भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 1.191.195

1.191.195.1

1.191
॥ शक्र उवाच ॥ ॥
केन कर्मविपाकेन स्वर्गता त्वं वरानने ॥
दीर्घकालमिहस्थासि तथा चैवाप्यनागतान्

1.191.195.2

कथं मन्वन्तरान्वेत्सि तन्ममाचक्ष्व पृच्छतः ॥
त्वत्समा दिवि नैवान्या काचिदस्ति चिरन्तनी

1.191.195.3

एकरूपः कथं कर्ता त्वया दृष्टः सुरेश्वरि ॥
मन्वन्तराणां जानासि भविष्याणां तथा गतिम्

1.191.195.4

शाम्बरायण्युवाच ॥
त्रिदिवे सप्तमः कल्पो ममायं त्रिदिवेश्वर॥
देवदेवप्रसादेन वसन्त्या वर्ततेऽनघ

1.191.195.5

परार्धश्च तथा ब्राह्म्यो जनलोके गतो मम ॥
एकरूपास्तथा कल्पा मया दृष्टाः सुरेश्वर

1.191.195.6

मन्वन्तराणां जानामि भविष्याणां तथा गतिम् ॥
मया मानुष्यमासाद्य मासनक्षत्रपूजनम

1.191.195.7

प्रतिमासं कृतं विष्णोर्यावज्जीवं सुरेश्वर ॥
तेन कर्मविपाकेन त्रिदिवे वसतिश्चिरम् ॥
मयेयं समनुप्राप्ता देवदेवप्रसादजा

1.191.195.8

अस्मादपि महाभाग ब्रह्मलोकं नयत्युत

1.191.195.9

मार्कण्डेय उवाच ॥
एतदुक्त्वा महाभाग शक्रं सा शाम्बरायणी ॥
जगामादर्शनं राजंस्तत्रैव सुरपूजिता

1.191.195.1.191.10

मासर्क्षपूजामधिकृत्य विष्णोर्मया तवेदं कथितं समग्रम् ॥
तस्मात्प्रयत्नेन नरेन्द्रचन्द्र मासर्क्षपूजां प्रयतेत कर्तुम्

1.191.195.11

श्रोतव्यमेतत्प्रयतेन वज्र पापापहं धर्मविवृद्धिदं च ॥
संवादमग्र्यं त्रिदशेश्वरस्य सिद्धाङ्गनायाश्च परं पवित्रम्

1.191.195.191

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शक्रशाम्बरायणीकथानकं नामैकनवत्यधिकशततमोऽध्यायः

1.191.195.1

1.192
॥ वज्र उवाच॥
श्रुतवानस्मि धर्मज्ञ देववेश्मोपलेपने ॥
फलं गदति ते ब्रह्मञ्छ्रोतुमिच्छाम्यहं पुनः

1.191.195.2

लेपनादपि यत्स्वर्गफलदं च यथा भवेत् ॥
तन्मे कर्म त्वमाचक्ष्व सर्वज्ञोऽसि भृगूत्तम

1.191.195.3

मार्कण्डेय उवाच ॥
स्तुतिर्लघुतरा तस्य लेपनादपि यादव ॥
तथा बहुफला प्रोक्ता तां कुरुष्व यदीच्छसि

1.191.195.4

ये स्तुवन्ति महादेवं शङ्खचक्रगदाधरम् ॥
तेषां न दुर्लभं किञ्चिदिह लोके परत्र च

1.191.195.5

वासुदेवं स्तुवन्मर्त्यः सर्वपापं व्यपोहति ॥
स्वर्गं चानन्त्यमाप्नोति नात्र कार्या विचारणा

1.191.195.6

धर्मार्थी प्राप्नुयाद्धर्ममर्थार्थी चाप्नुयाद्धनम् ॥
कामानवाप्नुयात्कामी प्रजार्थी प्राप्नुयात्प्रजाः

1.191.195.7

रोगार्तो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् ॥
भयान्मुच्येत भीतश्च मुच्येदापन्न आपदः

1.191.195.8

दुर्गाण्यतितरत्याशु पुरुषः पुरुषोत्तमम् ॥
स्तुवन्मनुजशार्दूल नात्र कार्या विचारणा

1.191.195.9

तस्मात्सर्वप्रयत्नेन दिव्यैरृषिकृतैः स्तवैः ॥
स्तूयान्नरेन्द्र सततं देवदेवं सुभाषितैः

1.191.195.1.192.10

कमलपत्रशुभामललोचनं हरिमरिघ्नमचिन्त्यपराक्रमम् ॥
शरणमेत्य महाभयपीडिता भुवि भवन्ति नरा भयवर्जिताः

1.191.195.192

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे स्तुतिमाहात्म्यवर्णनो नाम द्विनवत्यधिकशततमोऽध्यायः

1.191.195.1

1.193
॥ मार्कण्डेय उवाच ॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ॥
स्तुतेन देवदेवेन गजेन्द्रस्य तु यत्कृतम्

1.191.195.2

पुरा वज्र महाबाहू गन्धर्वौ यौ हाहा हूहू ॥
गीतैः परस्परं स्पर्धां चक्रतुस्तौ परन्तप

1.191.195.3

स्पर्धमानौ परं राजंश्चक्रतुस्तौ परस्परम् ॥
आवयोः प्राश्निकः साधुः कोऽस्मिँल्लोके भविष्यति

1.191.195.4

तयोरथाहुर्गन्धर्वा देवलोऽयं भविष्यति ॥
एवमुक्तौ ततस्तौ तु नेच्छेतां देवलं मुनिम्

1.191.195.5

नायं जानाति गीतस्य विशेषमिति मोहितौ ॥
तौ शशाप महाक्रुद्धो देवलः सुमहातपाः

1.191.195.6

अवज्ञा जानतो यस्माद्भवद्भ्यां मम वै कृता ॥
तस्माच्छापं प्रदास्यामि युवयोर्देवगायनौ

1.191.195.7

हाहा भविष्यति करी हूहू नक्रो भविष्यति ॥
नक्रं च देवदेवेशो गजाकर्षणतत्परम्

1.191.195.8

नागस्तुतस्तु चक्रेण द्विधा कर्ता तदा युवाम् ॥
उभौ स्व लप्स्यथो रूपं शापस्यान्ते तु गायनौ

1.191.195.9

शापेन तौ तस्य ततस्तु जातौ मया यथोक्तौ तव राजसिंह ॥
गजस्तु तेनापि जनार्दनेन सम्मोचितौ तौ द्विजवर्यशापात्

1.191.195.193

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे गन्धर्वयोर्गजनक्रीकरणं नाम त्रिनवत्यधिकशततमोऽध्यायः

1.191.195.1

वज्र उवाच ॥ ॥
भगवञ्छ्रोतुमिच्छामि गजेन्द्रस्य विमोक्षणम् ॥
विस्तरेण महाभाग शापान्नक्रस्य चोभयोः

1.191.195.2

मार्कण्डेय उवाच ॥
अस्त्यस्मिञ्छृङ्गवान्नाम जम्बूद्वीपे कुलाचलः ॥
महाधातुसमुन्नद्धैर्युतः शृङ्गैर्नभङ्कषैः

1.191.195.3

यस्य शृङ्गत्रयं मध्यं भाति राजन्विशेषवत् ॥
ब्रह्मार्कसोमनिलयं मनोहारि दिवं गतम्

1.191.195.4

तेषामथैकं सौवर्णमपरं राजतं महत् ॥
सर्वरत्नमयं चैकं मध्यमं ब्रह्मणः क्षयम्

1.191.195.5

काञ्चनं सूर्यनिलयं राजतं शशिनः क्षयम् ॥
त्रिकूटं शैलराजाभं रत्नपक्षद्रुमैर्युतम्

1.191.195.6

न तत्कृतघ्नाः पश्यन्ति न नृशंसा न नास्तिकाः ॥
नातप्ततपसः केचिन्नैव पापकृतो जनाः

1.191.195.7

तस्य सानुमतः पृष्ठे सरो व्याकोशपङ्कजम् ॥
कारण्डवसमाकीर्णं राजहंसोपशोभितम्

1.191.195.8

सच्चित्तमिव गम्भीरं सच्चित्तमिव निर्मलम् ॥
बहूपयोग्यं च तथा सतान्निष्कृतिकृन्नृप

1.191.195.9

मीनच्छिन्नाभ्रशकलस्फुटकह्लारतारकम् ॥
महाकुमुदरात्रीशं द्वितीयमिव चाम्बरम्

1.191.195.1.194.10

उत्फुल्लपद्मरजसा मधुपैः परि पिञ्जरैः ॥
समन्ताद्व्याप्य सत्पद्मं तपनीयसमैरिव

1.191.195.11

च्युतेन पद्माद्रजसा हंसैः केशरमन्थनैः ॥
वायुना भ्राम्यमाणेन दुर्विभाव्योदकोम्बुजम्

1.191.195.12

महान्तः पद्मिनीपत्रा वायुभ्रस्ताभ्रशीकरैः ॥
युक्ता मुक्ताफलाकारैर्यत्र भान्ति सहस्रशः

1.191.195.13

नृत्यन्ति कमला यत्र शफरी स्फुरणाहताः ॥
भ्रमरोद्गीतसंघोषै रसत्सारसनादिकम्

1.191.195.14

हसन्तमिव हंसौघैर्नृत्यन्तमिव चोर्मिभि ॥
उद्गीथमिव कुर्वाणं कारण्डवरवैः शुभैः

1.191.195.15

मध्ये त्वगाधं चतुरः प्रतीहारैरिवोद्धतैः ॥
उत्सारयन्तं कल्लोलैर्वायुक्षिप्तद्रुमोद्भवान्

1.191.195.16

भ्रमरान्तरसंलीनकह्लारकुसुमाक्षुभिः॥
पश्यन्तमिव शैलस्य शृङ्गाणां तन्महोच्छ्रयम्

1.191.195.17

यत्रातिशीतलं तोयं लघु स्वादु सुधानिभम् ॥
अन्यच्छ्रङ्गं मनोहारि भृङ्गनाद निनादितम्

1.191.195.18

तस्मिन्सरसि दुष्टात्मा विरूपोऽन्तर्जलेशयः ॥
हूहूर्जगाम ग्राहत्वं शापाद्वै देवलस्य तु

1.191.195.19

तस्मिन्नेव तथा शैले हाहा गन्धर्वसत्तमः ॥
बभूव यूथपो हस्ती चलत्पर्वतसन्निभः

1.191.195.1.194.20

अथ दन्तोज्ज्वलवपुः कदाचिद्गजयूथपः ॥
आजगाम महीपाल चोत्फुल्ल कमलं सरः

1.191.195.21

वंशदण्डैः स कलभैर्वृतश्चैव कररेणुभिः ॥
वासयन्मदगन्धेन तं त्रिकूटं महीधरम्

1.191.195.23

स गजोऽञ्जनसंकाशो मदाकुञ्चितलोचनः ॥
सलीलं पङ्कजवने यूथमध्यगतो व्रजम्। २२ ॥
गृहीतस्तेन रौद्रेण ग्राहेणाव्यक्तमूर्तिना ॥
पश्यतः सर्वयूथस्य क्रोशतश्चाति दारुणम्

1.191.195.24

स चकार महायत्नमात्मनः परिमोक्षणे ॥
ग्राहोऽपि यत्नमातिष्ठत्कुञ्जराकर्षणे महान्

1.191.195.25

ग्राहोऽपि बलिनं नागं न शशाक महाम्भसि ॥
आक्रष्टुं न च नागोऽपि तथात्मानं विमोक्षितुम्

1.191.195.26

विस्फूर्ज्य च यथाशक्ति विक्रुष्य च महारवान् ॥
व्यथितः स निरुद्योगः पश्चिमामागतो दशाम्

1.191.195.27

स तु नागवरः श्रीमान्नारायणपरायणः ॥
जगाम शरणं विष्णुं तुष्टाव च परन्तपः

1.191.195.28

गृहीत्वा स कराग्रेण सरसः कमलोत्तमम् ॥
निवेद्य भक्त्या कृष्णाय गजः स्तोत्रमुदीरयत्

1.191.195.1.194.30

गज उवाच ॥
नमोनमः कारणवामनाय नारायणायासुरदारणाय ॥
श्रीशार्ङ्गचक्रासिगदाधराय नमोऽस्तु तस्मै पुरुषोत्तमाय ॥ २९ ।
आद्याय वेदनिलयाय महोरगाय सिंहाय दैत्यनिलयाय चतुर्भुजाय ॥
ब्रह्मेन्द्ररुद्रमुनिचारणसंस्तुताय देवोत्तमाय वरदाय नमोऽच्युताय

1.191.195.31

नागेन्द्रभोगशयनासनसुप्रियाय गोक्षीरहेमशुकनीलघनोपमाय ॥
पीताम्बराय मधुकैटभनाशनाय भक्तप्रियाय वरदीप्तसुदर्शनाय

1.191.195.32

नाभिप्रजातकमलस्थचतुर्मुखाय क्षीरोदकार्णवनिकेतयशोधराय ॥
नानाविचित्र मुकुटाङ्गदभूषणाय सर्वेश्वराय विजयाय नमो वराय

1.191.195.33

(विश्वात्मने परमकारणकारणाय फुल्लारविन्दविपुलायतलोचनाय ॥
देवेन्द्रभावन परीक्षितपौरुषाय योगीश्वराय विजयाय नमो वराय

1.191.195.34

)
लोकायनाय त्रिदशायनाय ब्रह्मायणायात्मगुणायनाय ॥
धर्मायणायैकजनायनाय महावराहाय सदा नतोऽस्मि

1.191.195.35

अचिन्त्यमव्यक्तमनन्तरूपं नारायणं कारणमादिदेवम् ॥
युगान्तशेषं पुरुषं पुराणं तं वासुदेवं शरणं प्रपद्ये ॥

1.191.195.36

अदृश्यमच्छेद्यमनादिमध्यं महर्षयो ब्रह्मनिधिं सुरेशम् ॥
वदन्ति यं वै पुरुषं सनातनं तं वासुदेवं शरणं प्रपद्ये

1.191.195.37

यमक्षरं ब्रह्म वदन्ति सर्वगं निशम्य यं मृत्युमुखात्प्रमुच्यते ॥
तमीश्वरं दृप्तमनुत्तमैर्गुणैः परायणं विष्णुमुपैति शाश्वतम्

1.191.195.38

कार्यक्रियाकारणमप्रमेयं हिर ण्यनाभं कनकारविन्दम् ॥
महाबलं वेदनिधिं सुरोत्तमं व्रजामि विष्णुं शरणं जनार्दनम्

1.191.195.39

विचित्रकेयूरमहार्हनिष्कं रत्नोत्तमालङ्कृतसर्व गात्रम् ॥
पीताम्बरं काञ्चनभक्तिचित्रं मालाधरं केशवमभ्युपैमि

1.191.195.1.194.40

भवोद्भवं वेदविदां वरिष्ठं योगात्मनां साङ्ख्यविदां वरिष्ठम् ॥
आदित्यचन्द्राश्विवसुप्रभावं प्रभुं प्रपद्येऽच्युतमात्मभूतम्

1.191.195.41

श्रीवत्साङ्कं महादेवं वेदगुह्यमनुत्तमम् ॥
प्रपद्ये सूक्ष्ममचलं भक्तानामभयप्रदम्

1.191.195.42

प्रभवं सर्वलोकानां निर्गुणं च गुणात्मनाम् ॥
प्रपद्ये मुक्तसङ्गानां यतीनां परमां गतिम्

1.191.195.43

भगवन्तं सुराध्यक्षमक्षरं पुष्करेक्षणम् ॥
शरण्यं शरणं भक्त्या प्रपद्ये ब्राह्मणप्रियम्

1.191.195.44

ब्रह्मादेशं त्रिलोकेशमाद्यमेकमनामयम् ॥
भूतात्मानं महात्मानं प्रपद्ये मधुसूदनम्

1.191.195.45

क्षेत्रज्ञं पुरुषं विष्णुं त्रिगुणातीतमव्ययम् ॥
नारायणमणीयांसं प्रपद्ये शरणं हरिम्

1.191.195.46

एकाय लोकतन्त्राय परतः परमात्मने ॥
नमः सहस्रशिरसे अनन्ताय महात्मने

1.191.195.47

वरेण्यमनघं देवमृषयो वेदपारगाः ॥
कीर्तयन्त्यभवं सर्वे तं प्रपद्ये सनातनम्

1.191.195.48

नमस्ते पुण्डरीकाक्ष भक्तानामभयप्रद ॥
सुब्रह्मण्य नमस्तेऽस्तु त्राहि मां शरणाऽगतम्

1.191.195.49

मार्कण्डेय उवाच ॥
भक्तिं तस्य तु सञ्चिन्त्य नागस्याऽमोघसंस्तवः ॥
प्रीतिमानभवद्राजन्सद्यश्चक्रगदाधरः

1.191.195.1.194.50

सान्निध्यं कल्पयामास ग्राहं चक्रेण माधवः ॥
मोक्षयामास च गजं पाशेभ्यः शरणागतम्

1.191.195.51

स हि देवलशापेन हाहा गन्धर्वसत्तमः ॥
गजत्वमभवत्त्यक्त्वा मोक्षं प्राप्य दिवं गतः

1.191.195.52

ग्राहाद्विमुक्तः सद्यस्तु गजो गन्धर्वतां गतः ॥
ग्राहो गन्धर्वतां प्राप्तो यः कृष्णेन निपातितः ॥

1.191.195.53

तस्यापि देवलकृतः शापदोषोऽभवत्पुरा ॥
प्रीतिमांस्त्रायते विष्णुः सद्यः संसारसागरात् ॥

1.191.195.54

कुद्धोऽपि निघ्नन्देवत्वमरातीनां प्रयच्छति ॥
तौ च स्वं स्वं वपुः प्राप्य प्रणिपत्य जनार्दनम्

1.191.195.55

गन्धर्वाधिपती शीघ्रं परां निर्वृतिमागतौ ॥
इदं चैव महाबाहो पुरा देवोऽभ्यभाषत

1.191.195.56

दृष्ट्वा मुक्तौ गजग्राहौ भगवान्मधुसूदनः ॥
योऽग्रहीन्नागराजं च मां चैव प्रणिधानवान्

1.191.195.57

स्मरिष्यति सरश्चेदं युवयोर्मोक्षणं तथा ॥
गुल्मं कीचकवेणूनामिमं शैलवरं तथा

1.191.195.58

अश्वत्थं भास्करं गङ्गां नैमिषारण्यमेव च ॥
प्रयागं ब्रह्मतीर्थं च दण्डकारण्यमेव च

1.191.195.59

संस्मरिष्यन्ति ये मर्त्या सम्यक्छ्रोष्यन्ति चापि ये ॥
न ते दुःस्वप्नपापस्य भोक्तारो मत्परिग्रहात्

1.191.195.1.194.60

सर्वपापैर्विमोक्ष्यन्ति कल्याणानां च भागिनः ॥
भविष्यन्ति तथा पुण्यां गतिं यास्यन्ति मानवाः

1.191.195.61

दुःस्वप्नं च नृणां तेषां सुस्वप्नत्वं प्रयास्यति ॥
कौर्म्यं मात्स्यं च वाराहं वामनं तार्क्ष्यमेव च

1.191.195.62

नारसिंहं तथा रूपं सृष्टिप्रलयकारकम् ॥
एतानि प्रातरुत्थाय संस्मरिष्यन्ति ये नराः

1.191.195.63

सर्वपापैर्विशुद्धास्ते यास्यन्ति परमां गतिम् ॥
मार्कण्डेय उवाच ॥
एवमुक्त्वा तु राजेन्द्र देवदेवो जनार्दनः

1.191.195.64

अस्पृशद्गजगन्धर्वं ग्राहगन्धर्वमेव च ॥
तेन स्पृष्टौ तु तौ सद्यो दिव्यमाल्याम्बरान्वितौ

1.191.195.65

विमानेऽभिमते प्राप्ते जग्मतुस्त्रिदशालयम् ॥
तत्र देवपतिः कृष्णो मोक्षयित्वा गजोत्तमम्

1.191.195.66

ऋषिभिस्तूयमानस्तु गुह्यैर्वेदपदाक्षरैः ॥
गतः स भगवान्विष्णुर्दुर्विज्ञेयगतिर्विभुः

1.191.195.67

गजेन्द्रमोक्षणं दृष्ट्वा सर्वे सेन्द्रपुरोगमाः ॥
ब्राह्मणानग्रतः कृत्वा सर्वे प्राञ्जलयोऽभवन्

1.191.195.68

गजेन्द्रमोक्षणं पुण्यं सर्वपापविमोचनम् ॥
श्रावयन्प्रातरुत्थाय सर्वपापैः प्रमुच्यते

1.191.195.69

श्रद्धया हि यदुश्रेष्ठ स्मृतेन कथितेन च ॥
गजेन्द्रमोक्षणेनैव दीर्घमायुरवाप्नुयात्

1.191.195.1.194.70

मया ते कथितं दिव्यं पवित्रं पापनाशनम् ॥
( कीर्तयस्व महाबाहो महादुःस्वप्ननाशनम्

1.191.195.71

)
कीर्त्यमानं च विप्रेभ्यः शृणु भक्त्या यथोदितम्

1.191.195.72

वरं वरेण्यं वरपद्मनाभं नारायणं पद्मनिधिं सुरेशम् ॥
तं देवगुह्यं पुरुषं पुराणं ववन्दिरे ब्रह्मविदां वरिष्ठाः

1.191.195.73

एतत्पुण्यं यदुश्रेष्ठ नराणां पापकर्मिणाम् ॥
दुःस्वप्नदर्शने घोरे श्रुत्वा पापात्प्रमुच्यते

1.191.195.74

भक्तिमान्पुण्डरीकाक्षे गजो दुःखाद्विमोचितः ॥
तथा त्वमपि राजेन्द्र प्रपद्य शरणं हरिम्

1.191.195.74

विमुक्तः सर्वपापेभ्यः प्राप्स्यसे परमां गतिम्

1.191.195.194

।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे गजेन्द्रमोक्षणं नाम चतुर्नवत्यधिकशततमोऽध्यायः

1.191.195.1

1.195
॥ वज्र उवाच ॥
भगवन्कीदृशीं रक्षां स चकार द्विजोत्तमः ॥
यथा निर्धूतवीर्योऽसौ निस्तरो रजनीचरः

1.191.195.2

मार्कण्डेय उवाच ॥
एकाग्रचित्तो गोविन्दे तज्जपँस्तत्परायणः ॥
सर्वदुष्टोपशमनं प्रविष्टो विष्णुपञ्जरम्

1.191.195.3

वज्र उवाच ॥
विष्णुपञ्जरमिच्छामि श्रोतुं धर्मभृतां वर ॥
सदा सर्वभयेभ्यस्तु रक्षायां परमा भवेत्

1.191.195.4

मार्कण्डेय उवाच ॥
त्रिपुरं जघ्नुषः पूर्वं ब्रह्मणा विष्णुपञ्जरम् ॥
शङ्करस्य यदुश्रेष्ठ रक्षणाय निरूपितम्

1.191.195.5

वागीशेन तु शक्रस्य बलं हन्तुं प्रयास्यतः ॥
तस्य स्वरूपं वक्ष्यामि तन्निबोध महीपते

1.191.195.6

विष्णुः प्राच्यां स्थितश्चक्री विष्णुर्दक्षिणतो गदी ॥
प्रतीच्यां शार्ङ्गभृद्विप्णुर्विष्णुः खड्गी ममोत्तरे

1.191.195.7

हृषीकेशो विकोणेषु तच्छिद्रेषु जनार्दनः ॥
क्रोडरूपी हरिर्भूमौ हन्तुं प्रेतनिशाचरान्

1.191.195.8

गदा चेयं सहस्रांशुरुद्वमत्पावकोल्बणा ॥
रक्षोभूतपिशाचानां डाकिनीनां च शातनी

1.191.195.9

शार्ङ्गविस्फूर्जितं चैव वासुदेवस्य मद्रिपून् ॥
तिर्यङ्मनुष्यकूष्माण्डप्रेतादीन्हन्त्वशेषतः

1.191.195.1.195.10

खड्गधारामलज्योत्स्ना निर्धूता ये समाहिताः ॥
ते यान्तु सौम्यतां सद्यो गरुडेनेव पन्नगाः

1.191.195.11

( ये कूष्माण्डास्तथा यक्षा ये दैत्या ये निशाचराः ॥
प्रेता विनायकाः क्रूरा मनुष्या जम्बुकाः खगाः ॥

1.191.195.12

सिंहादयो ये पशवो दन्दशूकाश्च पन्नगाः ॥
सर्वे भवन्तु ते सौम्याः कृष्णशार्ङ्गरवाहताः

1.191.195.13

चित्तवृत्तिहरा ये मे ये जनाः स्मृतिहारकाः ॥
बलौजसां च हन्तारश्छायाविभ्रंशकाश्च ये

1.191.195.14

ये चोपभोगहर्तारो ये च लक्षणनाशकाः ॥
कूष्माण्डास्ते प्रणश्यन्तु विष्णुचक्ररयाहताः

1.191.195.15

बुद्धिस्वास्थ्यं मनःस्वास्थ्यं स्वास्थ्यमैन्द्रियकं तथा ॥
ममास्तु देवदेवस्य वासुदेवस्य कीर्तनात्

1.191.195.16

पृष्ठे पुरस्तान्मम दक्षिणोत्तरे विकोणतश्चास्तु जनार्दनो हरिः ॥
तमीड्यमीशानमनन्तविक्रमं जनार्दनं प्रणिपतितो न सीदति

1.191.195.17

यथा परम्ब्रह्म हरिस्तथा परं जगत्स्वरूपं च स एव केशवः ॥
सत्येन तेनाच्युतनामकीर्तनात्प्रणाशमेतु त्रिविधं ममाशुभम्

1.191.195.195

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे विष्णुपञ्जरस्तोत्रवर्णनंनाम पञ्चनवनवत्यधिकशततमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc