विष्णुधर्मोत्तरपुराणम् · अध्याय 1.171.175
1.171
॥ वज्र उवाच ॥ ॥
स तु राजा मया ब्रह्मन्मांधाता भुवनेश्वरः ॥
माहेश्वरेण शूलेन लवणेन हतः श्रुतः
मार्कण्डेय उवाच ॥
अजेयं वैष्णवं तेजस्तत्र नित्यं च जन्तुषु ॥
नाशमायान्ति ते सर्वे हीना वैष्णव तेजसा
अविनाशि जगत्यस्मिन्न किञ्चिदथ विद्यते ॥
ऋते तु महतस्तस्मात्तेजसो नृप वैष्णवात्
तेजस्तस्य सुदुर्वाह्यं देहिभिर्नप सर्वदा ॥
तस्मात्तेन विहीनास्ते क्षयं गच्छन्ति मानद
मत्स्यः कूर्मो वराहश्च नरसिंहोऽथ वामनः ॥
ब्रह्मा शम्भुस्तथैवार्कश्चन्द्रमाश्च शतक्रतुः
एवमाद्यास्तथैवान्ये युक्ता वैष्णवतेजसा ॥
गजच्छायानुमानेन वियुज्यन्ते च तेजसा
वितेजसश्च ते सर्वे पञ्चत्वमुपयान्ति च ॥
पञ्चभूतात्मकं स्थूलं यत्किञ्चिज्जगतीगतम्
सर्वं विनाशि तज्ज्ञेयं त्वया पार्थिवसत्तम ॥
अविनाशि तु तद्विद्धि येन विश्वमिदं ततम्
यत्तु गन्धगुणैर्हीनं रूपस्पर्शविवर्जितम् ॥
शब्दहीनं च विरसं सर्वेशं सर्वगं च यत्
निर्गुणं तद्गुणातीतमन्तिकस्थं च दूरगम् ॥
सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम्
सर्वतः पाणिपादान्तं सर्वतोऽक्षिशिरोमुखम् ॥
सर्वेन्द्रियगुणं देवं सर्वतः परमेश्वरम्
अविनाशि तदेवैकं यस्योदरगतं जगत् ॥
सदाशिवेति तं केचिदाहुर्देवं जगत्पतिम्
वासुदेवेति चाप्यन्ये कालमित्येव चापरे॥
देवमित्यपरे तं च स्वभावमिति चापरे
कर्मेति चापरे प्राहुः पुरुषेति तथा परे ॥
प्रणवाख्यं तथा तं च विदुर्वेदविदो जनाः
तदेकमजमव्यक्तमविनाशं नराधिप ॥
ऋते तमेकमीशानमंतवत्सकलं जगत्
एतत्तवोक्तं भुवनस्य पत्युर्मया स्वरूपं यदुवंशचन्द्र ॥
भक्तिं विना बुद्धिमतापि यस्य शक्यं न वक्तुं ग्रहणं नरेण
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसम्वादे पुरुष स्वरूपवर्णनं नामैकसप्तत्यधिकशततमोऽध्यायः
1.172
॥ वज्र उवाच ॥
प्रादुर्भावा वराहाद्याः सर्वेशस्यामितात्मनः ॥
महाभूतचयाः सर्वे जन्ममृत्युयुताश्च ये
यद्येवं प्राणिभिस्तेषां को विशेषो भृगूत्तम ॥
एतत्त्वं संशयं छिन्धि परं कौतूहलं हि मे
मार्कण्डेय उवाच ॥
सर्वे जीवा महीपाल कर्मबन्धनिबन्धनाः ॥
जायन्ते च म्रियन्ते च परतन्त्राः सदैव च
ईश्वरप्रेरितैर्नित्यं कर्मबन्धैः शुभाशुभैः ॥
जन्मान्तरकृतैर्भूप सुखदुःखसमन्विताः
वासुदेवस्तु धर्मात्मा प्रादुर्भावेषु यादव ॥
आत्मनः स्वेच्छया जन्म विधत्ते मरणं तथा
कर्माणि न च लिम्पन्ति प्रादुर्भावेष्वपि प्रभुम् ॥
कर्मस्वपि सदा सक्तं पद्मपत्रमिवाम्भसा
फलानां कर्मजातानां भोगं तत्रापि यादव ॥
नृणां दर्शयते मिथ्या मर्यादाभेदभीर्नृप
यदायदा हि धर्मस्य ग्लानिर्भवति यादव ॥
अभ्युत्थानमधर्मस्य तदात्मानं सृजत्यसौ
देवतिर्यङ्मनुष्येषु गन्धर्वोरगपक्षिषु ॥
योनिष्वन्येष्वपि तथा बुद्ध्वा कार्यबलाबलम्
यस्यां यस्यां यदा योनौ प्रादुर्भवति कारणात् ॥
तद्योनिसदृशं तत्स तदा लोके विचेष्टते
संहर्तुं जगदीशानः समर्थोऽपि तदा नृप ॥
तद्योनिसदृशोपायैर्वध्यान्हिंसति यादव
हार्दं तमस्तथा नैशं मूर्तं च पुरुषोत्तमः ॥
एक एव स लोकानां नाशयत्यमलद्युतिः
हार्दं ध्वस्तं तमस्तेन जगतो देवमूर्तिना ॥
ज्योतीरूपेण च ध्वस्तं तमो नैशं सुदारुणम्
तमो नाशयितुं मूर्तं प्रादुर्भावगतः सदा ॥
मूर्तं तमश्च राजेन्द्र दैत्यदानवराक्षसाः
वन्ध्यानामपि दैत्यानां देहस्थोऽपि जनार्दनः ॥
न विमुञ्चति देहानि युक्त्या तांश्च जिघांसति
दैवतानां गुरूणां च द्विजानां च गुरुप्रियः ॥
शास्त्रदृष्टेन विधिना भवत्याराधने रतः
न च तस्यास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन ॥
नैवानाप्तमवाप्तव्यं वर्ततेऽथ च कर्मसु
सर्वज्ञः सर्वदर्शी च सर्वशक्तिरपि प्रभुः ॥
तथाप्यधीते यजते तपस्तप्यति पार्थिव
मर्यादास्थापनार्थाय जगतो हितकाम्यया ॥
करोति राजन्कर्माणि कीनाश इव दुर्बलः
यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः ॥
स यत्प्रमाणं कुरुते लोकस्तदनु वर्तते
एतत्कारणमास्थाय सदा कर्मसु वर्तते ॥
प्रादुर्भावकृतो विष्णुर्यथान्यः प्राकृतस्तथा
देवेभ्यश्च ऋषिभ्यश्च वरान्प्रार्थयते सदा ॥
वरांश्च वरदस्तेषां मानयत्यपि पाण्डव
प्रादुर्भावरतस्तस्मात्परोऽयमिति मानवाः ॥
पुरुषं नाधिगच्छन्ति मोहितास्तस्य मायया
प्रादुर्भावं गतोऽप्येवं संहत्य स चराचरम् ॥
निमेषान्तरमात्त्रेण शक्तिमाञ्जगतः प्रभुः
प्रादुर्भावगतस्यापि तस्य सर्वगता स्मृता ॥
स्वतन्त्रता च सर्वत्र नात्र कार्या विचारणा
महद्विशेषमेतत्ते प्राणिभिः प्राणिनां पतेः ॥
मयोक्तं तस्य देवस्य सर्वगस्य स्वयम्भुवः
आक्षिप्ताः कर्मभिः पुण्यैः कैश्चिद्यदुवरोत्तम ॥
तेषामाविशते देवस्तेजसा तेन सर्वशः
आविष्टास्तेजसा तेन देवेन परमेष्ठिना ॥
तद्वत्कर्माणि कुर्वन्ति पूज्यमाना महर्षिभिः
तथा तु काले संन्यस्तास्तेन वैष्णवतेजसा ॥
दिष्टान्तवशमायान्ति तस्यैव रुचितं यथा
ये च केचन लोकेऽस्मिन्दृश्यन्ते तेजसान्विताः ॥
तेषां तद्वैष्णवं तेजस्त्वया ज्ञेयं महीपते
यच्चन्द्रमसि यच्चाग्नौ यच्च सूर्ये जगत्पतौ ॥
तेजः पश्यति तत्सर्वं वैष्णवं विद्धि पार्थिव
अगस्त्यप्रमुखानां च या च शक्तिरतीन्द्रिया ॥
तत्स्थस्य राजन्सा ज्ञेया त्वया वैष्णवतेजसा
यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा ॥
तत्तदेवावगच्छ त्वं युक्तं वैष्णवतेजसा
ब्राह्मणानां सुराणां च साध्वीनां च तथा गवाम् ॥
जगतां धारिणीं शक्तिं विद्धि तां वैष्णवीं विभो
राजानस्तेजसा युक्ता वैष्णवेन वसुन्धराम् ॥
पालयन्ति महीपाल वीर्योदग्रा यशस्विनः
ऋषयश्च तथा विप्रा वेदवेदाङ्गपारगाः ॥
पालयन्ति जगत्कृत्स्नं युक्ता वैष्णवतेजसा
त्रेतायुगादौ ये केचिज्जायन्ते चक्रवर्तिनः ॥
गुरुणा विद्धि तान्सर्वान्संयुक्तान्विष्णुतेजसा
आजानुबाहवः सर्वे न्यग्रोधपरिमण्डलाः ॥
जिह्वया सकलं वक्त्रं परिमार्जन्ति ते तथा
षष्ट्या दन्तैश्च संयुक्ता दंष्ट्राभिश्च तथाष्टभिः ॥
और्णेयं च शुभं तेषां भवत्यन्तर्भ्रुवोर्नृप
चक्राङ्कितैः पादतलैः करैश्चापि शराङ्कितैः ॥
जालपादकराश्चैव तथा तुरगमेहनाः
रूपवन्तः प्रभावन्तो वपुष्मन्तश्च यादव ॥
अतीन्द्रियज्ञानबलाः पृथिव्यां चक्रवर्तिनः
तेषां तु सप्त रत्नानि भवन्तीह महीतले॥
हस्त्यश्वरथरत्नानि भार्यारत्नं तथैव च
तथैवायुधरत्नं च मणिरत्ननिधिस्तथा ॥
चतस्रश्चाप्रतिहतास्तेषां तु गतयस्तथा
पाताले गगने शैले समुद्रे च महीपते॥
समुद्रः स्तम्भितजलः प्रयाणे चक्रवर्तिनाम्
भूसमाश्च तथा शैला मार्गे तेषां भवन्ति तु ॥
भूमिर्ददाति विवरं पातालमुपयास्यताम्
न विषीदन्ति गगने तथा तेषां तुरङ्गमाः ॥
श्रुतेन तपसा यज्ञैर्वीर्येणास्त्रबलेन च
सर्वेभ्यस्तेऽतिरिच्यन्ते प्राणिभ्यो मनुजेश्वर ॥
आराधितजगन्नाथाः प्राप्नुवन्तीह तत्पदम्
वर्षायुतानि जीवन्ति षडष्टौ सप्त वा नृप ॥
तेषां च तेजसा विष्णुः करोत्याप्यायनं सदा
येन ते कथितं सर्वं प्राप्नुवन्ति गुणोदयम् ॥
स्थानान्तरगतेनापि तेऽपि वैष्णवतेजसा
संहारमुपगच्छन्ति क्षयकाल उपस्थिते ॥
क्षयकाले च मान्धातुस्तेजस्तदतिदुःसहम्
वैष्णवं शूलिशूलाग्रमाश्रयामास यादव ॥
अर्जुनस्य नरेन्द्रस्य युक्तस्य हरितेजसा
हरिरेवान्तकृच्चासीद्रामो भृगुकुलोद्वह ॥
भार्गवस्य च रामस्य तेजस्तदतिदुःसहम्
आदत्ते वैष्णवं घोरं रामो दशरथात्मजः ॥
काञ्चित्तनुमधिष्ठाय तेन घोरेण तेजसा
करोति देवकार्याणि कृतकर्मा ततः प्रभुः ॥
आदानं तेजसस्तस्य विधत्ते स स्वतेजसा
नान्यः शमयिता लोके नृप वैष्णवतेजसः
तस्यावतारेषु मया स्वरूपमेतत्तवोक्तं भुवनस्य पत्युः ॥
रहस्यमेतत्परमं मुनीनां ज्ञानामृतं कल्मषनाशकारि
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसम्वादे प्रादुभावस्वरूपवर्णनं नाम द्विसप्तत्यधिकशततमोऽध्यायः
1.173
वज्र उवाच ॥
युवनाश्वेन यद्राज्ञा पुत्रीयं तु कृतं व्रतम् ॥
तमहं श्रोतुमिच्छामि जनानां हितकाम्यया
मार्कण्डेय उवाच ॥
पुत्रीयं ते प्रवक्ष्यामि व्रतं भूपाल सत्तम ॥
अनन्तव्रतमित्युक्तं सेवतां पुत्रजन्मदम्
मासिमासि तु नक्षत्रं मासनाम्ना तु चिह्नितम् ॥
सम्प्राप्य पूजयेद्देवं सोपवासो नरोत्तम
एकैकमङ्गं देवस्य प्रतिमासं विशेषतः ॥
पूजयेत्प्रयतः शुद्धः शृणु चाङ्गक्रमं मम
मार्गशीर्षादथारभ्य व्रतमेतत्समारभेत् ॥
देवस्य मार्गशीर्षे तु वामं जानुं समर्चयेत्
कटिभागं तथा वामं पौषे मासि समर्चयेत् ॥
माघे मघासु वामं च भुजं देवस्य पूजयेत्
उत्तराफल्गुनीऋक्षे स्कन्धं वामं प्रपूजयेत् ॥
चतुर्ष्वेतेषु वामेषु गोमूत्रस्नानमाचरेत्
पूजनं देवदेवस्य रक्तैः पुष्पादिभिस्तथा ॥
होमो घृतेन कर्तव्यस्तिलदानं द्विजातिषु
ताम्रस्य च तथा दानं गोमूत्रप्राशनं ततः ॥
हविष्यान्नेन चाहारं ततः कार्यं विजानता
देवस्य दक्षिणं स्कन्धं चैत्रे चित्रासु पूजयेत् ॥
वैशाखे च विशाखासु बाहुं देवस्य दक्षिणम्
दक्षिणं कटिभागं च ज्येष्ठे ज्येष्ठासु पूजयेत् ॥
दक्षिणं च तथा जानुमाषाढे वैश्वदेवके ५१ १॥
चतुर्ष्वेतेषु मासेषु क्षीरस्नानं विधीयते ॥
पीतपुष्पादिपूजा च देवदेवस्य चक्रिणः
होमं च शालिभिः कुर्याद्यवा देया द्विजातिषु ॥
रजतं च तथा देयं यथान्नेन भुजिक्रिया
तथा कार्या मनुष्येन्द्र श्रावणेश्रावणे ततः ॥
पादादौ पूजयेत्तस्य यस्येदं सकलं जगत्
गुप्तं भाद्रपदे मासि आश्विने हृदयं ततः ॥
शिरसः पूजनं कार्यं कार्तिके कृत्तिकासु च
चतुर्ष्वेतेषु एतेषु मासेषु दध्ना स्नानं विधीयते ॥
पूजनं देवदेवस्य शुक्लैः पुष्पादिभिस्तथा
क्षीरेण होमः कर्तव्यो घृतं देयं द्विजातिषु ॥
सुवर्णं तु तथा राजन्दध्ना कार्यां भुजिक्रिया
अनन्तनाम जप्तव्यं सर्वमासेषु पार्थिव॥
तेनैव नाम्ना देवस्य होमकर्माणि निर्दिशेत्
व्रतावसाने दातव्यं ब्राह्मणेभ्यस्तु भोजनम् ॥
दानं शक्त्या च दातव्यं ब्राह्मणेभ्यो नराधिप
संवत्सरादवाप्नोति सर्वानेव मनोरथान् ॥
पुत्रार्थिभिर्वृत्तिकामैर्भृत्यदारधनेप्सुभिः
प्रार्थयद्भिश्च कर्तव्यं बलमारोग्यसम्पदम् ॥
एतद्व्रतं महाराज पुण्यं स्वस्त्ययनं परम्
अनन्तव्रतमित्युक्तं सर्वकल्मषनाशनम् ॥
व्रतमेतत्पुरा कृत्वा युवनाश्वो महीपतिः
मान्धातारं सुतं लेभे राजानं चक्रवर्तिनम् ॥
कृतवीर्यस्य राजेन्द्र भार्या शीलधरा तथा
व्रतेनानेन सा लेभे पुत्रं बाहुसहस्रिणम् ॥
कार्तवीर्यार्जुनं नाम राजानं चक्रवर्तिनम्
यमाविवेश भगवांस्तेजसा स्वेन माधवः ॥
नमस्ते कार्तवीर्याय अर्जुनाय महात्मने
सप्तद्वीपसमुद्रायां मेदिन्यामीश्वराय च ॥
एतावदुक्ता पुण्येन तिलप्रस्थस्य युज्यते
राजन्दत्तस्य विधिवद्ब्राह्मणाय यतात्मने ॥
यस्य वै जातमात्रस्य प्रववावनिलः शुभः
नीरजस्कमभूद्व्योम मुदं प्रापाखिलं जगत्॥
समाश्रयार्थं नृपतिं दैत्या मानुष्यतां गताः
आश्रयामासुरव्यग्राश्शतशोऽथ सहस्रशः ॥
यस्मिन्राजन्वतीवार्ता भूमिर्भारावपीडिता ॥
दधार कृच्छ्रेणात्मानं जलाविलवपुर्नृप
पुत्रीयमेतत्तव राजसिंह मया व्रतं ते कथितं पुराणम् ॥
कर्तव्यमेतद्भुवि पुत्रकामैः पापापहं धर्मविवर्धनं च
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादेऽनन्तव्रतमाहात्म्यवर्णनो नाम त्रिसप्तत्युत्तरशततमोऽध्यायः
1.174
॥ मार्कण्डेय उवाच ॥
इदमन्यत्प्रवक्ष्यामि मासनक्षत्रपूजनम् ॥
यत्फलं देवदेवस्य पुरुषः समुपाश्नुते
आरभ्य कार्तिकादेतद्व्रतं कार्यं विजानता ॥
पारणत्रितयेनैतद्व्रतं परिसमाप्यते
चातुर्मास्यं तथैवात्र पारणं नृप कीर्तितम् ॥
पारणेपारणे राजन्प्रतिमासविधिं शृणु
पञ्चगव्यजलस्नानं सदैव च समाचरेत् ॥
पुष्पादिपूजा कर्तव्या यथालाभमुपाहृतैः
नैवेद्यं कृसरं पूर्वमत्र मासचतुष्टयम् ॥
यावकेन तथा कार्यं मध्यमं च चतुष्टयम्
चतुष्टये तृतीये च नैवेद्यं पायसं भवेत् ॥
तेनैवान्नेन राजेन्द्र ब्राह्मणान्भोजयेद्बुधः
नक्तं नैवेद्यमश्नीयाद्वाग्यतः सुसमाहितः ॥
संयतस्तां भवेद्रात्रिं तथा स्थण्डिलशायकः
एवं कुर्यात्पुनस्तावद्यावत्कार्तिककृत्तिका ॥
तत्र सम्पूज्य देवेशमारम्भ विधिना नृप
भाजनं घृतसंपूर्णं सहिरण्यं द्विजातये ॥
दातव्यं भोजनं कार्यं ब्राह्मणानां विशेषतः
संवत्सरमिदं कृत्वा व्रतं पुरुष सत्तमः ॥
लब्ध्वा स्थानं च मोदेत तथा नारी च यादव
स्थिरां श्रियं धर्ममतिं बलं च सौभाग्यमोजः स्थिरसत्त्वतां च ॥
आस्थां सुदीर्घां त्रिदिवे च कुर्याद्व्रतं नृणामेतदतीव पुण्यम्
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे मासनक्षत्रपूजनं नाम चतुस्सप्त त्यधिकशततमोऽध्यायः
1.175
॥ मार्कण्डेय उवाच ॥
अत्र ते वर्णयिष्यामि कथां पापप्रणाशिनीम् ॥
स्वर्गे वृत्तां समाश्रित्य मासनक्षत्र पूजनम्
पूर्वैस्तु चरितं शक्र नाहं जानामि किञ्चन ॥
भवतः समकालीनं विद्धि मां सुरसत्तम
इयं सिद्धा विजानाति प्रख्याता शाम्बरायणी ॥
एवमुक्तस्ततः शक्रः पप्रच्छ बलसूदनः
जगाद सा च शक्रस्य पूर्वेन्द्रचरितं महत् ॥
शक्राणां सा व्यतीतानां शतशोऽथ सहस्रशः
जगाद तत्र चरितं कल्पेष्वन्येष्वपि प्रभो ॥
शाम्बरायण्युवाच ॥
सर्वेषामपि शक्राणां ये तु दायादबान्धवाः
सर्वे विनाशितास्तेन विष्णुना प्रभविष्णुना ॥
सर्वे शक्रास्तथा युक्तास्तेन वैष्णवतेजसा
भूतेभ्यस्त्वतिरिच्यन्ते तेन ते गुणसम्पदः ॥
दानेन यज्ञैः शौर्येण तपसा च बलेन च
श्रुतेन धर्मिष्ठतया देवदैत्यमहोरगान् ॥
ऋषयश्च महाभागास्तेपि पार्थिवसत्तम
वरं सम्पावनं तैश्च कृतं सर्वं स्वयंभुवा ॥
पराजयं यतः प्राप्ता दायादेभ्यः पुनःपुनः
सर्वेश्वरा वीर्यबलोपपन्ना धर्मे निविष्टा जगतः प्रधानाः ॥
त्यक्ताधिकाराश्च ततः क्रमेण सर्वे गता विष्णुसहायतां च
इति विष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शक्रचरिताख्यानं नाम पञ्चसप्तत्यधिकशततमोध्यायः
मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0