तम ॥
उत्सारितस्तथा पदभ्यां धावद्भिः कुशलैर्जनैः

1.206.210.84

स्नातैः संपूजितो विष्णुर्विधिवत्सात्त्वतोत्तमैः ॥
नमस्कृत्य तथैवाग्निं हुतं सुष्ठु पुरोधसा

1.206.210.85

तथा भुक्तवतां श्रुत्वा पूजितानां द्विजन्मनाम् ॥
पुण्याहघोषं वित्तेन भूमिपाल विसर्ज्य तान्

1.206.210.86

परार्ध्यचन्दनाक्ताङ्गस्तनुचारुसिताम्बरः ॥
सर्वालङ्करणोपेतः स्रग्वी धूपेन धूपितः

1.206.210.87

आसीनस्त्वासने दिव्ये बुभुजे स्वजनैर्युतः ॥
मातुलस्य महार्घाणि शुचीनि गुणवन्ति च

1.206.210.88

अपरीक्षितपूर्वाणि पुरुषैराप्तकारिभिः ॥
नरपक्षिमृगाणान्तु लिङ्गैर्वह्नौ तथैव च

1.206.210.69

भक्ष्यं भोज्यं च लेह्यं च पेयं चोष्यं तथैव च ॥
पात्रेषु रुक्मरौप्येषु तथा मणिमयेषु च

1.206.210.1.209.90

भुक्त्वान्नं गीतशब्देन चाप्तैः कतिपयैः सह ॥
तथोपस्पृश्य धर्मात्मा दन्तधावनपूर्वकम्

1.206.210.91

चक्रस्य शयनं भेजे वामपार्श्वेन शत्रुहा ॥
इतिहासं स शुश्राव तत्रस्थः पुरुषोत्तमः

1.206.210.92

ततः स शयनं त्यक्त्वा शास्त्राभ्यासं महायशाः ॥
चकार रघुशार्दूलः सतां मार्गमनुव्रजन्

1.206.210.93

एतस्मिन्नेव काले तु सह गार्ग्यो युधाजिता ॥
विवेश भरतं द्रष्टुं रथरेणुपरिप्लुतः

1.206.210.94

सुखासीनश्च भरतं वाक्यमेतत्ततोऽब्रवीत् ॥
गार्ग्य उवाच ॥
ततो वाक्यानि सर्वाणि शैलूषः श्रावितो मया

1.206.210.95

न तानि तस्य रोचन्ते संग्रामस्तस्य रोचते ॥
भरतेन समागम्य श्वोभूते द्विजपुङ्गव

1.206.210.96

भरतं नाशयिष्यामि नीहारं चन्द्रमा यथा ॥
इत्युक्त्वा स तु मां राजा प्रेषयामास सत्वरः

1.206.210.97

आह्वानदुन्दुभिस्तत्र निष्क्रान्ते मयि चाहतः ॥
एतज्ज्ञात्वा स युद्धाय प्रातः सज्जो भवेत्तव

1.206.210.98

मार्कण्डेय उवाच ॥
इति गार्ग्यवचः श्रुत्वा भरतो गार्ग्यमब्रवीत्॥
गच्छ शीघ्रं गृहं ब्रह्मञ्छ्रान्तो रथबलाध्वतः

1.206.210.99

अहमाज्ञापयिष्यामि सर्वं सांग्रामिकं विधिम् ॥
एतावदुक्त्वा विजयं सेनाध्यक्षमथाऽब्रवीत्

1.206.210.1.209.100

ममोष्ट्रवाहिभिः शीघ्रं शिबिरेषु महीक्षिताम् ॥
योधानाज्ञापयत्वद्य श्वोभूताय रणाय वै

1.206.210.101

युद्धावधानिकं सर्वं कर्तव्यं च तथा त्वया ॥
एवमाज्ञाप्य नागानां तुरगाणां तथैव च

1.206.210.102

प्रत्यावेक्षां ततः कृत्वा सन्ध्यामन्वास्य पश्चिमाम् ॥
रहोगतः स शुश्राव नराणां मूढभाषितम्

1.206.210.103

आरुरोह तदा श्रुत्वा प्रासादं हिमपाण्डुरम् ॥
कैलासशिखराकारं निर्वातं रजनीमुखे ॥

1.206.210.104

ततस्तु सैनिकः कश्चिच्छिबिरे भरतस्य तु ॥
तलं तलेनाभ्यहनत्पवनार्थं यदृच्छया

1.206.210.105

ततस्तु सैनिकैः सर्वैस्तलतालैर्महास्वनम् ॥
चक्रिरे पुरुषव्याघ्र तस्मिन्काले दिवं गतम्

1.206.210.106

प्रववौ च तदानीतो वायुर्मनुजपुङ्गव ॥
एतस्मिन्नेव काले तु मद्रराजस्तदांशुमान्

1.206.210.107

प्रासादवरमारूढो ज्ञातवान्भरतं तदा ॥
दीपालोकेन लक्ष्म्या च प्रासादस्य विवृद्धया

1.206.210.108

।
स जगाम तदा राजा प्रहसन्सैनिकं जनम् ॥
भरतस्य प्रदास्यामि युक्त्यैव बलदर्शनम्

1.206.210.109

तृणमुष्टिमुपादीप्य सर्वोऽपि कटके जनः ॥
पाणावादाय मुदितः क्ष्वेडाशब्दं करोतु वै

1.206.210.1.209.110

पार्थिवेनैवमुक्ते तु कटके तस्य धीमतः ॥
सोल्काहस्तो जनः सर्वः क्षणेन समपद्यत ॥

1.206.210.111

शिबिरं मद्रराज्ञस्तु द्वितीयमिव चाम्बरम् ॥
बभूव तारकाचित्रमुल्काहस्तैस्तदा नरैः

1.206.210.112

तद्बलौघमपर्यन्तं सोल्काहस्तैर्जनैर्वृतम् ॥
दृष्ट्वा जगाम धर्मात्मा परां प्रीतिं रघूद्वहः

1.206.210.113

क्ष्वेडाः किलकिलाश्चैव श्रुत्वा हर्षमुपागतः ॥
तस्मिन्प्रशान्ते ज्वलने मन्दीभूते च निस्वने

1.206.210.114

अभ्यहन्यन्त भूपानां शिबिरेषु पृथक्पृथक् ॥
संज्ञातूर्याणि रम्याणि नानालिङ्गानि चाप्यथ

1.206.210.115

सुबहूनि महाराज तेन कोलाहलं महत् ॥
बभूव प्रीतिजननं भरतस्य महात्मनः

1.206.210.116

मन्त्रयित्वा ततः श्रीमान्क्षणमात्रं युधाजिता॥
तेनैव सह भुक्त्वा च सुष्वाप शयनोत्तमे ॥
मधुरेण सुगीतेन वीणावेणुरवेण च

1.206.210.117

हिमावदाते वरमाल्यचित्रे वितानकाधोविहिते मनोज्ञे ॥
सुष्वाप रात्रिं स महानुभावो भोगीन्द्रभोगे मधुजिद्यथैव

1.206.210.209

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे युद्धप्रसङ्गवर्णनोनाम नवोत्तरद्विशततमोऽध्यायः

1.206.210.1

1.210
॥ मार्कण्डेय उवाच ॥
आह्वानदुन्दुभिं श्रुत्वा शैलूषतनयास्ततः ॥
आसेदुः पार्थिवं सर्वे शैलूषं तं समागताः

1.206.210.2

नमुचिः कामपालश्च गवेषणसुदर्शनौ ॥
वीरबाहुः सुबाहुश्च वायुवेगसुवर्चसौ

1.206.210.3

निकुम्भः कुम्भनामा च बलाको बलकस्तथा ॥
हरिकेशो महोजाश्च सूर्यरश्मिप्रभङ्करः

1.206.210.4

वृन्दारको ज्यौतिषिको दृढस्युरपराजितः ॥
कुमुदः कुमुदापीडो वसुनाथः सुलोचनः

1.206.210.5

चन्द्रापीडो गदी मौली किन्नरोऽजगरो रुहः ॥
केसरी वरवाणश्च भानुरागावहो रयिः

1.206.210.6

एकलव्यो विशालश्च कलविङ्कः कलाप्रियः ॥
भीमनादो महानादो वासुकिः पनसो गदः

1.206.210.7

चन्द्रवर्मा महावर्मा वसुषेणोऽग्रजारकः ॥
एते चान्ये च गन्धर्वाः शैलूषस्य सुताः प्रभोः

1.206.210.8

दिव्यमाल्याम्बरधरा दिव्यचन्दनभूषिताः ॥
आसनेषु महार्हेषु सभायां विविशुस्तदा

1.206.210.9

शैलूषस्य सुतैर्गुप्ता सभा सा रत्नचित्रिता ॥
रराज तारका चित्रा निशेव नृप शारदी

1.206.210.1.210.10

तेषां समुपविष्टानां शैलूषस्तानथाब्रवीत् ॥
गार्ग्यस्य वचनं सर्वमनुमानं तथा स्वकम्

1.206.210.11

तेऽभियोगं तदा श्रुत्वा मानुषान्मनुजेश्वर ॥
चक्रुर्नानाविधाश्चेष्टा मन्युना क्रोधचेतसः

1.206.210.12

गन्धर्वराजपुत्रास्ते क्रोधादश्रुप्रवर्षिणः ॥
रेजुर्युगान्तमेघाभा अचिराभासदृग्दृशा

1.206.210.13

बभार नमुचिर्वक्त्रं क्रोधरागानुरञ्जितम् ॥
दिक्सौम्येव दिशादाहं महासंग्रामसूचकम्

1.206.210.14

कामपालललाटस्था त्रिशिखा भ्रुकुटी बभौ ॥
त्रिभिः प्रपातैर्गङ्गेव निपतन्ती हिमाचलम्

1.206.210.15

कृष्णे स शुक्लपर्यन्ते क्रोधरागानुरञ्जिते॥
कुमुदापीडनेत्रे तु सन्ध्या ताम्रे बभूवतुः

1.206.210.16

क्रोधाक्रान्तेन वपुषा कुमुदः कुमुदप्रभः ॥
रक्तोत्पलनिभाकारः क्षणेन समपद्यत

1.206.210.17

चन्द्रापीडमुखं चारु क्रोधधूम्रानुकारितम् ॥
बभार रूपं तन्वभ्रसंभृतस्य निशाभृतः

1.206.210.18

क्रोधनिश्वासधूमेन भानोर्वक्त्रमथावृतम् ॥
बभूव भानोः सदृशमुपरागे यदूत्तम

1.206.210.19

करनिष्पेषसंजातधूमधूम्रमुखाङ्गकः ॥
अन्वर्थनामतामाप तस्मिन्काले सुदर्शनः

1.206.210.1.210.20

गवेषणप्रवेगेन वह्निगर्भोज्ज्वलात्मना ॥
ताराभिवर्षणेनैव सूचितो भूपतिक्षयः

1.206.210.21

वीरबाहुभुजाघातरत्ननिष्पेषरेणुना ॥
विजृम्भितमथास्थाने क्रोधेनेव वपुष्मता

1.206.210.22

सुबाहुबाहुनिष्पेषो बभूवाशनिनिस्वनः ॥
निर्घात इव गम्भीरो राज्ञां निधनसूचकः

1.206.210.23

वायुवेगमहावेगचरणोल्लिखिता क्षितिः ॥
विदद्रे पृथिवीपाल विनाशभयशंसिनी

1.206.210.24

आयासजातसंस्वेदपुलकोद्गमभूषितम् ॥
सुवर्चा धारयामास ललाटतटपट्टकम्

1.206.210.25

प्रस्विन्नगात्रसंक्रान्तकाञ्चनस्तम्भपिङ्गलः ॥
बभूव कुम्भनाभस्तु क्रोधो विग्रहवानिव

1.206.210.26

सुविनिःसृतरोमाग्निज्वालाकेसरमालिना ॥
नृसिंहवपुषश्चक्रे रविणानुकृतिर्हरेः

1.206.210.27

प्रस्वित्रगात्रसंक्रान्तसर्वगन्धर्वमण्डलः ॥
विश्वरूपधरं मौलः प्रजहास जनार्दनम्

1.206.210.28

गन्धर्वराजपुत्रास्ते मन्युना हृतचेतसः ॥
तदा बभूवुर्भूपाल सर्व एव विशेषतः

1.206.210.29

इत्थं सुतानां प्रसमीक्ष्य कोपं संस्मृत्य वाक्यानि पुरोहितस्य ॥
जगाम मन्युं सुतरां स राजा सन्दष्टदन्तच्छदभीमवक्त्रः

1.206.210.210

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे गन्धर्वसभाक्षोभवर्णनो नाम दशोत्तरद्विशततमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc