विष्णुधर्मोत्तरपुराणम् · अध्याय 1.176.180
1.176
॥ इन्द्र उवाच ॥
यस्मिन्काले व्यतीता ये षडिन्द्रा भूरितेजसः ॥
तेषां चरितमिच्छामि श्रोतुं विस्तरशः शुभे
प्रति शक्रं मनुं भद्रे मनुपुत्रांस्तथैव च ॥
देवान्सप्तऋषींश्चैव तथा दायादबांधवान्
शक्रस्य तेषां च वधं तथा देवाज्जनार्दनात् ॥
त्वत्तोहं श्रोतु मिच्छामि सर्वं त्वं वेत्सि सुन्दरि
शाम्बरायण्युवाच॥
ब्रह्मणो मानसः पुत्रः प्रथमस्तु मनुः स्मृतः ॥
दश पुत्राश्च तस्येमे ख्यातास्त्रिभुवनेश्वर ॥
अग्नीध्रश्चातिबाहुश्च मेधा मेधातिथिर्वसुः ॥
ज्योतिष्मान्द्युतिमान्हव्यः सवनः सत्र एव च
मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः ॥
वसिष्ठश्च महातेजा ऋषयः सप्त कीर्तिताः
जयाख्याश्चाजिताख्याश्च शुक्रयामास्तथैव च ॥
गणा द्वादशका एते चत्वारः सोमपीथिनः
विश्वभुङ्नाम देवानां तेषामिन्द्रो बभूव ह ॥
आसंस्तस्यासुरा घोरास्तदा दायादबान्धवाः
बभूव नृपतिर्येषां बाष्कलो नाम नामतः ॥
यस्य हस्तादुभौ लोकौ वामनेन हृतौ पुरा
क्रमद्वयेन तु हृतं पातालं च सुरेश्वर ॥
यस्य पुत्रवतस्त्वासीत्केशी नाम बलोत्कटः
जहार भूयस्त्रैलोक्यं शक्रस्याक्रम्य दुर्मतिः ॥
तमाहूय रणे विष्णुस्तार्क्ष्यप्रवरवाहनः
द्विधा चकार चक्रेण त्रैलोक्यहितकाम्यया
एवं हतस्तेन पुरारिमुख्यो महात्मना कालसमप्रभावः ॥.
शक्रप्रियार्थं जगतां हितार्थं देवेश्वरेणाप्रतिमेन तेन
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शाम्बरायणीवाक्ये प्रथममन्वंतरवर्णनं नाम षट्सप्तत्यधिकशततमोऽध्यायः
1.177
॥ शाम्बरायण्युवाच ॥
मनुः स्वारोचिषो नाम बभूव तदनन्तरम ॥
यस्यासन्सुमहाभागाः पुत्रा भूमण्डलेश्वराः
चैत्रः कविरुतश्चैव कृतान्तो विद्युतो रविः ॥
बृहद्ग्रहो नभश्चैव महाबलपराक्रमः
ऊर्जस्तस्य तथा प्राण ऋषभो निश्चलस्तथा ॥
दन्तोभिः शाक्वरीवांश्च ऋषयः सप्त कीर्तिताः
भूषिता द्वादश प्रोक्तास्तथा पारावताश्च ये ॥
तेषामिन्द्रो विपश्चिच्च महात्मा लोकविश्रुतः
आसंस्तस्यासुरा घोरास्तदा दायादबान्धवाः ॥
तेषामासीत्तदा राजा पुरुकुत्सो बलाधिकः
शक्रस्य विप्रियासक्तो मृगयायै वनङ्गतः ॥
व्यधमत्कुञ्जरान्मत्तान्बहुवीर्यसमाश्रयः ॥
हस्ती भूपालसचिवः स जघान हरीन्वने
जघान सः शैल इवातिवर्ष्मा नीलाञ्जनाभो रचिताग्रहस्तः ॥
जघान तं दैत्यवरं प्रसह्य देवासुराणां समरेष्ववध्यम्
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शक्रम्प्रति शाम्बरायण्युपाख्याने द्वितीयमन्वन्तरकथावर्णनन्नाम सप्तसप्तत्यधिकशततमोऽध्यायः
1.178
॥ शाम्बरायण्युवाच ॥ ॥
औत्तमस्य मनोः पुत्रास्तृतीयस्य निबोध मे ॥
अजश्च परशुश्चैव देवदेवो वृधो नयः
देवावृधश्चाप्रतिमो महोत्साहो गजस्तथा ॥
विनीतश्च सुकेतुश्च सुमित्रः सुबलः शुचिः
अतः परं प्रवक्ष्यामि ऋषयः सप्त वै तदा ॥
रजोबाहूर्ध्वबाहू च सवनश्चानघश्च यः
सुतपाः शक्तिरित्येते ऋषयः सप्त कीर्तिताः ॥
वशवर्तिनः स्वधासानो वशा सत्यहा मतार्दनाः
पञ्च देवगणाः प्रोक्ताः सर्वे द्वादशकास्तु ते ॥
तेषां सुचित्तिर्नामाऽभूच्छक्रः परपुरञ्जयः
आसंस्तस्यासुरा घोरास्तदा दायादबान्धवाः ॥
येषामासीद्बली राजा प्रलम्बो नाम नामतः
शक्रस्य विप्रियासक्तं तं समुद्राम्बुवाहिनम् ॥
मत्स्यरूपधरो विष्णुर्ग्रस्तवान्बलवत्तरम्
कालानलाभं तु विदेशशत्रुं रूपेण मात्स्येन जगत्प्रचारः ॥
जघान तं पर्वतकूटमात्रं समुद्र मध्ये शरदानतृप्तम्
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे तृतीयमन्वन्तरवर्णनन्नामाष्टसप्तत्यधिकशततमो ऽध्यायः
1.179
॥शाम्बरायण्युवाच ॥ ॥
तामसस्य मनोः पुत्रांश्चतुर्थस्य निबोध मे ॥
जानुजङ्घः शान्तभयो नरः ख्यातिर्नरस्तथा
प्रियभृत्यो ह्यविक्षिच्च प्रस्थिलश्च दृढेषुधिः ॥
कृतश्च कृतगन्धश्च तामसस्य मनोः सुताः
ऋषिर्वनः कठीयान्वै गात्रश्चैत्रोऽग्निरेव च ॥
ज्योतिर्वासाः पृथुः कार्य ऋषयः सप्त कीर्तिताः
सत्याः सुपादाः सुरिहा हरश्चेति प्रकीर्तिताः ॥
देवतानां गणा एते चत्वारः पञ्चविंशकाः
सत्यानामपि भेदौ द्वौ सत्या विश्वाश्च कीर्तिताः ॥
सत्या द्वादश निर्दिष्टा विश्वा प्रोक्तास्त्रयोदश
तेषामासीन्महातेजा शिबिरिंद्रः प्रतापवान्॥
आसंस्तस्यासुरा घोरास्तदा दायादबान्धवाः
येषामासीन्महातेजा राजा भीमरथः प्रभुः ॥
प्रसाद्य येन ब्रह्माणमवध्यत्वं स्थले वृतम् ॥
जलं स वर्जयामास ततः प्रभृति दुर्मतिः ॥
स ददर्श मरौ कूर्मं पर्वताकारदर्शनम्
तमारुरोह दुर्बुद्धिः कौतूहलसमन्वितः ॥
समारूढं महाकायमादाय भगवान्हरिः
कूर्मरूपधरो वेगात्पातालजलमाविशत् ॥
पातालजलमानीय मज्जयित्वा जघान तम् ॥
आक्रम्य तं महाकायं महता कूर्मवर्ष्मणा
एवं स कूर्मेण जले प्रसह्य देवेश्वरस्याप्रतिमस्य शत्रुः ॥
निपातितः सर्वसुरप्रधानः सर्वेश्वरेणा प्रतिमेन तेन
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे चतुर्थतामसमन्वन्तरवर्णनन्नामैकोनाशीत्यधिकशततमोऽ ध्यायः
1.180
शाम्बरायण्युवाच ॥
रैवतस्य मनोः पुत्रान्पञ्चमस्य निबोध मे ॥
महापुराणः सम्भाव्यः प्रत्यङ्गः परहा शुचिः
चलबिन्दुर्निरामित्रः केतुशृंगो दृढव्रतः ॥
रैवतस्य मनोः पुत्रा ऋषयस्तस्य वच्मि ते
वेदश्रुतिर्वेदबाहुरूर्ध्वबाहुर्यजुस्तथा ॥
हिरण्यरोमा पर्जन्यः सत्यनेत्रस्तथैव च
आभूतराजसश्चैव तथा देवाः सुमेधसः ॥
वैकुण्ठाश्चामृताश्चैव चत्वारो देवतागणाः
एकैकस्मिन्गणे देवाः कथितास्तु चतुर्दश ॥
तेषामिन्द्रो विभुर्नाम लोके विख्यातविक्रमः
आसंस्तस्यासुरा घोरास्तदा दायादबान्धवाः ॥
तेषामसीन्महातेजाः शंभुर्नाम महेश्वरः
ब्रह्मलोकेन मरणं वृतं येन पितामहात् ॥
स कदाचिन्महाकायं समुद्रजलचारिणम्
हंसं दृष्ट्वैव जग्राह तञ्चारोहति दुर्मतिः ॥
आरूढमात्रमादाय ब्रह्मलोकं जगाम सः ॥
हंसरूपेण तत्रैव जघान भगवान्हरिः
एवं स हंसेन हतो महात्मा सर्वेश्वरेणाप्रतिमेन तेन ॥
महाबलः पर्वतमात्रकायः सुरान्तकारी समरेष्वजेयः
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे इन्द्रशाम्बरायणीयसंवादे पञ्चमरैवतमन्वन्तरवर्णनन्नामाशीत्यधिकशततमोऽध्यायः
मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0