विष्णुधर्मोत्तरपुराणम् · अध्याय 1.211.215
1.211
॥ मार्कण्डेय उवाच ॥
दृष्ट्वा गन्धर्वराजस्य क्रोधेनाकुलितं मनः ॥
तमूचुर्नृप गन्धर्वाः स्वबाहुबलदर्पिताः
अपराजित उवाच ॥
सर्वमालभते राजन्नशोकः शूरबाहुषु ॥
तस्माच्छौर्येण निधनं रघूणां मम रोचते
निकुम्भ उवाच ॥
योऽयं मन्युः समुद्भूतः काकुत्स्थान्प्रति मे प्रभो ॥
अविनाशि जगत्कृत्स्नं विनाशं समुपैष्यति
॥ किन्नर उवाच ॥
या लक्ष्मीरनुलिप्ताङ्गी वैरिशोणितकुङ्कुमैः॥
कान्तापि सरसां प्रीतिं न सा धत्ते मनस्विनाम्
वसुनाभ उवाच ॥
कृपाणधाराविध्वस्तशत्रुसङ्घसमुद्भवा ॥
न या श्रीः किं तया कार्यं राजन्सत्त्ववतां नृणाम्
॥ अजगर उवाच ॥
अजितारिगणोपान्तसम्पदो भूषणक्रिया ॥
विपद्वरीयसी ताभिर्या न सम्पद्विभूषणा
॥ रुह उवाच ॥
शोभन्ते कर्कशाः शूराः स्तना इव समुन्नताः ॥
शूराणां च स्तनानां च परावज्ञाकरी रतिः
॥केश उवाच ॥
तेजस्विनामभ्युदयं वन्दनीयं जगत्त्रये ॥
यथा भास्करमुद्यन्तं जनः सर्वोऽभिनन्दति
॥ परवारण उवाच ॥
सत्त्वाधिकस्य सिंहस्य लीलोन्मथितपादपाः ॥
न शक्ताः पुरतः स्थातुं शैलकूटोपमा गजाः
॥ आभावह उवाच ॥
न जातु शमनं यस्य तेजस्तेजसि तेजसाम् ॥
वृथा जातेन किं तेन मातुर्वार्द्धक्य कारिणा
एकलव्य उवाच ॥
नाम्नि संकीर्तिते यस्य न भवन्त्यरयो भयात् ॥
विवर्णवदनच्छायाः का दया तस्य जीवने
विशाल उवाच ॥
लक्ष्मीसङ्गमलुब्धानां शूराणां च रणोद्भवा ॥
कीर्तिर्भवति सैवाशु संयोगकरणा सखी
॥ कलिप्रिय उवाच ॥
रिपुरक्तपरा सिक्ता रिपुस्त्रीनेत्रवारिणा ॥
न यस्य सिञ्चिता कीर्तिः का स्पृहा तस्य जीवने
॥ भीमनाद उवाच ॥
तेजसैव समाक्रान्तसमस्तभुवनो रविः ॥
करोति पदविन्यासं सर्वेषामेव मूर्धसु
॥महाधर्म उवाच ॥
शत्रुमस्तकविन्यस्तपदक्रमविलासिनी ॥
कविदत्तकरालम्बा कीर्तिर्यातु दिवं तव
॥ वासुकिरुवाच ॥
मायानिहतमातङ्गमध्यद्वीपविदारिताम् ॥
क्षितिं भित्त्वाविशत्कन्या कीर्तितो वसुधातलम्
॥ पनस उवाच ॥
हतारिलक्ष्मीसंयोगविकसद्वदनस्य ते ॥
प्रयातु त्वरिता कीर्तिः क्रोधनेव दिशो दश
गद उवाच॥।
सतोयतोयदाकारैर्नागैर्दानप्रवर्षिभिः ॥
आक्रान्तदिङ्मुखे युद्धे विद्युत्त्वम्मे करोत्वसिः
महानाद उवाच ॥
मदीयसिंहनादेन वित्रासितगजाकुलम् ॥
बलं निपातयारीणां शरैः सन्नतपर्वभिः
वसुरुवाच ॥
गजाश्वरथपादातचरणोल्लिखितं रजः ॥
द्रष्टासि प्रशमं यातं परितस्त्वरिशोणितैः
वृन्दारक उवाच ॥
गजकुम्भसमुद्रस्थमुक्ताफलविकासिषु ॥
तिष्ठत्सु राजन्खड्गेषु कः सहेत पराभवम्
॥ ज्योतिषिक उवाच ॥
कापिशभ्रूलताभङ्गकुटिलद्वयकोटिषु ॥
विद्यमानेषु चापेषु कः सहेत पराभवम्
दृढस्युरुवाच ॥
राजंस्तीक्ष्णाः सन्ति यस्य विशिखाः पञ्च मानिनः ॥
किमन्यैस्तस्य कर्तव्यं पक्षपातिभिराहवे
चन्द्रापीड उवाच ॥
किमायुधैः सत्त्ववतां चारुदोर्दण्ड शालिनाम् ॥
सद्यः सञ्जातमन्यूनां युद्धव्याक्षेपकारकैः
गद्युरुवाच ॥
खड्गास्तिष्ठन्तु मे तुच्छा भुक्तभङ्गाट्टहासिनः ॥
एकदोर्दण्डशेषोऽपि कः सहेत पराभवम्
कलविङ्क उवाच ॥
मद्बाहुमन्दरक्षुब्धवैरिसैन्यमहार्णवात् ॥
भुङ्क्ष्व लक्ष्मीं समुत्पन्नां चिराय जगतीपते
॥ गज उवाच ॥
किमायुधैः सत्त्ववतां कुपुंसां च किमायुधैः ॥
अरातिशस्त्राण्येकेषामन्येषामफलानि हि
बलक उवाच ॥
दुर्बलोत्खात शक्रेभदशनाभिहते हरौ ॥
मयाद्य सुरराडस्तु भवांस्त्रिभुवनेश्वरः
॥
प्रनष्टदेवतापूजं बलिहीनं सुदुर्दशम् ॥
मया कृतमथाद्यास्तु त्रैलोक्यमपि सुप्रभो
हरिक उवाच ॥
कीनाशमहिषेणाद्य हरस्य वृषभेण तु ॥
अयोध्यां वाहयिष्यामि शेषाहेर्लाङ्गलेन च
महोदर उवाच ॥
निरस्तमयमार्तण्डे मया लोके चराचरे ॥
यमस्य महिषं पश्य क्रमन्तं सूर्यवाजिषु
सूर्य उवाच ॥
निःशेषदेवतासंघे मया लोकत्रये कृते ॥
दुर्गासिंहविनिर्भिन्नं पश्याद्य मघवद्गजम्
प्रभस उवाच ॥
निरस्ताम्बुपिपासेन समाकृष्ट धनेश्वराः ॥
प्रणमन्तु तवाद्यैव देवसंघा हतत्विषः
भद्रक उवाच ॥
स्कन्दशङ्करशून्येऽस्मिन्मया त्रिभुवने कृते ॥
शिखी संभक्षयत्वद्य शर्वाभरणपन्नगान्
मार्कण्डेय उवाच ॥
क्रोधान्धकारकलुषीकृतचारुवक्त्रान्गन्धर्वराजतनयान्प्रसमीक्षमाणः ॥
जगाद राजानमदीन सत्त्वो नाडायनाख्यस्तु तदा पुरोधाः
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे गन्धर्वगर्जनं नामैकादशोत्तरद्विशततमो ऽध्यायः
1.212
॥ नाडायन उवाच ॥ ॥
एकया द्वे विनिश्चित्य त्रींश्चतुर्भिर्वशीकुरु ॥
पञ्च जित्वा विजित्वा षट् सप्त हित्वा सुखी भव
एकया प्रज्ञया राजन्कार्याकार्यद्वयं नरः ॥
विनिश्चित्य तु यः कुर्यात्कार्यं तत्र स पण्डितः
मध्यस्थं यदि वा मित्रं शत्रुं वा कार्यगौरवात् ॥
ज्ञात्वा देशं च कालं च ह्युपायैरभ्युपक्रमेत्
सामभेदप्रदानाश्च उपायाः परिकीर्तिताः ॥
उपायश्च चतुर्थो ऽत्र दण्डस्त्वगतिका गतिः
पञ्चेन्द्रियजयो येन कृत आदौ जिगीषुणा ॥
त्रिलोकविजयं तस्य न दूरे प्रतिभाति मे
पञ्चेन्द्रिय जयं कृत्वा गुणषट्कमुपाश्रयेत् ॥
बुद्ध्वा बलाबलं सम्यगात्मनश्चापरस्य च
राजदोषाः परित्यक्ता येन सप्त नराधिप ॥
सिद्धिं तस्य समायान्ति यथाकालं गुणा नृप
मृगयायानमुख्याश्च स्त्रियश्च पुरुषा गिरः ॥
अर्थसन्दूषणं चैव दण्डपारुष्यमेव च
राजदोषैः परित्यक्ता राघवास्तत्र पार्थिव ॥
गुणाश्रयविभागज्ञा विग्रहस्तैर्न रोचते
भरतेन वयं साम्ना बले महति तिष्ठता ॥
प्रथमं समुपाक्रान्तं तदेव तव रोचताम्
भरतस्य वयं साम्ना यदि गच्छेम पर्वतम् ॥
हितं तत्स्यान्महाभाग सकुलस्य तवाऽनघ
त्वया कृत्वा समुच्छेदं राज्ञां जननिवासिनाम् ॥
अकारणान्महद्वैरं कृतं भूपतिभिः सह
जने निवासादस्माकं केवलं लघुता भवेत् ॥
मानुषैः संगमश्चैव विग्रहश्च पुनःपुनः
न कृषिर्न च वाणिज्यं जनोऽस्माकं प्रयोजनम् ॥
ते वयं सजनां भूमिं त्यक्त्वा यामः शिलोच्चयम्
अपेक्ष्य देशकालौ च संधिं विग्रहमेव च ॥
फलं च बुद्ध्वा यः कुर्यात्स राजन्पण्डितो नरः
भूमिर्हिरण्यं मित्रं च त्रिविधं विग्रहास्पदम् ॥
स्वयंग्राहो यदस्माकं मेरुः कनकपर्वतः ॥
हिरण्येन तदा कार्यं न नोऽस्ति रिपुसूदन ॥
कृषिर्नास्ति यतोऽस्माकं ततो भूर्निष्प्रयोजना
तस्माद्भरतमन्विच्छ मित्रं साम्ना नराधिप ॥
मित्रं रघुकुलं कृत्वा निवासस्तु हिमाचले
अदृश्यं देवसैन्यानां सुखं चिरमवाप्नुहि ॥
न मानुषोऽयमित्येवं भरतं मन्तुमर्हसि
दुष्टानां निग्रहार्थाय चतुर्मूर्तिर्जनार्दनः ॥
जातो रघुकुले राजन्पुत्रो दशरथस्य तु
अंशेन वासुदेवस्य जातो रामो महायशाः ॥
संकर्षणस्य चांशेन लक्ष्मणः परवीरहा
प्रद्युम्नस्य तथांशेन भरतो धर्मवत्सलः ॥
अनिरुद्धस्य चांशेन शत्रुघ्नः सुमहाबलः ॥
तत्र राघवसिंहेन रामेणाक्लिष्टकर्मणा ॥
रावणोऽभिहतः संख्ये सर्वसत्त्वभयङ्करः
मेघनादो निरस्तश्च संग्रामे लक्ष्मणेन च ॥
शत्रुघ्नेन निरस्तश्च लवणो दुष्टराक्षसः
मन्ये विशिष्टभावत्वं भरतस्य महात्मनः ॥
येन माली हतः पूर्वं लङ्कावासी स राक्षसः
स एष भरतो विष्णुरस्ति ते तु रणंगमः
हिते स्थितो यः सततं सुराणां दैत्येन्द्रनाशाय निविष्टबुद्धिः ॥
तेनाऽप्रमेयेण जनार्दनेन समं व्रजस्वाशु महानुभाव
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे नाडायनवाक्ये शैलूषं प्रति नाडायनानुशासनवर्णनो नाम द्वादशोत्तरद्विशततमोऽध्यायः
1.213
॥ शैलूष उवाच ॥
सुमाली विष्णुना पूर्वं कथं युद्धे निपातितः ॥
एतन्मे संशयं छिन्धि श्रूयते स महाबलः
नाडायन उवाच ॥
कथेयं राजशार्दूल पुरागस्त्येन धीमता ॥
रामाय कथिता वीर तां मे निगदतः शृणु
पुरा विनिहते वृत्रे दैत्या विगतनायकाः ॥
अब्दुर्गं सागरं कृत्वा रात्रौ निघ्नन्ति वै प्रजाः
सुरैः सर्वैः समागम्य तथाऽयं न परैर्वधम् ॥
समुद्रोदकपानाय अगस्त्यश्चोदितस्तदा
देवकर्मप्रमुदितस्तदागस्त्यमुनिर्नृप ॥
पीत्वा चकार राजेन्द्र निस्तोयं सलिलाशयम्।
देवैश्च निहता दैत्या निस्तोये सलिलाशये ॥
ततः कदाचिद्विन्ध्यस्तु जगादार्कनिशाकरौ
मेरुं त्यक्त्वा महाभागौ मम यात प्रदक्षिणम् ॥
ऊचतुस्तौ तदा विन्ध्यमावयोस्तु वशं गिरे
तेन पन्थाः कृतोऽस्माकं येनेदं निर्मितं जगत् ॥
एतच्छ्रुत्वा तु विध्न्यस्तु तपस्तप्त्वा पितामहात्
इषुपातमथोच्छ्रायं प्रत्यहं समवाप्तवान् ॥
ततः कतिपयाहेन दिशमावृत्य दक्षिणाम्
आवृत्य तस्थौ पन्थानं दिवाकरनिशाभृतोः ॥
ततोऽन्धमभवत्सर्वो भूर्लोकः पार्थिवोत्तम
प्रेरितो देववाक्येन ततोऽगस्त्यो महातपाः ॥
गत्वोवाच तदा विन्ध्यं तीर्थयात्रां करोम्यहम्
।
मत्कृते ह्रस्वतां गच्छ येन यास्याम्यहं सुखी ॥
ज्ञात्वा ततः प्रभावं तु सोऽगस्त्यस्य महागिरिः
जगाम ह्रस्वतां शीघ्रमगस्त्योऽपि तदा ययौ ॥
दक्षिणाशां परित्यज्य न यावदहमागतः
सपुत्रदारस्तावत्त्वं ह्रस्व एव भवाऽचल ॥
एवमुक्त्वा स विन्ध्यन्तु सदारापत्यबान्धवम्
जगाम दक्षिणामाशां तमुवाच पितामहः ॥
देवकार्यं महद्ब्रह्मंस्त्वया कृतमिदं शुभम्
तस्मात्स्थानं च ते दद्मि वैश्वानरपथाद्बहिः ॥
दिव्यदेहो भवांस्तत्र विमानवरमास्थितः
दक्षिणां भूषय दिशमस्तोदयसमन्वितः ॥
प्रसादमम्भसां शैत्यं निर्विषत्वं तवोदये
भविष्यत्यमलप्रज्ञ मत्प्रसादात्तवैव तु ॥
शरत्सु मुदितो वसन्तेस्तमयं व्रज
प्राकाम्ययुक्तश्च तथा समग्रां वसुधां चर ॥
प्रधानमूर्तिर्यावत्त्वं सदारापत्यबान्धवः
नाक्रमिष्यति वै विन्ध्यं तावद्विन्ध्याचलः स्थितः ॥
प्राकाम्यमूर्तियुक्ते तु यत्र क्वचन संस्थिते
त्वयि विन्ध्यो महाशैलो वृद्धिं न स गमिष्यति ॥
इल्वलश्चापि दुर्मेधा भ्रात्रा वै मेषरूपिणा ॥
यदा भोजयते विप्रान्भुक्तवत्सु द्विजातिषु ॥
कुक्षिभेदन्तु वातापी कृत्वा निर्गच्छते पुनः
एवं विनिघ्नतस्तस्य ब्राह्मणान्यत्त्वया कृतम् ॥
शरणं तेन तुष्टोऽस्मि विन्ध्यसंस्तम्भनेन च
शरत्समयमासाद्य यस्माद्विप्र नवोदये ॥
पूजां त्वमाप्स्यसे लोके मत्प्रसादाद्द्विजोत्तम
ये च त्वां पूजयिष्यन्ति गन्धमाल्यफलाक्षतैः ॥
दधिकाञ्चनरत्नैश्च परमान्नेन भूरिणा
पूर्णकुम्भैः सकूष्माण्डैश्छत्रोपानहयष्टिभिः ॥
धेन्वा वृषेण भक्ष्यैश्च वासोभिः कनकेन च
संवत्सरं च त्यागेन फलस्यैकस्य चाप्यथ ॥
पूजनैर्ब्राह्मणेन्द्राणां त्वत्कर्मपरिकीर्तनैः
ते प्राप्स्यन्ति सदा पुत्रान्धनमारोग्यमेव च ॥
आयुरग्र्यं तथा लोके शत्रुभिश्चापराजयम्
सौभाग्यं विपुलान्कामान्धर्मवृद्धिं तथैव च ॥
एवमुक्त्वा स भगवांस्तत्रैवान्तरधीयत
आससाद तथा स्थानमगस्त्योऽपि महातपाः ॥
येन क्रतुशतैरिष्टं तपस्तप्तं तथा महत्
तेन स्वतपसा सृष्टा लोपामुद्रा प्रियंवदा ॥
विदर्भराजतनया धर्मपत्नी तथात्मनः
दृढस्युस्तनयस्तस्य तपस्वी च महातपाः ॥
प्रमुचुर्मुमुचुश्चैव तन्मुचुश्च महातपाः
स्वस्त्यात्रेयस्तथा विद्वांस्तस्य शिष्यो महात्मनः ॥
अभेद्यं कवचं दत्तं तथाऽक्षय्ये महेषुधी
रामलक्ष्मणयोस्तेन धनुषी च महाबले ॥
घोरेणाप्यथ संयुक्तः स च वैष्णवतेजसा
कर्मणा कीर्तनं यस्य नरो वर्षशतैरपि ॥
कर्तुं शक्तो न सहते प्राकाम्ये चैव रावणे
अयोध्यां राघवं द्रष्टुं जगाम त्वरितो मुनिः ॥
तमागतमभिप्रेक्ष्य पूजयामास राघवः
पाद्यार्घ्याचमनीयाद्यैः सर्वै राज्यनिवेदनैः ॥
संपूजितस्तदा तेन तत्र चक्रे कथाः शुभाः
ततः कथान्ते कस्मिंश्चित्तमपृच्छत्तु राघवः ॥
विष्णुना मालिनिधनं तेनोक्तं तस्य तच्छ्रृणु
यदुक्तवान्राघवनन्दनस्य चन्द्रार्कवह्निप्रतिमप्रभावः ॥
रक्षोगणेशस्य वधं सुघोरं मुनिर्महात्मा तदिदं निबोध
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे नाडायनवाक्ये शैलूषं प्रति नाडायनोक्तागस्त्यमाहात्म्यवर्णनो नाम त्रयोदशोत्तरद्विशततमोऽध्यायः
1.214
अगस्त्य उवाच ॥
माली सुमाली राजेन्द्र माल्यवांश्च रणोत्कटः ॥
लङ्कादुर्गमथासाद्य चित्रमूषुः परस्परम्
माली सुमाली दुर्वृत्तौ पीडयन्तौ च देवताः ॥
वार्यमाणावपि सदा तेन माल्यवता नृप
तयोर्भीतैः सुरैर्ब्रह्मा ज्ञापितः सप्रयोजनम् ॥
ब्रह्मणा सहितैर्गत्वा ज्ञापितस्त्रिपुरान्तकः
ब्रह्मेशसहिता देवा विष्णुं शरणमीयुषः ॥
जग्मुर्लवणतोयस्थं विज्ञापयितुमच्युतम्
ददृशुश्च रघुश्रेष्ठ समुद्रं पीतमम्भसाम् ॥
ऊर्मिवर्गैः प्रनृत्यद्भिर्वल्गन्तमिव वायुना
हसन्तमिव फेनौघैः स्खलन्तं कन्दरासु च ॥
अपारमिव गर्जन्तं नानायादोगणावृतम्
वीचिहस्तैः प्रचलितैराह्वयानमिवाऽमराद् ॥
फेनवत्यः प्रकीर्णाश्च संहताश्च समुच्छ्रिताः
ऊर्मयश्चास्य दृश्यन्ते चलन्त इव पर्वताः ॥
तिमिङ्गिलाः कच्छपाश्च तथा तिमि तिमिङ्गिलाः
मकराश्चापि दृश्यन्ते जले मग्ना इवाद्रयः ॥
शङ्खानां च सहस्राणि मग्नान्यप्सु समन्ततः ।
दृश्यन्ते स्म यथा रात्रौ तारास्तन्वभ्रसंवृताः ॥
क्वचित्सुप्तः क्वचिद्गर्जन्क्वचिद्घूर्णन्क्वचित्स्खलन्
क्षीबोपमं तं ददृशुः समुद्रं त्रिदशाधिपाः ॥
क्वचिच्चावासितैर्दैत्यैः क्वचिद्दैत्यारिणा तथा ।
क्वचिच्च भुजगैर्भीमैर्महागाम्भीर्यसंयुतम् ॥
विष्णोर्वराहवपुषा विक्षोभितजलाविलम्
अनासादितबाधं च वर्षाणां शतपत्रिणा ॥
तेन देवातिदेवेन विष्णुना प्रभविष्णुना
नित्यमन्तरसंस्थेन निर्मलीकृतविग्रहम् ॥
शक्रवज्रभयत्रस्यमानशैलशता कुलम्
विद्रुमाम्बरमाप्लुष्टसदृशाकारविद्रुमम् ॥
पूर्णचन्द्रकलङ्कस्य क्षालनेप्सुरिवोद्धतैः
खमाक्रमति कल्लोलैः पौर्णमासीषु यः सदा ॥
असंख्यातं तरङ्गौघैः संक्रान्तशशिमण्डलम्
हसन्तं वान्तरिक्षस्य श्रियमेवेन्दुधारिणः ॥
दिग्भागदानकालेषु युक्तश्चन्दनवा रिणा ॥
सुप्यते च यथा यत्र सततं दानवारिणा
तमन्तरिक्षप्रतिमं विशाललोलोर्मिमालाकुलदिग्विभागम् ॥
समुद्रमासाद्य दिवौकसस्त मातस्थुरुग्रं तपसोग्रसत्त्वाः
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शैलूषं प्रति नाडायनवाक्ये समुद्रवर्णनो नाम चतुर्दशो त्तरद्विशततमोऽध्यायः
1.215
अगस्त्य उवाच ॥
तपसा तोषितो देवैर्देवदेवो जनार्दनः ॥
महोदवासं संत्यज्य सुराणां दर्शनं ददौ
ते च तं विबुधारिघ्नं धरणीपातपांसुलैः ॥
जानुपाणिललाटान्तैः प्रणेमुर्मुदिता हरिम्
तुष्टुवुश्च तथा वाग्भिरथोचुः स्वप्रयोजनम् ॥
वधार्थं देवदेवस्य सुकेशतनयान्प्रति
प्रतिजज्ञे तदा तेषां देवो मालिवधं हरिः ॥
यूयं सुमालिनिधने शक्ताः स्थ सुरसत्तमाः
माल्यवानप्यवध्योऽसौ सततं धर्मवत्सलः ॥
एवमुक्त्वा ततस्तार्क्ष्यमाह्वयामास केशवः
तमारुरोह सर्वात्मा काञ्चनं विनतासुतम् ॥
शंखचक्रगदापद्मलाच्छितो मधुसूदनः॥
अतसीकुसुमश्यामः काञ्चने खगमे स्थितः ॥
श्रियमूहे सतोयस्य तोयदस्य सविद्युतः
किरीटकौस्तुभधरं वरभूषणभूषितम् ॥
विहङ्ग वरमारूढमनुजग्मुर्दिवौकसः
सुधावदातसत्पक्षैर्वितताम्बरधाविभिः ॥
हंसैस्तमन्वयाद्ब्रह्मा जटामण्डलदुर्दृशः
चन्द्ररश्मिप्रतीकाशनिबिडाङ्गककुद्मिकः ॥
हरस्तृतीयनेत्रार्चिर्विदारितनभो ययौ
महेन्द्रनेत्रसंकाशकलापाटोपरोधिना ॥
स्कन्दस्तमन्वयौ तस्मा न्मयूरेण षडाननः
विनायकान्कर्तुमना राक्षसेन्द्रान्विनायकः ॥
वायुमण्डलमारूढः प्रययावनुमाधवम्
वह्रिज्वालावली पुञ्जसमकेसरमालिना ॥
सिंहेनानुययौ देवी भद्रकाली जनार्दनम्
वरस्त्रीकुचसंकाशकुम्भैरावणपृष्टगः ॥
किरीटी वज्रपाणिस्तमन्वयौ त्रिदशाधिपः
वह्निस्तमन्वयौ देवं शुकयानेन पार्थिव ॥
सेन्द्रगोपगणाकीर्णशाद्वलस्थलशोभिना
गिरिकूटसमाकारं शृङ्ग भूषितमस्तकम् ॥
वैवस्वतोऽपि महिषमारुह्यानुययौ हरिम्
शङ्कुकर्णो महाग्रीवो वरेभस्कन्धसंस्थितः ॥
पश्चादनुययौ देवं विरूपाक्षो महाबलः
महायानेन रम्येण मनोमारुतरंहसा ॥
वरुणोऽनुययौ पश्चात्स्निग्धवैदूर्यसन्निभः
मनःशीघ्रगतिर्देवो वायु मण्डलमध्यगः ॥
वायुश्चानुययौ पश्चाद्वायुपूर्णशुभांशुकः
धनदो नरयानेन सर्वरत्नोज्वलात्मना ॥
गोविन्दमनुवव्राज श्रिया परमया युतः
सप्ताश्वमेकचक्रं च रथमारुह्य भानुमान् ॥
तथैवानुययौ देवं प्रभामण्डलदुर्दृशः
चन्द्रश्चण्डप्रभावारो दशभिस्तुरगो त्तमैः ॥
मनोजवेन च तथा रथेनानुययौ हरिम्
तुरङ्गवरमारुह्य भास्करप्रतिमाकृतिः ॥
तमन्वयौ तदा राजन्प्रचण्डो रविनन्दनः ॥
चतुर्भिः कुञ्जरैर्युक्तं रथमास्थाय सत्वरा ॥
तमन्वयौ धरादेवी देवं त्रिदशपूजितम्
सङ्कल्परथमारुह्य व्यवसाय पुरःसरः ॥
मनोरथेनानुययौ कामदेवोऽपि केशवम्
पुष्पेषोरपि यस्याज्ञां बिभर्ति सकलं जगत् ॥
अनालस्यं समारूढा तथा देवी सरस्वती ॥
अन्यया पुण्डरीकाक्षं शरणागतवत्सलम ॥
भौमज्ञजीवशुक्राश्च राहुः केतूः शनैश्चरः
वाजियुक्तै रथैः शीघ्ररमन्वयुः पुरुषो त्तमम्॥
देवाश्चैकोनपञ्चाशन्मरुतश्चारुमण्डलाः
अनुजग्मुः सुराः कृष्णं वायुमण्डलमध्यगाः ॥
अनुजग्मुस्तमादित्या रथैः काञ्चन सुप्रभैः
वसवोऽङ्गिरसः साध्या विश्वेदेवास्तथाश्विनौ ॥
भृगवश्चाश्वसंयुक्तै रथैस्तं देवमन्वयुः
रुद्राश्चानुययुर्देवं बलोदग्रैः ककुद्मिभिः ॥
तथैवान्ये बलोदग्रा देवा देवानुयायिनः
गर्दभैः शिशुमारैश्च महोष्ट्रैर्महिषोरगैः ॥
सिंहव्याघ्रतरक्ष्वृक्षगजवानर मर्कटैः
चमरैः सृमरैश्चैव गोधामार्जारशल्लकैः ॥
विविधैः पक्षियानैश्च तेऽनुजग्मुर्जनार्दनम्
सिद्धमार्गेण सिद्धाश्च प्रययुर्मुनयस्तथा ॥
स्तुवन्तः पुण्डरीकाक्षं देवसंघभयापहम्
गीतवाद्यैः सुमधुरैः सेवमाना जनार्दनम् ॥
प्रहृष्टाः प्रययुस्तत्र गन्धर्वाप्सरसां गणाः
तपः सत्यं क्षमा दानं व्रतानि विविधानि च ॥
यज्ञाङ्गानि च सर्वाणि कालस्यावयवास्तथा
संवत्सरास्तथा मासाः पक्षौ च करणैः सह ॥
युगायनमुहूर्ताश्च शास्त्राणि विविधानि च
मूर्तिमन्ति तथास्त्राणि शस्त्राणि च जगत्पतेः ॥
समुद्रपथतद्द्वीपशाखिनां विग्रहाणि च
वर्षाणां च शरीराणि पितॄणां च तथा गणाः ॥
नक्षत्राणि दिशश्चैव विदिशश्च महीपते
देवा वनस्पतिश्चैव याश्च लोकस्य मातरः ॥
देवदैत्यगणा ये च तथा पितृगणाश्च ये
गन्धर्वयक्षनागानां गणा ये च नरेश्वर ॥
घोरा व्याधिगणाश्चैव कालपाशैः सुदारुणैः
मृत्युर्दण्डस्तथा क्रोधो जरा च मनुजेश्वर ॥
अन्वयुः पुण्डरीकाक्षं रक्षोगणवधैषिणम्
।
जयश्रीरग्रतस्तस्य प्रयाति रघुनन्दन ॥
सरितश्च तथा यानैः सर्वलोकस्य मातरः
मकरेण ययौ गङ्गा कालिन्दी कच्छपेन तु॥
सारसेनापि सरयूः शिशुमारेण गोमती
गोदावरी च खड्गेन मयूरेण सरस्वती ॥
ककुद्मिना शतद्रुश्च विपाशा तुरगेण च
चन्द्रभागा च सिंहेन दन्तिनेरावती तथा ॥
सिन्धुर्व्याघ्रेण मत्स्येन वितस्ता च तथा ययौ
देविका चैव हंसेन पुरुषेण च गण्डकी ॥
महिषेण पयोष्णी च कावेरी वृषभेण तु
हिरण्वती सुपर्णेन चक्रेणेक्षुमती नदी ॥
भुजगेन च पार्णाशा वराहेण च कौशिकी
वेदस्मृतिर्मयूरेण सारङ्गेण च नर्मदा ॥
जीवजीवकमारूढा सीतापि प्रययौ नदी
ह्रादिनी च सरोरूढा सृमरेण च पावनी ॥
शशकेनापि लौहित्या नदी सिन्धुर्गजेन च
उरभ्रेण तथा चक्षुः सीता चाजेन राघव ॥
गौतमी कुक्कुटेनापि चाषेण च दृषद्वती
स्वैः स्वैर्यानैस्तथैवान्याः प्रययुर्निम्नगा हरिम ॥
देवानुयात्राघोषेण वादित्राणां रवेण च
स्तूयमानो द्विजाग्र्यैश्च प्रययौ कमलेक्षणः ॥
तद्बलो यमपर्यन्तं देवगन्धर्वसंकुलम्
आतपत्रैः पताकाभिः स्वचिह्नैश्च विराजितम् ॥
किङ्किणीशतसंघोषं प्रययावनुकेशवम्
।
रश्म्युत्करैर्देवविभूषणानां प्रदीप्यमानं कलनकादिचित्रम्॥
बलं ययौ तत्त्रिदशोत्तमानां नारायणेनाऽप्रतिमेन गुप्तम्
इति श्रीविष्णुधर्मोत्तर पुराणे प्रथमखण्डे मार्कण्डेयवज्रसंवादे देवप्रयाणवर्णनो नाम पञ्चदशोत्तरशततमोऽध्यायः
मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0