भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 1.196.200

1.196.200.1

1.196
वज्र उवाच ॥
आत्मरक्षा त्वयोक्ता मे सर्वबाधाविनाशिनी ॥
कृपान्वितैः कथं कार्या पररक्षा भृगूत्तम

1.196.200.2

एतन्मे संशयं छिन्धि त्वं विज्ञानमयो निधिः ॥
वैष्णवानि रहस्यानि सर्वाणि विदितानि ते

1.196.200.3

मार्कण्डेय उवाच ॥
स्तोत्रेणानेन धर्मज्ञ कुशाग्रैर्मार्जयन्नरम् ॥
उपस्पृश्य शुचिः कुर्याद्रक्षा पार्थिवसत्तम

1.196.200.4

सोपवासेन सम्पूज्य देवदेवं जनार्दनम् ॥
अमोघैषा भवेद्रक्षा कृता नास्त्यत्र संशयः

1.196.200.5

यथाकथञ्चित्कृत्वैनां नरो मोचयते रुजः ॥
आधिव्याधिगृहीतानां रक्षैषा भेषजं परम्

1.196.200.6

ॐ नमः परमार्थाय पुरुषाय महात्मने

1.196.200.7

अरूपबहुरूपाय व्यापिने परमात्मने ॥
निष्कल्मषाय शुद्धाय ध्यातृपापहराय च

1.196.200.8

नमस्कृत्य प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः ॥
वराहनारसिंहाय वामनाय महात्मने

1.196.200.9

वक्ष्यामि त्वां नमस्कृत्य यत्तत्सिध्यतु मे वचः ॥
त्रिविक्रमाय रामाय वैकुण्ठाय नराय च

1.196.200.1.196.10

वक्ष्यामि त्वां नमस्कृत्य यत्तत्सिध्यतु मे वचः

1.196.200.11

वराह नरसिंहेश वामनेश त्रिविक्रम

1.196.200.12

हयग्रीवेश सर्वेश हृषीकेश हराऽशुभम् ॥
अपराजित चक्राद्यैश्चतुर्भिः परमायुधैः

1.196.200.13

अखण्डितानुभावैस्त्वं सर्वदुःखहरो भव ॥
हराऽमुकस्य दुरितं दुष्कृतं दुरुपोषितम्

1.196.200.14

मृत्युबन्धातिभयदं दुरिष्टस्य च यत्फलम् ॥
परापध्यानसहितं प्रयुक्तं चाभिचारिकम्

1.196.200.15

गरस्पर्शमहारोगप्रयोगं जरयाजर ॥
ॐनमो वासुदेवाय नमः कृष्णाय शार्ङ्गिणे

1.196.200.16

नमः पुष्करनेत्राय केशवायादिचक्रिणे ॥
नमः कमलकिञ्जल्कपीतनिर्मलवाससे

1.196.200.17

महाहवरिपुस्कन्धपृष्ठचक्राय चक्रिणे ॥
दंष्ट्रोद्धृतक्षितिभृते त्रयीमूर्तिमते नमः

1.196.200.18

महायज्ञवराहाय शेषभोगोरुशायिने ॥
तप्तहाटककेशाय ज्वलत्पावकलोचन

1.196.200.19

वज्राधिकनखस्पर्श दिव्यसिंह नमोऽस्तु ते ॥
काश्यपायातिह्रस्वाय ऋग्यजुःसामरूपिणे

1.196.200.1.196.20

तुभ्यं वामनरूपाय क्रमते गां नमोनमः ॥
वराहाऽशेषदुष्टानि सर्वपापफलानि वै

1.196.200.21

मर्दमर्द महादंष्ट मर्दमर्द च यत्फलम् ॥
नरसिंह करालास्य दन्तप्रान्तानलोज्ज्वल

1.196.200.22

भञ्जभञ्ज निनादेन दुष्टान्भक्तार्तिनाशन ॥
ऋग्यजुःसामगर्भाभिर्वाग्भिर्वामनरूपधृक्

1.196.200.53

प्रशमं सर्वदुःखानि नयैतस्य जनार्दन ॥
एकाह्निकं द्व्यह्निकं च तथा त्रिदिवसज्वरम्

1.196.200.24

चातुर्थिकं तथात्युग्रं तथैव सततज्वरम् ॥
दोषोत्थं सन्निपातोत्थं तथैवागन्तुकं ज्वरम्

1.196.200.25

शमं नयतु गोविन्दश्छित्त्वा छित्त्वास्य वेदनाम् ॥
नेत्रदुःखं शिरोदुःखं दुःखं चोदरसम्भवम्

1.196.200.26

अनुच्छ्वासमतिश्वासं परितापं च वेपथुम् ॥
गुदघ्राणादिरोगांश्च कुष्ठरोगं तथा क्षयम्

1.196.200.27

कामलादींस्तथा रोगान्प्रमेहांश्चातिदारुणान् ॥
भगन्दरातिसारांश्च मुखरोगं सवल्गुलिम्

1.196.200.28

अश्मरीमूत्रकृच्छ्रांश्च रोगानन्यांश्च दारुणान् ॥
ये वातप्रभवा रोगा ये च पित्तसमुद्भवाः

1.196.200.29

कफोद्भवाश्च ये केचिद्ये केचित्सान्निपातिकाः ॥
आगन्तवश्च ये रोगा लूताविस्फोटकादयः

1.196.200.1.196.30

ते सर्वे प्रशमं यान्तु वासुदेवापमार्जिताः ॥
विलयं यान्तु ते सर्वे विष्णोरुच्चारणेन च

1.196.200.31

क्षयं गच्छन्तु चाशेषास्ते चक्राभिहता हरेः॥
अस्तुतानन्तगोविन्दनामोच्चारणभेषजात्

1.196.200.32

नश्यन्ति सकला रोगाः सत्यंसत्यं वदाम्यहम् ॥
स्थावरं जङ्गमं चैव कृत्रिमं चापि यद्विषम्

1.196.200.33

दन्तोद्भवं नखभवमाकाशप्रभवं विषम्॥
लूतादिप्रभवं यच्च विषमत्यन्तदुःखदम्

1.196.200.34

शमं नयतु तत्सर्वं कीर्तितो हि जनार्दनः ॥
ग्रहान्प्रेतग्रहांश्चैव तथा चैवार्यकग्रहान्

1.196.200.35

मुखमण्डलिकान्क्रूरान्रेवतीं वृद्धरेवतीम् ॥
वृद्धिकाख्यान्ग्रहांश्चोग्रांस्तथा मातृग्रहानपि

1.196.200.36

बालस्य विष्णोश्चरितं हन्तु बालग्रहानिमान् ॥
वृद्धानां ये ग्रहाः केचिद्ये च बालग्रहाः क्वचित्

1.196.200.37

नरसिंहस्य दृष्ट्या ते दग्धा ये चापि यौवने ॥
सटाकरालवदनो नरसिंहो महारवः

1.196.200.38

ग्रहानशेषान्निःशेषान्करोतु जगतो हितः ॥
नरसिंह महासिंह जिह्वाज्वालोज्ज्वलानन

1.196.200.39

ग्रहानशेषान्सर्वेश खादखादाग्निलोचन ॥
ये रोगा ये महोत्पाता यद्विषं ये महाग्रहाः

1.196.200.1.196.40

यानि च क्रूरभूतानि ग्रहपीडाश्च दारुणाः ॥
शस्त्रक्षतेषु ये दोषा ज्वालागर्दभिकादयः

1.196.200.41

तानि सर्वाणि सर्वात्मन्परमात्मञ्जनार्दन ॥
कञ्चिद्रूपं समास्थाय वासुदेवाशु नाशय

1.196.200.42

क्षिप्त्वा सुदर्शनं चक्रं ज्वालामालाविभीषणम् ॥
सर्वदुष्टोपशमनं कुरु देववराऽच्युत

1.196.200.43

सुदर्शन महाज्वाल च्छिन्धिच्छिन्धि च मारय ॥
सर्वाणि दुष्टरक्षांसि क्षपयाऽतिविभीषण

1.196.200.44

प्राच्यां प्रतीच्यां दिशि दक्षिणोत्तरतस्तथा ॥
रक्षां करोतु सर्वस्मान्नरसिंहः स्वगर्जितैः

1.196.200.45

भुव्यन्तरिक्षे च दिवि पार्श्वतः पृष्ठतोऽग्रतः ॥
रक्षां करोतु भगवान्बहुरूपी जनार्दनः

1.196.200.46

यस्माद्विष्णुर्जगत्सर्वं सदेवासुरमानुषम् ॥
तेन सत्येन दुष्टानि शममस्य व्रजन्तु वै

1.196.200.47

यथा विष्णुस्मृतौ सद्यः संक्षयं याति पातकम् ॥
सत्येन तेन सकलं दुष्टमस्य प्रशाम्यतु

1.196.200.48

परमात्मा यथा विष्णुर्वेदान्तेष्वभिगीयते ॥
तेन सत्येन सकलं यन्मयोक्तं तथाऽस्तु तत्

1.196.200.49

शान्तिरस्तु शिवं चास्तु प्रणश्यत्वसुखं च यत् ॥
वासुदेवशरीरोत्थैः कुशैः संमार्जितो मया

1.196.200.1.196.50

अपामार्जति गोविन्दो नरो नारायणस्तथा ॥
तथास्तु सर्वदुःखानां प्रशमो वचनाद्धरेः

1.196.200.51

शान्ताः समग्ररोगास्ते ग्रहाः सर्वे विषाणि च ॥
भूतानि च प्रशान्तानि संस्मृते मधुसूदने

1.196.200.52

एतत्समस्तरोगेषु सर्वभूतभयेषु च ॥
अपामार्जनकं शस्त्रं विष्णुनामाऽभिमन्त्रितम्

1.196.200.53

शान्तिरस्तु शिवं चास्तु दुष्टमस्य प्रशाम्यतु ॥
यदस्य दुरितं किञ्चित्तत्क्षिप्तं लवणाम्भसि

1.196.200.54

स्वास्थ्यमस्य सदैवाऽस्तु हृषीकेशस्य कीर्तनात् ॥
यत एवाऽऽगतं पापं तत्रैव प्रतिगच्छतु

1.196.200.55

एतद्रोगादिपीडासु जन्तूनां हितमिच्छता ॥
विष्णुभक्तेन कर्तव्यमपामार्जनकं परम्

1.196.200.56

अनेन सर्वदुःखानि प्रशमं यान्त्यसंशयम् ॥
सर्वभूतहितार्थाय कुर्यात्तम्मात्सदैव हि

1.196.200.57

नाद्यन्तवन्तः कवयः पुराणास्सूक्ष्मा बृहन्तो ह्यनुशासितारः ॥
सर्वज्वरान्द्यन्तु तवानिरुद्धप्रद्युम्नसंकर्षणवासुदेवाः

1.196.200.58

एते कुशा विष्णुशरीरसम्भवा जनार्दनोऽहं स्वयमेव चागतः ॥
हतं मया दुष्टमशेषमस्य स्वस्थो भवत्वेष यथा वचो हरेः

1.196.200.196

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे सत्त्वबाधाप्रशमनं नाम षण्णवत्यधिकशततमोऽध्यायः

1.196.200.1

1.197
वज्र उवाच ॥
जगत्सष्टिप्रसंगेन चोर्वशीसम्भवस्त्वया ॥
कथितस्तु महाभाग तत्प्रसङ्गेन चापराः॥।

1.196.200.2

कथिताश्च कथा ब्रह्मन्धर्मयुक्ता मनोहराः ॥
विष्णोर्माहात्म्यसंयुक्ताः सर्वपापभयापहाः

1.196.200.3

कश्यपस्य तु या पत्नी खशानाम्नी त्वयेरिता॥
यस्याः पुत्रौ महात्मानौ कथितौ यक्षराक्षसौ

1.196.200.4

तयोरुत्पत्तिमिच्छामि श्रोतुं वंशं तथैव च ॥
प्रस्तुता जगदुत्पत्तिं निखिलेन प्रकीर्तय

1.196.200.5

मार्कण्डेय उवाच ॥
राक्षसं पूर्वसन्ध्यायां जनयामास सा खशा ॥
दंष्ट्राकरालवदनं पिङ्गलोद्बद्धलोचनम्

1.196.200.6

आकर्णदारिताऽस्यं च स्थूलनासाग्रमुल्बणम् ॥
विकचं विकटाटोपं शङ्कुकर्णं विभीषणम्

1.196.200.7

तथैवापरसन्ध्यायां सैव यक्षं व्यजायत ॥
तादृशेनैव रूपेण यादृशेनैव राक्ष सम्

1.196.200.8

क्षिणोमि मातरं यक्षः क्षुभितस्तामभाषत ॥
रक्षेति मातरं तां तु यक्षं वै राक्षसोऽब्रवीत्

1.196.200.9

रक्षणाद्राक्षसः प्रोक्तः क्षणाद्यक्षः स उच्यते ॥
भार्या बभूव यक्षस्य देवरामा कृतस्थला

1.196.200.1.197.10

यक्षो राजतनाभाख्यस्तस्यास्तस्य सुतः स्मृतः ॥
अनुर्ह्रादसुता भार्या तस्यासीन्नृप गुह्यका

1.196.200.11

वीरो मणिचरश्चैव वीरभद्रस्तथैव च॥
तस्याः पुत्रावुभौ ख्यातौ देवतुल्यौ मनीषिणौ

1.196.200.12

ककुत्स्थतनये भार्ये तयोरास्तां नराधिप॥।
राजन्पुण्यजनीनाम प्रथमस्य बभूव सा

1.196.200.13

तथा देवजनीनाम द्वितीयस्याऽपि यादव ॥
तस्याः पुण्यजना यक्षा देव देवजनास्तथा ॥
कथिता बहुसाहस्रा महाबलपराक्रमाः

1.196.200.14

शुभैर्विवाहैर्नृप यक्षवंशैर्यक्षास्तु जाता बहुशीलयुक्ताः ॥
धर्मस्थिताः सत्यपरा विनीता महानुभावा वरदा वरेण्याः

1.196.200.197

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे यक्षोत्पत्तिर्नाम सप्तनवत्यधिकशततमोऽध्यायः

1.196.200.1

1.198
मार्कण्डेय उवाच ॥
अजः षण्डः पिशाचौ द्वौ भूपाल कपिशासुतौ ॥
पिशाची ब्रह्मधानाख्या तत्राजस्य सुता मता

1.196.200.2

पिशाची यातुधानाख्या षण्डस्य तनया मता ॥
अजश्च राजषण्डश्च निशीथे क्षुधितावुभौ

1.196.200.3

बहिर्भृत्यौ तु सहितौ दृष्टवन्तौ नरेश्वर ॥
राक्षसं क्षुधिताकारं पतन्तं क्षुधितं निशि

1.196.200.4

गृहीतः स पिशाचाभ्यां क्षुधिताभ्यां यदा बली ॥
पृष्टः स ताभ्यां यत्नेन दृष्ट्वा तस्य तदा बलम्

1.196.200.5

जगाद भूमिपश्रेष्ठ चोभयोर्जन्मकारणम् ॥
जन्म कर्म च तौ तस्य श्रुत्वा पिशितभोजनौ

1.196.200.6

ददतुः कन्यके तस्य राक्षसस्य नराशिनः ॥
भार्याद्वयस्य वंशौ द्वौ राक्षसस्य प्रकीर्तितौ

1.196.200.7

ब्रह्मधानान्वये तस्य ब्रह्मधाना निशाचराः ॥
यातुधानान्वये तस्य यातुधानाः प्रकीर्तिताः

1.196.200.8

ब्रह्मधानान्वये जातानादौ वक्ष्यामि राक्षसान् ॥
यज्ञहा निर्धनिक्षेपा ब्रह्मपूतोऽथ निघ्नवान्

1.196.200.9

श्वानकृत्कुन्तलः सर्पो ब्रह्मधानात्मजाः स्मृताः ॥
तेषामन्वयसम्भूताः शतशोऽथ सहस्रशः

1.196.200.1.198.10

श्लेष्मातकवनस्थानाः कथिता ब्रह्मराक्षसाः ॥
हेतिः प्रहेतिरुग्रश्च पौरुषादो वधस्तथा

1.196.200.11

विद्युत्स्फूर्जश्च वातश्च नसो व्याघ्रस्तथैव च ॥
सुसकृच्च करालश्च यातुधानात्मजा दश

1.196.200.12

सूर्यस्यानुचरा ह्येते सह तेन भ्रमन्ति वै ॥
तेषामन्वयसम्भूता यातुधानाः प्रकीर्तिताः

1.196.200.13

हेतिप्रहेतिवंशौ द्वौ तव वक्ष्यामि यादव ॥
हेतिपुत्रः स्मृतो लङ्कुर्यस्य सालकटङ्कटाः

1.196.200.14

सन्ध्यासुता स्मृता भार्या सुकेशस्तत्सुतः स्मृतः ॥
माली सुमाली च तथा माल्यवांश्च महाबलः

1.196.200.15

सुकेशतनया ह्येते देवासुरभयङ्कराः ॥
तपसा तैः समाराध्य देवदेवं जनार्दनम्

1.196.200.16

वीर्यमप्रतिमं प्राप्तं लङ्का चैव महापुरी ॥
सुमालितनया तत्र कैकसी नाम राक्षसी

1.196.200.17

भार्या विश्रवसः पुत्रो यस्या रावणसंज्ञकः ॥
त्रिलोकविजयी तस्य रावणस्य दुरात्मनः

1.196.200.18

सुमाली वसुना युद्धे धरेण विनिपातितः ॥
माली च देवदेवेन केशवेन निपातितः

1.196.200.19

माल्यवांस्तत्र वर्षात्मा जीवत्यद्यापि यादव ॥
श्रावितौ भ्रातरौ येन पुरा देवरणोत्सुकौ

1.196.200.1.198.20

हितं धर्म्यं शुभं वाक्यं न च तातस्य चक्रतुः ॥
तेन तौ निधनं प्राप्तौ राक्षसौ समरद्वये

1.196.200.21

संश्रावितस्तेन तथैव वाक्यं स रावणो नाम विरोधकाले ॥
उल्लंघ्य वाक्यं निधनं जगाम धर्मे स्थितस्या प्रतिमप्रभावः

1.196.200.198

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे हेतिवंशवर्णनं नामाष्टनवत्यधिकशततमोऽध्यायः ।

1.196.200.1

1.199
मार्कण्डेय उवाच ॥
प्रहेतितनयो राजन्पुलोमा नाम विश्रुतः ॥
क्रोधदृष्ट्या तु यः शीघ्रं च्यवनेन विनाशितः

1.196.200.2

वज्र उवाच ॥
च्यवनेन किमर्थं वै पुलोमा राक्षसो हतः ॥
कथं च भृगुशार्दूल तन्ममाचक्ष्व पृच्छतः

1.196.200.3

मार्कण्डेय उवाच ॥
पुलोम्नो दानवेन्द्रस्य द्वे कन्ये भुवि विश्रुते॥
पुलोमा भृगवे दत्ता शची दत्ता च वासवे

1.196.200.4

कन्याभावे रुदन्तीं तु कदाचिद्यदुनन्दन ॥
पुलोमामुक्तवान्राजन्पुलोमा दानवेश्वरः

1.196.200.5

हे रक्षः कन्यकामेतां गृह्णीष्व रुदतीं बलात् ॥
एतस्मिन्नेव काले तु पुलोम्नो भवनाजिरे

1.196.200.6

छिद्रान्वेषी दुराचारः पुलोमा स व्यतिष्ठत ॥
अनुसृत्य च जग्राह तां कन्यां चारुलोचनाम्

1.196.200.8

निर्भर्त्स्य तं दुराचारं पुलोमा दानवोत्तमः ॥
कालेन प्रददौ कन्यां भृगवे तां सुमध्यमाम् ॥ ।७ ॥
अन्तर्वत्नीं तु रहितां भृगुणा तामनिन्दिताम् ॥
अग्निहोत्रगतां दृष्ट्वा पुलोमाग्निमथाब्रवीत्

1.196.200.9

पौलोमी यदि मत्पूर्वा सेयं पावक शंस मे ॥
तामग्निरब्रवीत्तस्य सेयं पत्नी भृगोः शुभा

1.196.200.1.199.10

एवमग्नेर्भृगोः श्रुत्वा तां जहार स राक्षसः ॥
तस्यां तु दृश्यमानायां गर्भः कुक्षेस्तदा च्युतः

1.196.200.11

च्यवनाच्च्यवनो नाम बभूव स महातपाः ॥
दृष्टमात्रस्तु तेनाऽसौ पुलोमा भस्मसाद्गतः

1.196.200.12

पुलोमाश्रुनिपातेन नदी जाता वधूवरा ॥
वह्निश्च सर्वभक्ष्यत्वं भृगुशापादुपागतः

1.196.200.13

हुताशनस्तु संकुद्धश्शापं प्राप्य द्विजोत्तमात् ॥
लोककार्यरतिर्ब्रह्मा स्वयं वचनमब्रवीत्

1.196.200.14

वह्ने तवार्चिभिः स्पृष्टं शुचि सर्वं भविष्यति ॥
शुचिभूतं ततः पश्चाद्भक्षयिष्यत्यसंशयम्

1.196.200.15

एतत्तवोक्तं च्यवनस्य जन्म नाशस्तथा राक्षसपुङ्गवस्य ॥
वह्नेः शुचित्वं च तथार्चिषां वै वंशं पुलोम्नोऽथ निबोध राजन्

1.196.200.199

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे च्यवनोत्पत्तिवर्णनो नाम नवनवत्यधिकशततमोऽध्यायः

1.196.200.1

1.200
॥ मार्कण्डेय उवाच ॥ ॥
पुलोम्नस्तनयः श्रीमान्मधुर्नाम निशाचरः ॥
विनिष्कृष्य स्वकाच्छूलाच्छूलं प्रादाद्वृषध्वजः

1.196.200.2

तपसा तोषितो यस्य सपुत्रस्य महात्मनः ॥
त्रैलोक्यविजयासक्ते तेन राजेन्द्र रावणे

1.196.200.3

दीक्षिते मेघनादे च तथा याते निकुम्भिलाम् ॥
अन्तर्जलगते वीरे तथैव च विभीषणे

1.196.200.4

निद्रावशगते राजन्कुम्भकर्णे सुरद्विषि ॥
मालिनस्तनया तेन रावणस्य स्वसा हृता

1.196.200.5

कुम्भीलसी महाभागा रूपद्रविणसंयुता ॥
यस्यामस्य सुतो जज्ञे लवणो नाम राक्षसः

1.196.200.6

येन शूलप्रभावेण मान्धाता विनिपातितः ॥
न तस्य पुत्रो भार्या वा बभूवातिदुरात्मनः

1.196.200.7

प्राणिनां पुरुषाद्यानां सहस्रैर्दशभिर्नृप ॥
आहारमाह्निकं तस्य भवत्यौदरिकस्य तु

1.196.200.8

रामाज्ञया तस्य बभूव राजन्रामानुजो मृत्युरदीनसत्त्वः॥
शत्रुघ्ननामा भुवनस्य वीरो महान्तरस्थो हरिरप्रमेयः

1.196.200.200

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे प्रहेतिवंशानुकीर्तनं नाम द्विशततमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc