विष्णुधर्मोत्तरपुराणम् · अध्याय 1.181.185
1.181
॥ शाम्बरायण्युवाच ॥
चाक्षुषस्य मनोः पुत्रान्षष्ठस्य शृणु वासव ॥
ऊरुः पूरुः शतद्युम्नः तपस्वी सत्यवान्धृतिः
अग्निष्टुदतिरात्रश्च सुद्युम्नश्च तथानघ ॥
हविष्मानुन्नतः श्रीमान्सुधामा विजयस्तथा
अभिमानः सहिष्णुश्च मधुश्रीरृषयः स्मृताः ॥
आढ्याः प्रसूता भाव्याश्च लेखाश्च पृथुकास्तथा
अष्टकाश्च गणाः पञ्च तदा प्रोक्ता दिवौकसाम् ॥
तेषां मनोजवो नाम बभूवेन्द्रः प्रतापवान्
आसंस्तस्यासुरा घोरास्तदा दायादबान्धवाः ॥
येषां बभूव नृपतिर्महामालो बलाधिकः
स कदाचिद्वनं यातो मृगयां पापनिश्चयः ॥
तत्र चन्द्रांशुसंकाशं ददर्शाश्वं मनोहरम्
तमारुरोह दुर्बुद्धिर्मृगाघातचिकीर्षया ॥
तमारूढं समादाय तदा वेगात्तुरङ्गमः
गत्वा पारे समुद्रस्य चिक्षेपोपरि दुर्मतिम् ॥
क्षिप्तमात्रः स दुर्बुद्धिः पवनेनापवाहितः
अनासादिततोयश्च पवनेन स तृह्यते ॥
अद्यापि सुमहातेजा लोकालोकस्य बाह्यतः
अमृत्युवरदानेन स तु पापः स्वयम्भुवः ॥
वायुमार्गं समाश्रित्य न तु प्राणैर्वियुज्यते
एवं स घोरो वरदानदर्पादमृत्युरस्तीति कृतापराधः ॥
देवद्विजानां हयरूपधारी चिक्षेप विष्णुः पवनप्रवाहे
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्र संवादे पष्ठचाक्षुषमन्वन्तरवर्णनन्नामैकाशीत्यधिकशततमोऽध्यायः
1.182
॥ शाम्बरायण्युवाच ॥
अथान्यस्य भविष्यस्य मनोवैर्वस्वतस्य च ॥
सप्तमस्य प्रवक्ष्यामि तव पुत्रान्यशस्विनः
इक्ष्वाकुरथ नाभागो विष्णुः शर्यातिरेव च ॥
अवृध्यतुस्तथा प्रांशुर्महात्मा दिष्ट एव च
करूषश्च पृथुध्रश्च सुद्युम्नश्च मनोः सुताः ॥
अत्रिर्वसिष्ठो भगवाञ्जमदग्निश्च कश्यपः
गौतमश्च भरद्वाजो विश्वामित्रोऽथ सप्तमः ॥
देवा ह्येकोनपञ्चाशन्मरुतः परिकीर्तिताः
द्वावश्विनौ विनिर्दिष्टौ विश्वेदेवास्तथा दश ॥
दशैवाङ्गिरसो देवा ह्येवं देवगणा नव
येषां शक्रस्तु मोजंबी नाम्ना शत्रुक्षयङ्करः ॥
घोरास्तथापि ये त्वासन्दैत्या दायादबान्धवाः
तेषां बभूव नृपतिर्हिरण्याक्षो महाबलः ॥
नृवराहेण वपुषा तं जघान हरिः पुरा
दैत्येश्वरं तं सुरसंघभीमं महाबलं पर्वतमात्रकायम् ॥
जघान चक्रेण हरिः प्रसह्य रूपं समास्थाय वराहशीर्षम्
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे सप्तमवैवस्वतमन्वन्तरवर्णनन्नाम द्व्यशीत्यधिकशततमोऽध्यायः ॥
1.183
शक्र उवाच ॥
अस्मिन्कल्पे महाभागे भविष्या मनवस्तु ये ॥
तेषां पुत्रान्नृषीन्देवाञ्छक्र दायादबान्धवान्
तस्य घातं तथा कृष्णात्सर्वमेतत्प्रकीर्तय ॥
सर्वज्ञकल्पा भवती दिव्यज्ञाना मता मम
शाम्बरायण्युवाच ॥
अष्टमस्य भविष्यस्य सावर्णस्य मनोः सुतान् ॥
कथयिष्यामि ते शक्र महाबलपराक्रमान्
विजयश्चावरीवांश्च निर्दोहस्सत्यवाक्कृतिः ॥
चरिष्णुश्चाप्यधृष्णुश्च वाचः समतिरेव च
सावर्णस्य मनोः पुत्रानृषींश्चैव निबोध मे ॥
अश्वत्थामा कृपो व्यासो गालवो दीप्तिमानथ
ऋष्यशृङ्गस्तथा राम ऋषयः परिकीर्तिताः ॥
सुतपा अमृताभाश्च आत्रेयाश्च गणास्त्रयः
सर्वे विंशतिभिर्देवगणैर्युक्ता महात्मनाम् ॥
येषामिन्द्रो भविष्यस्तु बलिर्दानवसत्तमः
त्वत्कृते देवदेवेन बद्धो यस्त्रिदशेश्वरः ॥
दायादा बान्धवास्तस्य न भविष्यन्ति वासव
शक्रत्वं तेन कर्तव्यं मन्वन्तरमकण्टकम् ॥
देवदेवकरन्यस्तं दानमेत न्महासुरः
त्रैलोक्यराजा भवति सावर्णस्यान्तरे मनोः ॥ ॥
तस्मिन्मन्वन्तरे प्राप्ते हिमशैलालयो बली
भविष्यति दुराचारो नानोलो नाम राक्षसः ॥
ब्रह्मलब्धवरो रौद्रस्त्रैलोक्योत्सादने रतः
तं वधिष्यति धर्मात्मा विष्णुर्गरुडवाहनः ॥
चक्रेण शतधारेण जगतां हितकाम्यया
दंष्ट्राकरालं विकटोग्रवेषं नीलाञ्जनाभं भयदं त्रिलोके ॥
चक्रेण देवः प्रविदार्य कर्ता लोकं समग्रं भयविप्रयुक्तम्
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शक्रशाम्बरायणीसंवादेऽष्टमसावर्णिमन्वन्तरवर्णनन्नाम त्र्यशीत्यधिकशततमोऽध्यायः
1.184
शांबरायण्युवाच ॥
ब्रह्मपुत्रस्य तु मनोर्नवमस्य सुताञ्छृणु ॥
धृतिकेतुर्दीप्तिकेतुः पञ्चहस्तो निराकृतिः
पृथुश्रवा बृहद्द्युम्न ऋचीको बृहतां गणः ॥
ब्रह्मपुत्रस्य ते पुत्रा ऋषयश्च निबोध मे
मेधातिथिर्द्युतिश्चैव सवनो वसुरेव च ॥
ज्योतिष्मान्हव्यसत्यौ च ऋषयः परिकीर्तिताः
पारा मरीचिगर्भाश्च स्वधर्माणश्च ते त्रयः ॥
गणा द्वादशकाः प्रोक्ता येषामिन्द्रो भविष्यति
विभुर्नाम महातेजाः सर्वदेवेश्वरो वली ॥
दायादा बान्धवास्तस्य ये भविष्यन्ति धार्मिकाः
कालकक्ष इति ख्यातास्तेषां राजा भविष्यति ॥
तस्मिन्मन्वन्तरे राजा वसुनाभो भविष्यति
पुत्रस्तु भावता तस्य वासुदेवो महीपतिः ॥
चक्रवर्ती महातेजाः पद्मनाभ इति श्रुतः
देवासुरे तु संग्रामे कालकाक्षं रणोत्कटम् ॥
नरवध्यं महातेजाः पद्मनाभो वधिष्यति
शरेण जाम्बूनदभूषितेन ब्रह्मास्त्रयुक्तेन रणप्रचण्डम्॥
हत्वासुरं कालसमप्रभावं राजा स लोकस्य भयं निहन्ता
॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शक्रशाम्बरायणी संवादे नवमब्रह्मपुत्रमनन्वन्तरवर्णनन्नाम चतुरशीत्यधिकशततमोऽध्यायः १८४॥
1.185
शाम्बरायण्युवाच ॥
धर्मपुत्रस्य तु मनोर्दशमस्य सुताञ्छृणु ॥
सुक्षेत्र उत्तमौजाश्च भूरिशोणश्च वीर्यवान्
शतानीको निमिर्मित्रो वृषसेनो जयद्रथः ॥
भूरिद्युम्नः सुवर्मा च धर्मपुत्रमनोः सुताः
आपोमूर्तिर्हविष्मांश्च सृतिकिश्चाव्ययस्तथा ॥
नाभागः प्रमितश्चैव सौरभा ऋषयस्तथा
प्राणाख्याः शतसंख्याश्च देवतानां गणास्तथा ॥
भविता तस्य भविता शान्तिरिन्द्रः प्रतापवान्
दायादाबान्धवास्तस्य भविष्यन्त्यसुराश्च ये ॥
तेषां च भविता राजा बाली नाम महासुरः
द्योतयिष्यति तं विष्णुर्गदया भीमवेगया ॥
देवासुरे तु संग्रामे देवानां हितकाम्यया
गदानिपाताभिहते सुरेन्द्रे महाबले देववरेण तेन ॥
त्रैलोक्यमेतद्भविता समग्रं विनष्टदोषं सुरविप्रजुष्टम्
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शक्रशाम्बरायणीसंवादे दशमधर्मपुत्रमन्वन्त्ववर्णनं नाम पञ्चाशीत्यधिकशततमोऽध्यायः ॥
मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0