भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 1.166

1.166.1

॥ वज्र उवाच ॥
महावर्तिप्रदानस्य यत्फलं भृगुनन्दन ॥
तन्ममाचक्ष्व तत्त्वेन विधिं कालं तथैव च

1.166.2

मार्कण्डेय उवाच ॥
महावर्तिः सदा देया भूमिपाल महाफला ॥
कृष्णपक्षे विशेषेण तत्रापि च विशेषतः

1.166.3

अमावास्या च निर्दिष्टा द्वादशी च महाफला ॥
आश्वयुज्यामतीतायां कृष्णपक्षस्य या भवेत्

1.166.4

अमावस्या तदा पुण्या द्वादशी वा विशेषतः ॥
देवस्य दक्षिणे पार्श्वे देया तैलतुला नृप

1.166.5

पलाष्टकयुतां राजन्वर्तिं तत्र तु दापयेत् ॥
महारजनरक्तेन समग्रेण तु वाससा

1.166.6

वामपार्श्वे च देवस्य देया घृततुला नृप ॥
पलाष्टकयुतां शुक्लां वर्तिं तत्र तु दापयेत्

1.166.7

वाससा तु समग्रेण सोपवासो जितेन्द्रियः ॥
महावर्तिद्वयमिदं सकृद्दत्त्वा महीपते

1.166.8

स्वर्लोकं सुचिरं भुक्त्वा जायते भूतले यदा ॥
तदा भवति लक्ष्मीवान्रूपसौभाग्यमाश्रितः

1.166.9

राष्ट्रे च जायते यस्मिन्देशे च नगरेऽथवा ॥
कुले च राजशार्दूल तत्र स्याद्दीपवत्प्रभा

1.166.1.166.10

अत्युज्ज्वलश्च भवति युद्धेषु कलहेषु च ॥
ख्यातिं याति तथा लोके सज्जनानां च सद्गुणैः

1.166.11

एकामप्यथ यो दद्यादभीष्टमनयोर्द्वयोः ॥
मानुष्ये सर्वमाप्नोति तदुक्तं ते मयाऽनघ

1.166.12

स्वर्गे तथार्धमाप्नोति भागं कालं च यादव ॥
सामान्यस्य तु दीपस्य राजन्दाने महत्फलम्

1.166.13

किं पुनर्महतो यस्य फलस्यान्तो न विद्यते ॥
दीपदानं परं पुण्यमन्यदेवेष्वपि ध्रुवम्

1.166.14

किं पुनर्देव देवस्य त्वनन्तस्य महात्मनः ॥
गिरिशृङ्गेषु दातव्या नदीनां पुलिनेषु च

1.166.15

चतुष्पथेषु रथ्यासु ब्राह्मणानां गृहेषु च ॥
वृक्षमूलेषु गोष्ठेषु कान्तारगहनेषु च

1.166.16

दीपदानेन सर्वत्र महत्फलमुपाश्नुते ॥
यावन्त्यक्षिनिमेषाणि दीपः प्रज्वालितो नृप

1.166.17

तावन्त्येव स राजेन्द्र वर्षाणि दिवि मोदते ॥
दीपदानेन राजेन्द्र चक्षुष्मानिह जायते

1.166.18

रूपसौभाग्ययुक्ताश्च धनधान्यसमन्विताः ॥
दीपमालां प्रयच्छन्ति ये नराः शार्ङ्गिणो गृहे

1.166.19

भवन्ति ते चन्द्रसमाः स्वर्गमासाद्य मानवाः ॥
दीपागारं नरः कृत्वा कूटागारनिभं शुभम्

1.166.1.166.20

केशवालयमासाद्य नाके भाति स शक्रवत् ॥
यथोज्ज्वलः सदा दीपो दीपदातापि यादव

1.166.21

तथा नित्योज्ज्वलो लोके नाकभ्रष्टोऽभि जायते ॥
समीपे तु यथा लोके चक्षूंषि फलवन्ति हि

1.166.22

तथा दीपस्य दातारो भवन्ति सफलेक्षणाः ॥
यथैवोर्ध्वगतिर्नित्यं राजन्दीपशिखा शुभा

1.166.23

दीपदातुस्तथैवोर्ध्वगतिर्भवति शोभना ॥
तस्मात्सर्वप्रयत्नेन दीपा देया नरेश्वर

1.166.24

आश्वयुज्यामतीतायां यावद्राजेन्द्र कार्तिकी ॥
तावद्दीपप्रदस्योक्तं फलं राजन्विशेषतः

1.166.25

तावत्कालं प्रयच्छन्ति ये तु दीपं सदा निशि ॥
तुंगे देशे महत्तेषां बहिः पुण्यफलं भवेत् ॥

1.166.26

यस्यान्धकारे गहने प्राकाश्यं तेन जायते।
प्राकाश्ये यदुशार्दूल तेन यान्ति हि तत्सुखम्

1.166.27

श्रवणे दीपकं दत्त्वा नदीद्वितयसंगमे ॥
तेजस्वी च यशस्वी च रूपवानभिजायते

1.166.28

दीपा नदीषु दातव्याः कार्तिक्यां च विशेषतः ॥
आश्वयुक्कृष्णपक्षस्य या तु पञ्चदशी भवेत्

1.166.29

बिल्वद्वारेषु दातव्यास्तथा दीपा यथाविधि ॥
अन्यत्रापि तदा दीपैर्महत्पुण्यफलं लभेत्

1.166.1.166.30

श्रवणद्वादशीयोगे कृष्णपक्षे तथैव च ॥
घृतेन दीपा दातव्यास्तिलैर्वा यदुनन्दन

1.166.31

वसामज्जादिभिर्देया न तु दीपाः कथञ्चन ॥
दत्त्वा दीपं न कर्तव्यं तेन कर्म विजानता

1.166.32

निर्वापणं च दीपस्य हिंसनं च विगर्हितम् ॥
यः कुर्यात्तेन कर्माणि स्यादसौ पुष्पितेक्षणः

1.166.33

दीपहर्ता भवेदन्धः काणो निर्वापको भवेत् ॥
दीपदानात्परं दानं न भूतं न भविष्यति

1.166.34

दीपदानं तु कर्तव्यं विप्रवेश्मसु पण्डितैः॥
द्विजवेश्मनि यो दद्यात्कार्तिके मासि दीपकम्

1.166.35

अग्निष्टोमफलं तस्य प्रवदन्ति मनीषिणः ॥
प्राणिजां नीलरक्तां च दीपे वर्तिं विवर्जयेत्

1.166.36

विशेषेण प्रदातव्या पद्मसूत्रभवा नृप ॥
पद्मसूत्रोद्भवां वर्तिं गन्धतैलेन दीपके

1.166.37

विरोगः सुभगश्चैव दत्त्वा भवति मानवः ॥
दातव्यं देवदेवस्य कर्पूरेण च दीपकम्॥
अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत्

1.166.38

एतन्मयोक्तं तव दीपदाने फलं समग्रं यदुवंशचन्द्र ॥
श्रुत्वा यथावत्सततं तु देया दीपास्त्वया विप्रसुरालयेषु

1.166.166

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे दीपदानप्रशंसानाम षट्षष्ट्यधिकशततमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc