भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 1.170

1.170.1

मार्कण्डेय उवाच ॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ॥
फलमासाद्य यद्गीतं देववेश्मोपलेपने

1.170.2

बभूव शूद्रजातीयः कश्चिद्भाग्यविवर्जितः ॥
कृतवान्स तु वाणिज्यं धनशेषेण केनचित्

1.170.3

तस्मिन्विपन्ने स कृषिं चकार नृपसत्तम ॥
तस्यामपि विपन्नायां चक्रे सेवां पुनःपुनः

1.170.4

ततोऽप्यनासाद्य फलं सिद्धिं तीरमुपाश्रितः ॥
गङ्गायाः सप्तमो भागः सिन्धुर्नरनरोत्तम

1.170.5

शीतलामलपानीयः स्वर्गलोकप्रदायकः ॥
यत्र स्नात्वा गतिं यान्ति ब्राह्मणाश्च तपस्विनः

1.170.6

तस्य तीरे वराहार्चा पुराणर्षिविनिर्मिता ॥
तां समासाद्य शूद्रस्तु नित्यं भैक्ष्यपरायणः

1.170.7

नित्योपलेपनपरस्तदर्चादेववेश्मनि ॥
उवास भार्यया सार्धं तत्र नित्यानुरक्तया

1.170.8

एतस्मिन्नेव काले तु वराहार्चादिदृक्षया ॥
सौवीरराजः सम्प्राप्तस्तं देशं चित्रवाहनः

1.170.9

सिन्धौ स्नानं समासाद्य पूजयित्वा जगत्पतिम् ॥
सभार्यः पृथिवीपालः प्रायाद्राजन्यथागतः

1.170.1.170.10

श्रियं तस्य तु तां दृष्ट्वा स शूद्रो भार्यया सह ॥
भूपालत्वस्पृहां कृत्वा कालात्कालवशङ्गतः

1.170.11

वनात्काष्ठान्युपाहत्य कृत्वा भर्तुस्ततश्चितिम् ॥
अन्वारुरोह तं भार्या शूद्रं पञ्चत्वमागतम्

1.170.12

स शूद्रो भार्यया सार्धं नाकपृष्ठमितो गतः ॥
सततं धर्मशीलस्तु देववेश्मोपलेपनात्

1.170.13

एतस्मिन्नेव काले तु युवनाश्वो महीपतिः ॥
विष्णुं सम्पूजयामास पुत्रीयेण व्रतेन तु

1.170.14

राज्ञस्तस्य व्रतस्यान्ते स्वप्ने प्राह जनार्दनः ॥
भार्गवं च्यवनं गच्छ ततः पुत्रमवाप्स्यसि

1.170.15

युवनाश्वस्तथोक्तस्तु स्वप्ने देवेन चक्रिणा ॥
प्रातः पद्भ्यां ययौ तस्य च्यवनस्याश्रमं शुभम्

1.170.16

सम्पूजयित्वा च्यवनं च्यवनेन च पूजितः ॥
व्रतस्वप्नावुभौ तस्य जगाद नृपसत्तमः

1.170.17

ऋषिसङ्घानुपादाय च्यवनोऽपि महातपाः ॥
अविज्ञातं नरेन्द्रेण पुत्रीयं कृतवाञ्जलम्

1.170.18

कलशस्थं जलं तच्च स्थापयामास भार्गवः ॥
ततो निशीथे संप्राप्ते तृषार्तः स महीपतिः

1.170.19

ऋषिमध्ये तु स सुप्तानृषीन्वाक्यमथाऽब्रवीत् ॥
तृषार्तोऽस्मि भृशं विप्राः पानीयं मे प्रयच्छत

1.170.1.170.20

ऋषिस्तस्य न शुश्राव कश्चिद्भाव्यर्थचोदितः ॥
ततः खिन्नो महीपालः कलशस्थं जलं पपौ

1.170.21

पीत्वा सुष्वाप ऋषयः प्रातः सर्वे समुत्थिताः ॥
अपश्यमानाः कलशं पप्रच्छुस्ते पर स्परम्

1.170.22

पुत्रीयं कलशं राज्ञः कृतं यत्तद्गतं क्व नु ॥
तदोवाच स राजेन्द्रस्तानृषीन्संशितव्रतान्

1.170.23

तृषार्तेन मया पीतः कलशस्त्वपवाहितः ॥
ते होचुस्तं नृपश्रेष्ठं भाव्यं कर्म कृतं त्वया

1.170.24

भार्या पीत्वैव तत्तोयं पुत्रं ते जनयिष्यति ॥
इत्येवं मन्त्रकलशः सोऽस्माभिर्भूपते कृतः

1.170.25

पुत्रीयमुदकं तच्च त्वया पीतमबुद्धिना ॥
तस्मात्त्वमेव तनयं स्वकुक्षौ जनयिष्यसि

1.170.26

नावाप्स्यसि तथा मृत्युं वरदानाद्द्विजन्मनाम् ॥
एवमुक्तस्तु सम्पूज्य ब्राह्मणान्स्वगृहङ्गतः

1.170.27

राज्ञः कुक्षिं विनिर्भिद्य जज्ञे बालार्कसन्निभः ॥
पुनः पुत्रवतां श्रेष्ठ शूद्रोऽसौ नाकविच्युतः

1.170.28

जातमात्रस्य तस्येन्द्रो ददौ प्रादेशिनीं मुखे ॥
आसाद्य यां स बालत्वं शिशुस्तत्याज तत्क्षणात्

1.170.29

॥।
कुक्षिं पस्पर्श राज्ञस्तु राजसिंहशतक्रतुः ॥
राजा शक्रकरामृष्टो विज्वरश्चाव्रणोऽभवत्

1.170.1.170.30

युवनाश्वः स तस्यापि नाम चक्रे शतक्रतुः ॥।
मां धास्यतीति मान्धाता ख्यातिं त्रिभुवने गतः

1.170.31

तमाविवेश भगवांस्तेजसा स्वेन माधवः ॥
सापि स्वर्गच्युता भार्या तस्य शूद्रस्य यादव

1.170.32

काशिराजसुता जाता भीमवेगस्य मानद ॥
नाम्ना प्रभावती सुभ्रूस्त्र्यैलोक्यस्यैकसुन्दरी

1.170.33

युवनाश्वस्तु तां वव्रे मान्धातुर्लक्षणान्विताम् ॥
स राजा प्रददौ तां तु मान्धातुश्चित्रवाहनः

1.170.34

एकैव भार्या सा तस्य बभूवात्यन्तसुन्दरी ॥
रूपयौवनसम्पन्ना प्राणेभ्योऽपि गरीयसी ॥
कृत्वोद्वाहमयोध्यायामभिषिच्य स तं नृपम्

1.170.35

युवनाश्वो वनं प्रायाद्वनादपि त्रिविष्टपम् ॥
राज्यस्थोऽपि स मान्धाता त्रैलोक्यं सप्तभिर्दिनैः

1.170.36

रथेनैकेन वशगं चकार खड्गदर्पितः ॥
पाताले गगने शैले समुद्रे च महात्मनः

1.170.37

आसीत्तस्याप्रतिहता गतिश्चक्रस्य पार्थिव ॥
चक्रवर्ती स धर्मात्मा वैष्णवश्च तथाऽभवत्

1.170.38

समायुतानां बुभुजे स राज्यं दश मानद ॥
ब्रह्माण्डमण्डपं यावत्सूर्यस्तपति रश्मिभिः ॥
तावत्क्षेत्रं महीभर्तुर्युवनाश्वस्य कीर्त्यते

1.170.39

एवं स राजा विजितारिपक्षो देवाजिरालेपनकृद्बभूव ॥।
भार्या च सा तस्य बभूव भार्या लोके वरिष्ठा प्रमदावराभ्यः

1.170.170

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे मान्धात्रुपाख्यानं नाम सप्तत्यधिकशततमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc