विष्णुधर्मोत्तरपुराणम् · अध्याय 1.201.205
1.201
मार्कण्डेय उवाच ॥
यक्षे राक्षसे जाते ततः कालेन केनचित् ॥
एषा सुषाव गन्धर्वं शैलूषमिति विश्रुतम्
कोट्यस्तिस्रस्तु पुत्राणां तस्यासन्सुदुरात्मनः ॥
एतस्मिन्नेव काले तु विसृष्टासु प्रजासु च
ब्रह्मादिदेश राज्यानि जात्यां जात्यां यथाक्रमम् ॥
गन्धर्वाणामधिपतिं चक्रे चित्ररथं तथा
शैलूषपुत्रा गन्धर्वा संघशः कृतनिश्चयाः ॥
शासनेनैव तिष्ठन्ति तस्य चित्ररथस्य तु
सिन्धोरुभयकूलेषु देशमुत्साद्य ते तदा ॥
हत्वा च मनुजांस्तत्र निवसन्ति गतव्यथाः
उत्सादयन्तो राष्ट्राणि राज्ञां विप्रियकारकाः ॥
ताञ्शशाप स गन्धर्वराजश्चित्ररथः प्रभुः
अधर्मनिरताः सर्वे मानुषाद्वधमाप्स्यथ
शापेन तस्याप्रतिमेन राजन्गन्धर्वराजाति बलस्य संख्ये ॥
बभूव मृत्युर्भरतस्तु तेषां देहान्तरस्थो हरिरप्रमेयः
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शैलूषवंशवर्णनं नामैकाधिकद्विशततमोऽध्यायः
1.202
वज्र उवाच ॥
शैलूषपुत्रा गन्धर्वा भरतेन कथं हताः॥
किमर्थं तु महाभाग तन्ममाचक्ष्व पृच्छतः
मार्कण्डेय उवाच ॥
अयोध्यायामयोध्यायां रामे दशरथात्मजे ॥
कैकेयाधिपतिः श्रीमान्युधाजिन्नाम पार्थिवः
रामाय प्रेषयामास दूतं भरत मातुलः ॥
वृद्धं पुरोहितं गार्ग्यं येन कार्येण तच्छृणु
सिन्धोरुभयकूलेषु रामदेशो मनोहरः ॥
हत्वा रणे मनुष्येन्द्रान्गन्धर्वैर्विनिवेशित
गन्धर्वास्ते च राजेन्द्र राज्ञां विप्रियकारकाः ॥
लक्ष्मणं भरतं वापि शत्रुघ्नमथवा नृप
विसर्जयित्वा गन्धर्वांस्तान्विनाशय राघव ॥
राजानो निर्भयाः सन्तु देशश्चास्तु तथा तव
दूतस्य वचनं श्रुत्वा चिन्तयामास राघवः ॥
मेघनादवधे कर्म लक्ष्मणेन महत्कृतम्
शत्रुघ्नेन कृतं कर्म लवणं च विनिघ्नता॥
प्रेषयिष्यामि भरतं गन्धर्वस्य च निग्रहे
इत्येवं मनसि ध्यात्वा रामो भरतमब्रवीत् ॥
गच्छ गार्ग्यं पुरस्कृत्य वत्स राजगृहं स्वयम्
मातुलेन समायुक्तः कैकयेन्द्रगृहात्ततः ॥
जहि शैलूषतनयान्गन्धर्वान्पापनिश्चयान्
एवमुक्तः स धर्मात्मा भरतो भ्रातृवत्सलः ॥
रामस्य पादौ शिरसा चाभिवन्द्य कृताञ्जलिः
गृहं गत्वा चकाराथ सर्वं प्रास्थानिकं विधिम् ॥
ओषधीनां कषायेण तदोत्प्लावितविग्रहः
गौरसर्षपकल्केन प्रसादितशिरोरुहः ॥
तीर्थसारसनादेयैः सलिलैश्च स सागरैः
चन्दनस्रावसम्मिश्रैः कुंकुमाक्षोदसंयुतैः ॥
सर्वौषधिसमायुक्तैः सर्वगन्धसमन्वितैः
मन्त्रपूतैर्महातेजाः सस्नौ राघववर्धनः ॥
शङ्खभेरी निनादेन पणवानां स्वनेन च
आनकानां च शब्देन निस्वनेन च बन्दिनाम् ॥
सूतमागधशब्देन जयकारैस्तथैव च
तुष्टवुः स्नानकाले तं स्तवैर्मङ्गलपाठकाः ॥
तथोपतस्थुर्गीतेन गन्धर्वाप्सरसां गणाः
स्नातः स भरतो लक्ष्म्या युवराजाभिरूपया ॥
विलिप्य चारुसर्वाङ्गं चन्दनेन सुगन्धिना
अहताम्बरसंवीतः श्वेतमाल्यविभूषणः ॥
कुण्डली साङ्गदी मौली सर्वरत्नविभूषितः
अन्तस्थं पूजयामास देवदेवं त्रिविक्रमम् ॥
गन्धमाल्यनमस्कारधूपदीपादिकर्मणा
पूजयित्वा जगन्नाथमुपतस्थे हुताशनम् ॥
सुहुतं ब्राह्मणेन्द्रेण राघवाणां पुरोधसा
गोभिर्वस्त्रैर्हिरण्यैश्च तुरङ्गकरिपुङ्गवैः ॥
मोदकैः सफलैर्दध्ना गन्धैर्माल्यैस्तथाक्षतैः
स्वस्तिवाद्यांस्तथा विप्रान्महात्मा भूरिदक्षिणः ॥
व्याघ्रचर्मोत्तरे रम्ये सूपविष्टो वरासने
आयुधानन्तरं चक्रे ध्वजच्छत्राभिपूजनम् ॥
स्वस्तिकान्वर्धमानांश्च नन्द्यावर्तास्तथैव च
नद्यः काञ्चनविन्यस्ताः शङ्खः सत्कमलाञ्जनम् ॥
पूर्णकुम्भं गजमदं दूर्वाः सार्द्रं च गोमयम्
रत्नान्यादाय बिल्वं च चापमादाय सत्वरः ॥
सशरं राघवश्रेष्ठः पदद्वात्रिंशकं ययौ
श्रेष्ठमश्वं सुचन्द्राभं हेमभाण्डपरिच्छदम् ॥
आरुह्य निर्ययौ श्रीमाञ्जयकाराभिपूजितः
पौरजानपदामात्यैर्वाद्यघोषेण भूरिणा ॥
ह्रादेन गजघण्टानां बृंहितेन पुनःपुनः
हेषितेन तुरङ्गाणां नराणां क्ष्वेडितेन च ॥
द्विजपुण्याहघोषेण प्रयातो भूरिदक्षिणः
भरतस्य प्रयाणे तु देवाः शक्रपुरोगमाः ॥
मुमुचुः पुष्पवर्षाणि वाच ऊचुः शुभास्तथा
एष विग्रहवान्धर्म एष सत्यवतां वरः ॥
एष वीर्यवतां श्रेष्ठो रूपेणाप्रतिमो भुवि
अनेन यत्कृतं कर्म रामे वनमुपागते ॥
न तस्य कर्ता लोकेऽस्मिन्दिवि वा विद्यते क्वचित्
अनेन राज्यं सन्त्यक्तं गृहं दग्धमिवाग्निना ॥
अनेन दुःखशय्यासु शयितं समहात्मना
नित्यमासन्नभोगेन जटावल्कलधारिणा ॥
फलमूलाशिनानेन रामराज्यं हि पालितम्
शृण्वन्सुवाक्यानि सुरेरितानि रामानुजो रामगृहं जगाम ॥
शूरार्यविद्वत्पुरुषोपकीर्णं रत्नैर्यथा सागरमप्रमेयम्
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे भरतप्रस्थानवर्णनं नाम द्व्यधिकद्विशततमोऽध्यायः
1.203
मार्कण्डेय उवाच ॥
गृहात्प्रयाते भरते प्रस्थानार्थिनि यादव ॥
प्रागेव लक्ष्मणं रामो नित्योद्युक्तमभाषत
अनुयानं कुमारस्य भरतस्य महात्मनः ॥
प्रेषयाश्वसहस्राणां शतानि त्रीणि राघव
दश दन्तिसहस्राणि रथानां षड्गुणानि च ॥
कोट्यः पञ्च पदातीनां समरेष्वनिवर्तिनाम्
धनाध्यक्षास्तथा वत्समनुगच्छन्तु लक्ष्मण ॥
गोरथैश्च तथा पुष्टैर्गोभिरुष्ट्रैस्तथैव च
व्यायतैः पुरुषैरश्वैर्गर्दभैश्च तथा वरैः ॥
वस्त्ररूप्यसुवर्णानां मणीनामपि भागशः
विसर्गाय कुमारस्य परिपूर्णा यथासुखम् ॥
ब्राह्मणाः कथया मुख्यास्तथैव नटवर्तकाः
गीते नृत्ते तथा लास्ये प्रवीणाश्च वराङ्गनाः ॥
प्रास्थानिकाश्च ये केचित्पानविक्रयिणश्च ये
रूपाजीवाश्च वणिजो नानापण्योपजीविनः ॥
नानारूपमुपादाय बहुपण्यं व्रजन्तु वै
विषवैद्याः शल्यवैद्यास्तथा कायचिकित्सकाः ॥
कर्मन्तिका स्थपतयो मार्गिणो वृक्षरोपकाः
कूपकाराः सुधाकारा वंशकर्मकृतस्तथा ॥
वाणिक्काराश्च ये केचित्कूर्चकाराश्च शोभनाः
परिकर्मकृतश्चैव तथा वस्त्रोपजीविनः ॥
मायूरिकास्तैत्तिरिकाश्चेतका भेदकाश्च ये
रञ्जका दन्तकाराश्च तथा दन्तोपजीविनः ॥
एरण्डवेत्रकाराश्च कटकाराश्च शोभनाः
आरकूटकृतश्चैव तात्रकूटास्तथैव च ॥
भूर्जकूटाः खड्गकारा गुडसीधुप्रपाचकाः
औरभ्रका माहिषकास्तुन्नवायाश्च लक्ष्मण ॥
ये चाभिष्टावकाः केचित्सूतमागधबन्दिनः
चैलनिर्णेजकाश्चैव चर्मकारास्तथैव च ॥
अङ्गारकोराश्च तथा लुब्धका ये च धीवराः
कबन्धधारिणो ये च ये च काष्ठप्रपाटकाः ॥
वस्त्रसीवनसक्ताश्च गृहकाराश्च ये नराः
कुम्भकाराश्च ये केचिच्छ्मश्रुवर्धकिनश्च ये ॥
लेखका गणका ये च तथा तन्दुलकारकाः
सक्तुकाराश्च ये केचिच्छाकपण्योपजीविनः ॥
तैलिका गान्धिकाश्चैव तीर्थसंशुद्धिकारकाः
चित्रकर्मविदो ये च ये च लाङ्गूलिका जनाः ॥
सूताः पौरोगवाश्चैव सौविदल्लाश्च लक्ष्मण
गोपा वनचरा ये च नदीतीरविचारणाः ॥
गोसंघैर्महिषीसंघैस्तेऽनुयान्तु यथासुखम्
श्रेणीमहत्तरा ये च ग्रामघोषमहत्तराः ॥
तथैवाटविका ये च ये च शैलविचारिणः
सौमित्रे सर्व एवैते सुभृताश्च सुपूजिताः ॥
अनुयान्तु कुमारं मे भरतं भ्रातृवत्सलम्
इत्येवमुक्तः स तु तान्समस्तानाज्ञापयामास नरेन्द्रवाक्यात् ॥
आमन्त्र्य रामं शिरसा च सर्वे विनिर्ययुस्ते नगरात्प्रहृष्टाः
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे आनुयात्रिकवर्णनन्नाम त्र्यधिकद्विशततमोऽध्यायः
1.204
॥ मार्कण्डेय उवाच ॥
एतस्मिन्नेव काले तु रामः शुश्राव तन्महत्॥
शङ्खवाद्यरवोन्मिश्रं भरतस्यानुयात्रिकम्
राजद्वारमुपागत्य भरतोऽपि महायशाः ॥
पदभ्यां जगाम राजानमवतीर्य तुरङ्गमात्
स ददर्श तदा रामं रत्नसिंहासनस्थितम्॥
अनुलिप्तं परार्ध्येन चन्दनेन सुगन्धिना
सूक्ष्मं वसानं वसनं सर्वाभरणभूषितम॥
तेजसा भास्कराकारं सौन्दर्येणोडुपोपमम्
क्षमया पृथिवीतुल्यं क्रोधे कालानलोपमम् ॥
बृहस्पतिसमं बुद्ध्या विष्णुतुल्यं पराक्रमे
सत्ये दानेऽप्यनौपम्यं दमे शीले च राघवम् ॥
पुरोहितैरमात्यैश्च युतं प्रकृतिभिस्तथा
दृष्ट्वा तं भरतः श्रीमाञ्जगाम शिरसा महीम् ॥
भरतं युवराजानं रामाय विदितात्मने
न्यवेदयत धर्मात्मा प्रतीहारः सलक्ष्मणम् ॥
उत्थाय कण्ठे जग्राह रामोऽपि भरतं तदा
मूर्ध्नि चैनमुपाघ्राय आदिदेशास्य शासनम् ॥
भरतं तु सुखासीनं रामो वचनमब्रवीत्
गन्धर्वपुत्रांस्तान्हत्वा कर्तव्यं नगरद्वयम् ॥
सिन्धो रुभयपार्श्वे तु पुत्रयोरुभयोः कृते
अभिषिच्य तदा वत्स पुत्रौ नगरयोस्तयोः ॥
युधाजिति परीधाय क्षिप्रमागन्तुमर्हसि
त्वया विना नरव्याघ्र नाहं जीवितुमुत्सहे ॥
क्षत्रधर्मं पुरस्कृत्य तत्र त्वं प्रेषितो मया
स त्वं गच्छ महाभाग मा ते कालात्ययो भवेत् ॥
स्वस्त्यस्तु तेन्तरिक्षेभ्यः पार्थिवेभ्यश्च गच्छतः
दिव्येभ्यश्चैव भूतेभ्यः समरे च तथानघ
स्वांस्वां दिशमधिष्ठाय दिक्पाला दीप्ततेजसः ॥
पालयन्तु सदा तुभ्यं दीप्तविग्रहधारिणः
ब्रह्मा विष्णुश्च रुद्रश्च साध्याश्च समरुद्गणाः ॥
आदित्या वसवो रुद्रा अश्विनौ च भिषग्वरौ
भृगवोङ्गिरसश्चैव कालस्यावयवास्तथा ॥
सरितः सागराः शैलाः समुद्राश्च सरांसि च
दैत्यदानवगन्धर्वा पिशाचोरगराक्षसाः ॥
देवपत्न्यस्तथा सर्वा देवमातर एव च
शस्त्राण्यस्त्राणि शास्त्राणि मङ्गलाय भवन्तु ते ॥
विजयं दीर्घमायुश्च भोगांश्चान्यान्दिशन्तु ते
इति स्वस्त्ययनं श्रुत्वा राज्ञा स समुदीरितम् ॥
रामस्य पादौ शिरसा त्वभिवन्द्य धनुर्धरः
निर्गत्य राजभवनाद्रामाज्ञाकल्पितं जगत ॥
हिमाद्रिकूटसंकाशं चारुदंष्ट्रोज्ज्वलाननम्
मदेन सिञ्चमानं च नृपवेश्माजिरं नृप ॥
समाक्रान्तकटं चापि पानलुब्धशिलीमुखैः
स्तब्धचारुमहाकर्णं मधुपकृपयैव तु ॥
दीर्घाग्रमध्वक्षकृतं कृतशृङ्गावतंसकम्
स्वासनं व्यूढकुम्भं च तथोदग्रं महाबलम् ॥
नक्षत्रमालां शिरसा धारयानं तु काञ्चनीम्
पटुस्वने तथा घण्टे दर्शनीये मनोहरे ॥
कुथं विचित्रं रम्यं च कोविदारं महाध्वजं
वैजयन्त्यः पताकाश्च किङ्किणीजालमालिताः ॥
समारूढं नयविदा महामात्रेण धीमता
वैडूर्यदण्डतीक्ष्णाग्र काञ्चनाङ्कुशधारिणा ॥
जघनस्थेन चान्येन वरतोमरधारिणा
तथा वैजयिकैर्मन्त्रैर्देवज्ञेनाभिमन्त्रितम् ॥
आरुरोह महातेजा जयत्काराभिनन्दिनः
पूर्णेन्दुमण्डलाकारं रुक्मदण्डं मनोहरम् ॥
छत्रमादाय तं प्रेम्णा चारुरोह स लक्ष्मणः
चामरौ द्वौ समादाय चन्द्ररश्मिसमप्रभौ ॥
आरूढं योषितोर्युग्मं रूपेणाऽप्रतिमं भुवि
तं समारुह्य नागेन्द्रं मदलेखाभिगामिनम् ॥
जगाम सह गार्ग्येण रथारूढेन यादव
तमन्वयौ महाभाग चतुरङ्गमहाबलम् ॥
पताकाध्वजसम्बाधं कल्पयन्तं वसुन्धराम्
श्येनाः काकवहाः कङ्काः पिशाचा यक्षराक्षसाः ॥
ययुः पुरःसरास्तस्य भरतस्य महात्मनः
गन्धर्वपुत्रमांसानां लुब्धा मांसोपजीविनः ॥
तूर्यघोषेण महता बन्दिनां निःस्वनेन च
वायुना चानुलोमेन सेव्यमानः सुगन्धिना ॥ ।
मङ्गलानां च मुख्यानां दर्शनाद्धृष्टमानसः
निर्ययौ राजमार्गेण जनसम्बाधशालिना ॥
तेजस्विनां च तेजांसि हृदयानि च योषि ताम्
आददानो महातेजा नगरात्स विनिर्ययौ ॥
क्रोशमात्रं ततो गत्वा समे देशे च सोदके
प्रशस्तद्रुमसंकीर्णे शिबिरं प्राङ्निषेवितम् ॥
सेनाध्यक्षैः सुनिपुणैर्विवेश भरतस्तदा
स प्रविश्य महातेजाः शिबिरं स्वं निवेशनम् ॥
मङ्गलालम्भनं कृत्वा वरासनगतः प्रभुः
पौरजानपदं सर्वं प्रेषयामास यादव ॥
परिष्वज्य ततः पश्चाल्लक्ष्मणं शुभलक्षणम्
मूर्ध्नि चैवमुपाघ्राय प्रेषयामास धर्मवित् ॥
प्रायाणकं च श्वोभूते दुन्दुभिस्ताड्यतां मम
दैशिकाः पुरतो यान्तु ये च वृक्षावरोहकाः ॥
आज्ञाप्य सकलं चैव शिबिरं च तथाविधम्
अवृक्षेषु तु देशेषु रोपयन्तु द्रुमाञ्जनाः ॥
द्रुमाः कण्टकिनश्चैव ये च मार्गप्ररोधकाः
छिन्दन्तु गत्वा तानद्य तीक्ष्णैः शीघ्रं परश्वधैः ॥
तोयहीनेषु देशेषु कूपान्कुर्वन्तु मे तथा
विषमांश्च तथा देशान्समान्कुर्वन्तु मे पथि ॥
तीराणि सरितां चैव कुर्वन्तु पुलिनानि च
न भवेद्येन संघट्टो जनस्य पथि यास्यतः ॥
पुरः प्रयान्तु सैन्येन विजये रतिवर्धनाः
नीलश्च नक्रदेवश्च वसुमान्मुनयस्तथा ॥
मध्यप्रयाणे गान्धारो जयनाभो रणोत्कटः
सुशीलः कामपालश्च यान्तु सैन्येन दंशिताः ॥
जघनं कटकस्याहं पालयानो यथासुखम्
सैन्येन सह यास्यामि विजयाय नृपस्य तु ॥
पश्यन्तु दैशिकाः स्थानं प्रभूतयवसेन्धनम् ॥
सोदकं च समं यत्र सेनावासो भवेन्मम ॥
एवमाज्ञाप्य भरतो विजहार यथासुखम्
सुष्वाप च निशां तत्र घर्मकाले मनोहराम्
सुप्तस्य सा तत्र रघूद्वहस्य पुण्या ययौ रात्रिरदीनसत्त्वा ॥
सम्पूर्णचन्द्राभरणा प्रतीता ज्येष्ठस्य मासस्य रणोत्सुकस्य
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे भरतनिर्याणवर्णनं नाम चतुरधिकद्विशततमोऽध्यायः
1.205
॥ मार्कण्डेय उवाच ॥ ॥
प्रभातायां तु शर्वर्यां दुन्दुभिः समहन्यत ॥
प्रयाणिको महाराज भरतस्य महास्वनः
तस्य शब्देन महता विबुद्धः कटके जनः ॥
अवश्यकरणीयानि कृत्वा राजंस्त्वरान्विताः
त्वरिता गमनार्थाय समाहूयेतरेतरम् ॥
पटवेश्मानि रम्याणि सहन्तुमुपचक्रमुः
महान्ति सुमनोज्ञानि वर्तितोर्णाकृतानि च ॥
चक्रुस्तानि च राजेन्द्र सुखवाह्यान्ययत्नतः
ततस्त्वारोपयाञ्चक्रुः करभेषु खरेषु च ॥
गोरथेषु तु मुख्येषु तथा दन्तिषु सत्वराः
भाण्डमुच्चावचं चैव शयनानि मृदूनि च ॥
आसनानि च मुख्यानि भाण्डं यच्च महानसे
पेयं च यवसं चैव शस्त्राणि विविधानि च ॥
कवचानि तुरङ्गाणां शिल्पभाण्डानि यानि च
धनं च विविधं राजन्सर्वोप करणानि च ॥
आरोप्यमाणे भाण्डे तु करभाणां विकृष्यताम्
शुश्रुवे तुमुलः शब्दः खराणां च खरस्वनः ॥
गजानां युज्यमानानां तुरङ्गाणां रथैः सह
वाद्यानां हन्यमानानां शुश्रुवे तुमुलं स्वनम् ॥
नादेन गजघण्टानां बृंहितेन च पार्थिव
ह्रेषितेन तुरङ्गाणां बभूव तुमुलः स्वनः ॥
प्रायाणिकमुपादाय ताडयन्नेव दुन्दुभिम्
अग्रे प्रयाणमान्येन ययौ दुन्दुभिभिः सह ॥
पण्यानि च समादाय वणिजस्त्वरिता ययुः
ग्रहीतुकामाश्चान्यानि सोदकानि समानि च ॥
स्थानानि वरमुख्यानां ययुश्चाग्रेसरा नराः
महानसिकमुख्यास्तु त्वरिताश्च तथा ययुः ॥
सुखयानासु रम्यासु तथैवाश्वतरीषु च
आरोप्य योषितो जग्मुः प्रत्यूषे मुदिता जनाः ॥
आरूढाश्चापरा नार्यः सवितानाः करेणवः
कञ्चुकोष्णीषिभिर्गुप्ता गुप्ता वर्षवरैस्तथा ॥
ययुः ससैन्या राजेन्द्र गीतवाद्य पुरस्सराः
दीनान्धकृपणानाथांस्तर्पयन्त्यो धनेन ताः ॥
नरेन्द्रयोषितो राज्ञां दिव्यालङ्गारभूषिताः
तथान्ये बद्धनिस्त्रिंशाः पुरुषाश्च कलापिनः ॥
आदीप्य तृणवेश्मानि जग्मुस्त्वरितमानसाः
भरतोऽपि समारुह्य शिबिकां रत्नभूषिताम् ॥
विनिर्ययौ महातेजा स्तूर्यघोषपुरःसरः
शून्यं च शिबिरस्थानं गृध्रमण्डलसंकुलम् ॥
बहुक्रव्यादसङ्कीर्णं क्षणेन समपद्यत
गजोष्ट्रगर्दभाश्वानां शरीरावयवैर्युतम्॥
भग्नभाण्डसमाकीर्णं शरीरावयवैर्युतम्
बहुक्रव्यादसङ्कीर्णं करीषोत्करसंयुतम् ॥
खातैर्महानसस्थानैर्दग्धमृत्तिकया युतैः ॥ ।
समण्डकर्दमोपेतैर्मक्षिकासहितैर्युतम् ॥
संत्यज्य निर्ययुः सर्वे भरतस्य तु सैनिकाः
प्रयाणे तस्य सैन्यस्य बलीवर्दाञ्छ्रमान्वितान् ॥
नागानुत्थापयामासुरुपविष्टान्प्रयत्नतः
केचिदुष्ट्रपरित्रस्तातान्गार्दभेन निपातितान् ॥
भाण्डमारोपयाञ्चक्रुर्भूय एव नरोत्तमाः
नद्युत्तारेषु महिषान्केचित्सूर्यांशुतापितान् ॥
निषण्णान्सह भारेण ताडयाञ्चक्रिरे जनाः
केचिदश्वतरांस्त्रस्तान्नागबृंहितनिस्वनैः ॥
आरूढयोषितो यत्नाज्जगृहुर्नृप रश्मिषु
केचिदश्वैर्गजत्रस्तैराक्षिप्ता भुवि मानवाः ॥
जानुविश्रमणार्थाय वाजिग्रीवकृताङघ्रयः
तुरङ्गांश्च तदोद्भ्रान्तान्स्रस्तचर्माश्च सादिनः ॥
केचिदाक्रम्य वेगेन जगृहुस्तत्र यादव
विशश्रमुस्तथा केचिद्वृक्षच्छायासु मानवाः ॥
केचिच्चोदकतीरेषु चक्रिरे भोजनक्रियाम्
केचित्सन्त्रस्ततुरगसन्निकृष्टसमुत्थितैः ॥
द्रुतान्कापिञ्जलैर्यत्नाज्जगृहुस्तांस्तुरङ्गमान्
केचित्कटकसंत्रस्तान्मृगयूथान्प्रधावतः ॥
वेगेनाक्रम्य विशिखैर्जघ्नुर्यदुकुलोद्वह
केचिच्च यवसं चक्रुः केचिच्चक्रुरथेन्धनम् ॥
तथान्यैर्द्विगुणीभूतं तथा दुन्दुभिनिस्वनम्
प्रायाणिकं जहुः शीघ्रं श्रमं यदुकुलोद्वह ॥
केचिदापणवीथ्यग्रमहावंशसमुच्छ्रितम्
सपताकं नरा दृष्ट्वा प्राप्ताः स्म इति मेनिरे ॥
चक्रुः केचिच्च च्छन्दांसि सहायानां पुनःपुनः
पुरोगतानां राजेन्द्र स्थानलब्धिचिकीर्षया ॥
केचित्पटकुटीं दृष्ट्वा स्वकीयां त्वरिता ययुः
वर्तितोर्णाकृतं दृष्ट्वा गृहांश्चान्ये ययुर्द्रुतम् ॥
केषाञ्चित्तत्र वेश्मानि तीर्णानि नृपसत्तम
कृतानि क्रियमाणानि ददृशुस्तत्र मानवाः ॥
द्रुमैर्विश्राम्यमाणैश्च क्रियमाणैस्तथा कटैः
गृहैरारोप्यमाणैश्च पटोर्णातृणसंस्कृतैः ॥
शुशुभे तन्महाराज कटकं शुभकर्मणः
शस्त्रेण संशोधयतां भुवं भूमिपते नृणाम् ॥
राजसाक्रान्तवपुषामप्रकाशं वपुर्बभौ
पार्श्वस्थतोयसम्पूर्णदृतयश्च तथा जनाः ॥
धावमानाः प्रदृश्यन्ते वर्धिता गृहशोधने
अभ्युक्षयन्ति चाप्यन्ये तृणवेश्मानि पार्थिव ॥
तप्तानां शीतकामानां दृतिवक्त्रोद्गतैर्जलैः
अभिश्रयेण धूपेन समन्तादाकुलीकृतम् ॥
बभूव तस्य कटकं नीहारेणैव संयुतम्
अवरोपितभाण्डानां दान्तानां यदुनन्दन ॥
पृष्ठान्यभ्युक्षयामासुर्गोमयेन जलेन च
खरोष्ट्रसबलीवर्द चरणार्थे विनिर्गतम्
ददृशे बहुसाहस्रं कटके भरतस्य तु ॥
रथेभ्यस्तुरगानन्ये विमुच्य हयकोविदाः
अवरोपितभाण्डानि सान्त्वयाञ्चक्रिरे शनैः ॥
समुत्थाय रजो भौमं तुरङ्गपरिवर्तनैः
खमारुरोह राजेन्द्र कपोतारुणपाण्डुरम् ॥
स्थापयाञ्चक्रिरे चान्ये जलस्थाने च वाजिनः
श्रेणी चक्रुस्तथैवान्ये कटच्छायासु पार्थिव ॥
वितानाधस्तथा केचित्स्थापयाञ्चक्रिरे हयान्
हयेभ्यो यवसं दत्त्वा केचिद्बुभुजिरे जनाः ॥
कटच्छायाश्च नागानां चक्रुश्चान्ये सहस्रशः
वितानानि च मुख्यानि सूर्यतापप्रशान्तये ॥
स्नाताञ्जलाशये नागाँल्लब्धतोयाञ्जनाधिप
सच्छन्नान्स्वपरीधानकुम्भान्निन्युः स्वमालयम् ॥
कटकाद्दूरतश्चक्रुरालानं नृपदन्तिनाम्
आलानानि महाराज महावृक्षेषु मानवाः ॥
आदाय गोपिनस्तत्र कटकाच्च विदूरतः
गोसङ्घान्महिषीसङ्घांश्चक्रुर्व्यस्तान्यथासुखम् ॥
कटके च तथा निन्युर्गोरसानि नराधिप
कटकापण्यवीथीं च सर्वपण्यविभूषिताम् ॥
ददृशुः पुरुषास्तत्र अयोध्यामिव चापराम्
स्थानानि सर्ववैद्यानांसध्वजानि नराधिप॥
सागदानि च दृश्यन्ते कटके भरतस्य तु
सेनाध्यक्षेण वीरेण विजयेन महात्मना॥
कृतं शास्त्रानुसारेण स्कन्धावारनिवेशनम्
विवेश भरतः श्रीमांश्चतुरङ्गबलान्वितः ॥
अन्वीयमानो वीराभ्यां पुत्राभ्यां यदुनन्दन
पुष्करेण च वीरेण तक्षेण सुमहात्मना ॥
बलमुख्यैस्तथैवान्यैः सूतमागधबन्दिभिः
शङ्खवादित्रशब्देन पटहानां स्वनेन च ॥
भरतस्य गृहद्वारतोरणान्तिकमागताः
बभूबुर्बलमुख्यास्ते दिक्षु ये यदुनन्दन ॥
सन्त्यज्य मध्यमां वीथीं प्रवेशाय महामनाः
बन्दिभिः ख्याप्यमानांस्तान्नामकर्मावदानतः ॥
शिरःकम्पेन भरतः प्रैरयत्स्वान्निवेशनान्
बलमुख्यान्विवेशाथ स्वगृहं सर्वऋद्धिमत् ॥
द्वियोजनाध्वना श्रान्ता भरतस्य तु सैनिकाः
विविशुर्भवनान्स्वान्स्वान्भेजिरे शयनानि च ॥
प्रविश्य वेश्मप्रवरं भरतोऽपि यथासुखम् ॥।
विजहार महाराज देवराजसमद्युतिः ॥
क्रमेणानेन धर्मात्मा भूमिपाल दिनेदिने ॥
आससाद व्रजन्नेव गङ्गां त्रिपथगां नदीम्
सुराङ्गनापीनपयोधरस्थसच्चन्दनक्षालनलब्धलक्ष्मीम् ॥
ग्रीष्मार्कतापाद्विगलत्तुषारविवृद्धशीतोदपटोत्तरीयाम्
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे प्रयाणवर्णनो नाम पञ्चाधिकद्विशततमोऽध्यायः
मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0