भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 1.168

1.168.1

वज्र उवाच ॥
उपवासासमर्थानां हीनानां द्रविणेन च ॥
कर्मणा केन धर्मज्ञ तोषमायाति शङ्करः

1.168.2

मार्कण्डेय उवाच॥
सन्ति पुष्पाण्यरण्येषु मूलानि च फलानि च ॥
स्वयं ग्राह्याणि राजेन्द्र यैस्तुष्यति जनार्दनः

1.168.3

चन्द्रः सामान्यदीपोऽयं विभवैः किम्प्रयोजनम् ॥
यथालभ्येन राजेन्द्र यैस्तुष्यति जनार्दनः

1.168.4

फलमूलाशनोऽरण्ये कुसुमैर्मधुसूदनम् ॥
सम्पूज्य सततं कामानभीष्टान्प्रतिपद्यते

1.168.5

अकामस्तदवाप्नोति यद्विष्णोः परमं पदम् ॥
अरण्येषु नरः कृत्वा देवदेवस्य चार्चनम्

1.168.6

अतीतमुद्धरेद्राजन्फलेन स शतं नृणाम् ॥
भविष्याणां शतं चैव नराणां यदुनन्दन

1.168.7

नगरेऽपि वसन्यस्तु भैक्ष्याशी संशितव्रतः ॥
अरण्यादाहृतैः पुष्पैर्मूलपत्रफलाङ्कुरैः

1.168.8

यथोपपन्नैः सततमभ्यर्चयति केशवम् ॥
सर्वकामप्रदो देवस्तस्य स्यान्मधुसूदनः

1.168.1.168.10

तस्याप्यकामकामस्य परं स्थानं प्रकीर्तितम् ॥
यत्र गत्वा न शोचन्ति तद्विष्णोः परमं पदम॥॥॥
स्वयमाहृत्य पुष्पाद्यैभैक्ष्याशी केशवार्चनम् ॥
कृतं येन स राजेन्द्र वंशानुद्धरते शतम्

1.168.11

वंशानतीतान्पञ्चाशत्तावतश्चाप्यनागतान् ॥
उद्धरेदात्मनो राजन्नात्र कार्या विचारणा

1.168.12

(गृहस्थोऽपि नरो राजन्धर्मागतधनागमः ॥
अरण्यादाहृतैः पुष्पैर्यः कुर्यात्केशवार्चनम्

1.168.13

एतदेव समाप्नोति नात्र कार्या विचारणा ॥
धर्मार्जितधनः क्रीत्वा यः कुर्वन्केशवार्चनम्

1.168.14

)
स्वयमुप्तैश्च कुसुमैर्यः कुर्यात्केशवार्चनम् ॥
उद्धरिष्यत्यसन्देहं सप्तपूर्वापरान्नरान्

1.168.15

यथाकथञ्चिदाहृत्य कथञ्चित्पूजयेद्धरिम् ॥
नाकपृष्ठमवाप्नोति न मेऽत्रास्ति विचारणा

1.168.16

मानुष्ये च परां राजञ्छ्रियमाप्नोत्यसंशयम् ॥
वनादाहत्य कुसुमैः कर्तव्यं देवतार्चनम्

1.168.17

पत्रं पुष्पं फलं तोयं दूर्वाङ्कुरमथापि वा ॥
निवेदयित्वा कृष्णाय भोक्ता नाकमवाप्नुयात ॥
अक्षमैस्तूपवासानां तथा धनविवर्जितैः

1.168.18

वनादाहृत्य कुसुमैः कर्तव्यं देवतार्चनम् ॥
अरण्यादाहृतैः पुष्पैः सम्पूज्य मधुसूदनम्

1.168.19

पूर्वजन्मनि सम्प्राप्तं राज्यं शृणु नराधिप ॥
नृगो ययातिर्नहुषो विष्वगश्वः करन्धमः

1.168.1.168.20

दिलीपो यवनाश्वश्च ऋतुपर्णो भगीरथः ॥
सोमकः सहदेवश्च महामालो महाहनुः

1.168.21

रेवकः कालकाख्यश्च कृतवीर्यो गुणाकरः ॥
देवरातः ककुत्स्थश्च विनीतो विक्रमे रघुः

1.168.22

महोत्साहो वीतभयो निरमित्रः प्रभाकरः ॥
कपोतरोमा पर्जन्यश्चन्द्रसेनः परान्तकः

1.168.23

भीमसेनो दृढरथः कुशनाभः प्रभद्रकः ॥
एते चान्ये च बहवः पूर्वजन्मनि केशवम्

1.168.24

पूजयित्वा क्षितावस्यां प्रापू राज्यमकण्टकम् ॥
यक्षत्वमथ देवत्वं गन्धर्वत्वं तथैव च

1.168.25

विद्याधरत्वं नागत्वं ये गता मनुजोत्तम ॥
बहुत्वात्ते कथं शक्या मया वक्तुं तवानघ

1.168.26

तस्माद्यत्नः सदा कार्यः पुरुषैः कुसुमार्चने

1.168.27

अरण्यजातैः कुसुमैः सदैव संपूजयित्वा स्वयमाहृतैस्तु ॥
सर्वेश्वरत्वं फलमाप्नुवन्ति राजेन्द्र तद्वर्णयितुं न शक्यम्

1.168.168

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे पुष्पाहरणफलवर्णनं नामाष्टषष्ट्यधिकशततमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc