विष्णुधर्मोत्तरपुराणम् · अध्याय 1.169
वज्र उवाच ॥
अटव्यो दारुणा ब्रह्मन्सिंहव्याघ्रनिषेविताः ॥
तस्कराचरिता घोराः सरीसृपविमिश्रिताः
नित्योत्थितस्य चाध्वानं दाहक्षयकरं परम् ॥
अतः स्वल्पतरं कर्म ब्रूहि मे केशवार्चने
मार्कण्डेय उवाच ॥
अतः स्वल्पतरं राजन्देववेश्मानुलेपनम् ॥
महाफलं विनिर्दिष्टं ब्राह्मणैर्वेदपारगैः
सम्मार्जनं तु यः कुर्यात्पुरुषः केशवालये ॥
रजस्तमोभ्यां निर्मुक्तः स भवेन्नात्र संशयः
पांसूनां यावतां राजन्कुर्यात्सम्मार्जनं नरः ॥
तावन्त्यब्दानि स सुखी नाकमासाद्य मोदते
अभ्युक्षणं तु यः कुर्यात्पानीयेन सुरालये॥
स शान्तपापो भवति नात्र कार्या विचारणा
कृत्वोपलेपनं विष्णोर्नरस्त्वायतने सदा ॥
गोमयेन शुभाँल्लोकानयत्नादेव गच्छति
हस्तप्रमाणं भूभागमुपलिप्य नराधिप ॥
देवरामाशतं नाकं लभेत सततं नरः
ततोऽनुसारेण फलं विस्तृतायां क्षितौ स्मृतम् ॥
नित्यासमर्थस्तु तथा देववेश्मोपलेपने
त्रिः पक्षस्य तु कुर्वीत देववेश्मोपलेपनम् ॥
पञ्चमीं दशमीं चैव तथा पञ्चदशीं नृप
त्रिः पक्षस्य सदा कृत्वा देववेश्मोपलेपनम् ॥
संवत्सरात्तदाप्नोति यत्फलं तन्निबोध मे
जन्मान्तरमथासाद्य गृहं प्राप्नोत्यनुत्तमम् ॥
सर्वोपभोगसंयुक्तं गृहप्रासादसङ्कुलम्
वृक्षोद्यानलतागुल्मतोयवापीविभूषितम् ॥
गवाश्वधनधान्याढ्यं सर्वोपकरणैर्युतम्
प्रियंवदाभिर्हृद्याभिः स्वरूपाभिश्च पार्थिव ॥
वृतं च बहुभिः स्त्रीभिश्चारुवंशाभिरेव च
गार्हस्थ्यं च दृढं तत्र स चाप्नोति महीतले ॥
न च प्रच्यवनं तस्माज्जीवन्नाप्नोति कर्हिचित्
तस्य ये बान्धवास्तत्र सर्वे ते दीर्घजीविनः ॥
भवन्ति न भवन्त्यस्य आधयो व्याधयस्तथा
न तस्य मृतनिष्क्रान्तिर्गृहे भवति कर्हिचित्॥
यावज्जीवत्यसौ तत्र गृहे श्रीमान्मुदा युतः
चौरजं न भयं तस्य न च व्याधिकृतं भयम् ॥
व्यालभूपालजं वापि न च तस्य फलं भवेत्
स्वरूपः सर्वसिद्धार्थो दीर्घायुर्व्याधिवर्जितः ॥
आज्ञाविधेयभृत्यश्च ध्रुवं स्यान्मनुजेश्वर
भुञ्जानो यः सदा कुर्यात्तस्यैतत्कथितं फलम् ॥
नक्तभोजी तथा कृत्वा द्विगुणं फलमाप्नुयात्
उपोषितस्तु रिक्तासु पूर्णासु तु हरेर्गृहे ॥
कृत्वोपलेपनं नित्यं चानन्त्यं फलमश्नुते
उपलेपनकृद्यस्तु कृष्णस्यायतने भवेत् ॥
पापसंमार्जनं तस्य शीघ्रमेव भविष्यति
निष्पाद्यमेतत्ससुखं नरेन्द्र आराधनं देववरस्य विष्णोः ॥
प्रोक्तं मया ते धनवर्जितानां धनान्वितानां सफलं विशेषम्
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेय वज्रसंवादे उपलेपनफलप्रशंसनो नामैकोनसप्तत्यधिकशततमोऽध्यायः
मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0