विष्णुधर्मोत्तरपुराणम् · अध्याय 1.186.190
1.186
शाम्बरायण्युवाच ॥
रुद्रपुत्रस्य ते पुत्रान्वक्ष्याम्येकादशस्य तु ॥
धर्मनित्यान्महाभागांस्त्रैलोक्यस्य परायणान्
सर्वर्तुगः सुशर्मा च सेनानीकः पुरोद्धतः ॥
क्षेमधन्वा दृढेन्द्रश्च चादर्शः पुण्ड्रकस्तथा
मनुपुत्राः स्मृता ह्येते ऋषयश्च निबोध मे॥
हविष्मांश्च वपुष्मांश्च वरुणाब्धिश्च निस्तरः
विष्णुश्चैवाग्नितेजाश्च ऋषयः सप्त कीर्तिताः ॥
निर्मथ्या रथयश्चैव कामगाश्च गणास्त्रयः
त्रिंशत्त्रिंशत्तथा देवा एकैकस्मिन्गणे स्मृताः ॥
तेषामिन्द्रो वृषो नाम भविष्यति महाबलः
दायादा बान्धवाश्चैव भविष्यन्ति सुराश्च ये ॥
तेषां तु भविता राजा दशग्रीवः प्रतापवान्
घातयिष्यति तं विष्णुस्त्रैणं रूपमुपाश्रितः ॥
शूलाग्रेण विनिर्भिद्य रणे देवाऽसुरे तदा
तमवध्यं दुराधर्षं पुरुषाणां स्वयम्भुवा ॥
गतं तपःप्रभावे सा विष्णुस्तं घातयिष्यति
नीलोत्पलाभं तपनीयवर्णं सुवृत्तजानूरुयुगं स्वरूपम् ॥
रूपं स्त्रियांश्चारुतरं स कृत्वा सुरारिमुग्रं सहसाऽरिहन्ता
इति श्रीविष्णुधर्मोत्तरे प्रथम खण्डे मार्कण्डेयवज्रसंवादे शक्रशाम्बरायणीसंवादे एकादशमन्वन्तरवर्णनन्नाम षडशीत्यधिकशततमोऽध्यायः
1.187
शाम्बरायण्युवाच ॥
मनोस्त्वं दक्षपुत्रस्य द्वादशस्यात्मजाञ्छृणु ॥
देववानुपदेवश्च देवश्रेष्ठो विदूरथः
मित्रवान्मित्रदेवश्च मित्रसेनश्च वीर्यवान्॥
मित्रबाहुः सुवर्चाश्च दक्षपुत्रमनोः सुताः
सत्तमो द्यौर्द्युतिश्चैव तपनः सुतपास्तथा ॥
तपोरतिस्तपस्वी च ऋषयः सप्त कीर्तिताः
सुशर्माणः सुतपसो हरिता रोहितास्तथा ॥
सुताराख्या गणाः पञ्च प्रत्येकं दशको गुणः
ऋतधामा च धर्मात्मा तेषामिन्द्रः प्रतापवान् ॥
दायादा बान्धवास्तस्य भविष्यन्त्यसुराश्च ये
तेषां च भविता राजा नरको नाम नामतः ॥
स्त्रीपुंसोः सत्त्ववध्यश्च वरदानात्स्वयम्भुवः
हरिर्नपुंसको भूत्वा घातयिष्यति तं तदा
देवान्तकं कालसमप्रभावं महासुरं क्लीबवपुर्महात्मा ॥
निहत्य तं लोकमिदं समग्रं भीत्या विहीनं भगवान्स कर्ता
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे द्वादशस्य दक्षपुत्रस्य मनोर्वंशानुकीर्तनन्नाम सप्ताशीत्यधिकशततमोऽध्यायः
1.188
शाम्बरायण्युवाच ॥
त्रयोदशस्य रौच्यस्य मनोः पुत्रन्निबोध मे ॥
चित्रसेनो विचित्रश्च नयो धर्मभृतो धृतिः
सुनेत्रो वृक्षवृद्धिश्च सुनयो धर्मयो दृढः ॥
रौच्यस्यैते मनोः पुत्राः शृणुष्व ऋषयो मम
धृतिमानव्ययश्चैव निःप्रकोपो निरुत्सुकः ॥
निर्माणस्तत्त्वदर्शी च दवयायत कीर्तिताः
सुत्रामाणः सुधर्माणः शुभकर्माण एव च ॥
एते शक्र तदा प्रोक्ता देवतानां गणास्त्रयः
एकैकस्मिन्गणे देवा एकादश तदा शुभाः॥
देवेन्द्रश्च तदा तेषां भविष्यति बृहस्पतिः
दायादा बान्धदास्तस्य ये भविष्यन्ति वासव ॥
टिट्टिभो नाम दुष्टात्मा तेषां राजा भविष्यति
तस्यापि भविता मृत्युर्देवदेवाज्जनार्दनात् ॥
मायूरेण च रूपेण सततं पन्नगाशिना
स तु देवासुरे युद्धे सर्परूपेण दुर्मतिः ॥
युद्धं कृत्वा निरुत्साहान्सर्वान्देवगणांस्तथा
निष्प्रयत्नेषु देवेषु मायूरं रूपमाश्रितः॥
घातयिष्यति तं दुष्टं देवदेवो जनार्दनः
महाकलापः सशिखी महात्मा प्रबुद्धनीलोत्पलचारुकण्ठः ॥
तं दानवं तत्र रणे प्रसह्य हत्वा त्रिलोकीं मुदितां हि कर्ता
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे त्रयोदशरौच्यमन्वन्तरवर्णनो नामाष्टाशीत्यधिकशततमोऽध्यायः
1.189
शाम्बरायण्युवाच ॥
चतुर्दशस्य भौत्यस्य शृणु पुत्रान्मनोर्मम ॥
तरङ्गे भेदभिद्बुध्न्यस्तरस्वानुग्र एव च
अभिमानी प्रवीरश्च जिष्णुः संक्रन्दन स्तथा ॥
तेजस्वी सुलभश्चैव भौत्यस्यैते मनोः सुताः
अग्नीध्रश्चातिबाहुश्च मागधश्च तथा शुचिः ॥
अजितो युक्तगोशक्यं ऋषयः सप्त कीर्तिताः
चाक्षुषाश्च कनिष्ठाश्च पवित्रा भजिरास्तथा ॥
वयोवृद्धा देवगणाः पञ्च प्रोक्तास्तु सप्तकाः
तेषामिन्द्रः शुचिर्नाम तस्य दायादबान्धवाः ॥
ये भविष्यन्ति भविता राजा तेषां महासुखः
दिव्यं वर्षसहस्रं तु युद्धं देवासुरं तदा ॥
भविष्यति महाघोरं तस्यान्ते तं महासुरम्
आस्थितं तामसीं मायां घातयिष्यति केशवः ॥
आरूढः कुञ्जरं दिव्यं चरत्पर्वतसन्निभम्
उत्खातपर्वतसमं चक्रेण मधुसूदनः ॥
रथस्थं तं महादैत्यं घातयिष्यति दुर्मतिम्
तस्मिन्हते वासवदेवशत्रौ महाबले कालसमप्रभावे ॥
त्रैलोक्यमेतद्विरुजं समन्तात्तदा भविष्यत्यमलप्रतापम्
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे चतुर्दशभौत्यमनुवर्णनन्नाम नवाशीत्यधिक शततमोऽध्यायः
1.190
शक्र उवाच ॥
अस्मिन्मन्वन्तरे भद्रे गरुडस्य च सम्भवः ॥
मया दृष्टमतीतेषु कथं गरुडवाहनः
असुरान्घातयामास भविष्येषु तथैव च ॥
गरुडं तु समारुह्य घातयिष्यति तत्कथम्
मन्वन्तरान्ते सर्वेषां क्षयो यस्मात्प्रकीर्तितः ॥।
तस्मादेतन्ममाचक्ष्व कुशला ह्यसि धार्मिका
शाम्बरायण्युवाच ॥
देवानामसुराणां च प्रतिमन्वन्तरं यथा ॥
सम्भवस्त्रिदशश्रेष्ठ गन्धर्वाणां तथा स्मृतः
नागानां राक्षसानां च यक्षाणामथ पक्षिणाम् ॥
सुपर्णानां तथा शक्र प्राणिनामप्यशेषतः
सुपर्णानां प्रधानस्तु तत्र मन्वन्तरे तदा ॥
सदैव राजन्भवति गरुडः पततां वरः
वाहनत्वे तथा तस्य देवेशस्य प्रपद्यते ॥
प्रादुर्भावाण्यथोक्तानि यथा विष्णोर्मया तव
तथैव तस्य ज्ञेयानि गरुडस्य महात्मनः ॥
देवास्तु कृतकर्माणः शक्र मन्वन्तरक्षये
त्यक्ताधिकारा गच्छन्ति परलोकमितः प्रभो ॥
तल्लिङ्गाश्च तथा मन्त्रास्तैरेव सहिताः सुरैः
समूहश्चैव मन्त्राणां देवस्त्रिदशपूजितः ॥
शरीरी ब्रह्मसदने स तु नित्यः प्रकीर्तितः
यावज्जीवति वै ब्रह्मा सर्वलोकनमस्कृतः ॥
तदा तु पुरुषं ब्रह्मा देवदेवं प्रपद्यते
त्यक्त्वा शरीरं देवोऽपि पुरुषं प्रतिपद्यते ॥
पुरुषोऽपि महासृष्टिं महाभूतगणं तथा
करोति तद्वदेवेह देवः प्राग्वच्छतक्रतो ॥
एवं सर्वमिदं नित्यं त्वनित्यं वा तवेरितम्
नासतो विद्यते भावो नाभावो विद्यते सतः ॥
उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः
अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् ॥
विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति
तस्याविनाशिनः शक्र सूक्ष्मस्यापि महात्मनः ॥
प्रादुर्भावसहस्राणि समतीतान्यनेकशः
भूयश्चैव भविष्यति नात्र कार्या विचारणा ॥
वैवस्वतेऽस्मिन्देवेश यथा मन्वन्तरे शुभे
प्रादुर्भावानि दृष्टानि मया तस्य महात्मनः ॥
वराहं वामनं चैव तथा शक्र त्रिविक्रमम्
नारसिंहं तथा मात्स्यं कूर्मं हंसं तथैव च ॥
नृवराहं तथा रामं रामं च सुरसत्तम
मान्धातारं पृथुं चैव कार्तवीर्यार्जुनं तथा ॥
धातारं च तथा मित्रं चांशुमर्यमणं तथा
पूषणं च भवन्तं च वरुणं भगमेव च ॥
त्वष्टारं च विवस्वन्तं सवितारं तथैव च
विष्णुं चन्द्रमसं रुद्रं ब्रह्माणं यममेव च ॥
हुताशनं वैश्रवणं शेषं नागेश्वरं तथा
ग्रहमुख्यं बुधं चैव अपः खं पृथिवीं तथा ॥
वायुस्तेजश्च देवेश तथैवान्यानि वासव
प्रादुर्भावसहस्राणि तस्य दृष्टानि यानि ते ॥
मन्वन्तरेष्वतीतेषु तस्यातीतान्यनेकशः
भविष्यन्ति भविष्येषु शतशोऽथ सहस्रशः ॥
मन्वन्तरमथासाद्य चैकमेकं तथा तव
प्रादुर्भावमिदं प्रोक्तं द्विगुणं द्विगुणं यतः ॥
प्रादुर्भावान्यशेषेण वासुदेवस्य चक्रिणः ॥
कः समर्थो भवेद्वक्तुमिह वर्षशतैरपि
एकः स देवो भुवनस्य गोप्ता परः पुराणः पुरुषो महात्मा ॥
तस्यांशमात्रं भुवनं समग्रं भागास्त्रयस्तस्य न वर्णनीयाः
॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शकशांबरायणीसंवादेऽनेकविष्णुप्रादुर्भाववर्णनं नाम नवत्यधिकशततमोऽध्यायः
मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0