विष्णुधर्मोत्तरपुराणम् · अध्याय 1.167
मार्कण्डेय उवाच ॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ॥
दीपदानाल्ललितिका यदवाप पुरा नृप
आसीच्चित्ररथो नाम विदर्भेषु महीपतिः ॥
तस्य पुत्रशतं राज्ञो जज्ञे पञ्चदशोत्तरम्
एकैव कन्या तस्यासील्ललिता नाम नामतः ॥
सर्वलक्षणसम्पूर्णा रूपेणाप्रतिमा भुवि
तां ददौ काशिराजाय स पिता चारुधर्मिणे ॥
शतानि तस्य भार्याणां त्रीण्यासंश्चात्र धर्मिणः
तासां मध्येऽग्रमहिषी ललितास्य तदाऽभवत् ॥
विष्णोरायतने तस्याः सहसं राजसत्तम
प्रदीपानां प्रज्वलति दिवारात्रमरिन्दम ॥
तामिस्रमाश्वयुक्पक्षं शुक्लपक्षं च कार्तिकात्
तस्याः प्रज्वलितं दीपमुच्चस्थानकृतं तथा ॥
तस्मिन्काले तथा नित्यं ब्राह्मणावसथेषु सा
नित्यं भवति सायाह्ने दीपप्रेषणतत्परा ॥
चतुष्पथेषु रथ्यासु देवतायतनेषु च
चैत्यवृक्षेषु गोष्ठेषु पर्वतानां च मूर्धसु ॥
पुलिनेषु नदीनां च कूपमूलेषु यादव
तस्मिन्भवति साकाले दीपदानपरायणा ॥
तां सपत्न्योऽथ सङ्गम्य पप्रच्छुरिदमादृताः
सपत्न्य ऊचुः ॥
सर्वान्धर्मान्परित्यज्य ललिते त्वं सदैव तु ॥
विष्णोरायतने सुभ्रूर्दीपदानपरायणा
तदेतत्कथयास्माकं ललिते कौतुकं परम् ॥
मन्यामहे त्वयावश्यं दीपदानफलं श्रुतम्
ललितिकोवाच ॥
नाहं मत्सरिणी भद्रा न च रागादिदूषिता ॥
एकपत्याश्रया याता भवत्यो मम मानदाः
अपृथग्धर्मचरणाः शृण्वन्तु गदितं मम ॥
मयैतद्दीपदानस्य यथा वै भुज्यते फलम्
हरस्य दयिता भार्या शैलराजसुता वरा ॥
उमादेवीति मद्रेषु देविका या सरिद्वरा ॥
नराणामनुकम्पार्थं ब्राह्मणैरवतारिता ॥
तीरयोरुभयोस्तस्याः क्षेत्रं क्रोशचतुष्टयम्
तस्मिँस्तीर्थे तु पानीयं सर्वतीर्थप्रकल्पितम् ॥
तस्मिंस्तीर्थे मृता मर्त्याः प्राप्नुवन्ति शुभां गतिम्
श्रुताभिलाषिता दृष्टा देविका पापनाशिनी ॥
तस्यां स्नात्वा सकृन्मर्त्यो गाणपत्यमवाप्नुयात्
तस्यास्तीर्थं नृसिंहाख्यं सर्वकल्मषनाशनम्॥
नृसिंहवपुषा स्नानं कृतं यत्र पुरा शुभा
सौवीरराजस्य पुरा मैत्रेयोऽभूत्पुरोहितः॥
तस्मिँस्तीर्थे तदा तेन विष्णोरायतनं कृतम्
अहन्यहनि शुश्रूषां पुष्पधूपादिलेपनैः ॥
दीपदानादिभिश्चैव चक्रे तत्र स वै द्विजः
कार्तिके दीपकास्तत्र प्रदत्तास्तेन चैकदा ॥
आसीन्निर्वाणभूयिष्ठो देवार्चापुरतो निशि
देवतायतने चासं तथाहमपि मूषिका॥
प्रदीप वर्तिहरणे कृतबुद्धिर्वरानना
गृहीता च मया वर्तिर्वृषदंशो रुराव च ॥
नष्टा चाहं तदा तस्य मार्जारस्य भयात्तदा
वर्तिप्रान्तेन नश्यन्त्या दीपकः प्रेरितो मया ॥
जज्वाल पूर्ववद्दीप्त्या तस्मिन्नायतने पुनः
मृता चाहं तदा जाता विदर्भराजकन्यका ॥
जातिस्मरा महीपस्य महिषी चारुधर्मिणः
एष प्रभावो दीपस्य कार्तिके मासि शोभनाः ॥
दत्तस्यायतने विष्णोर्यस्येयं व्युष्टिरुत्तमा
यदि वो नास्ति मात्सर्यं दीपो देयः सदा शुभाः ॥
असङ्कल्पितमप्येतत्प्रेरणं यत्कृतं मया
केशवालयदीपस्य तस्येदं भुज्यते फलम् ॥
एतस्मात्कारणाद्दीपानहमेतानहर्निशम्
प्रयच्छामि हरेर्धाम्नि ज्ञातस्य च हि यत्फलम् ॥
मार्कण्डेय उवाच ॥
एवमुक्ताः सपत्न्यस्ता दीपदानपरायणाः
बभूवुर्देवदेवस्य केशवस्य सदा गृहे ॥
ततः कालेन महता तेन राज्ञा महात्मना ॥
विष्णुलोकमनुप्राप्ताः पञ्चत्वं प्राप्य मानद
तं लोकमासाद्य नृपेण सार्धं सा राजपुत्री कमलाभरूपा ॥
रेमे महीपाल मुदा समेता दीपप्रदानाच्च्यवनाद्विमुक्ता
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसम्वादे दीपमाहात्म्ये ललितिकोपाख्यानं नाम सप्तषष्ट्यधिकशततमोऽध्यायः
मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0