विष्णुधर्मोत्तरपुराणम् · अध्याय 1.165
॥ वज्र उवाच ॥
होतव्ये विष्णुदैवत्ये सावित्री मे त्वयोदिता ॥
होमकर्मणि सन्देहो महान्मे भृगुनन्दन
सविता दैवतं तस्याः सावित्रीत्युच्यते ततः ॥
तया कथं तु कर्तव्यं होमकर्म च वैष्णवम्
प्रभावमार्षेश्च तथा तस्यास्त्वं मम कीर्तय ॥
वेदमाता तु सा प्रोक्ता सर्वपापप्रणाशिनी
मार्कण्डेय उवाच ॥
रविमध्ये स्थितः सोमः सोममध्ये हुताशनः ॥
तेजोमध्ये स्थितं सत्त्वं सत्त्वमध्ये स्थितोऽच्युतः
अंगुष्ठमात्रः पुरुषः पूर्वमेव मयेरितः ॥
शङ्करेण तदा दृष्टः प्रभवः सर्वतेजसाम्
स विष्णुर्भुवनाधारो यस्येदं सकलं जगत् ॥
वरेण्यं तच्च सवितुर्भर्गवाच्यं तु योगिनाम्
येयं परं तदुद्दिष्टं बहिरन्तश्च यादव ॥
धीशब्दवाच्यं ब्रह्माणं प्रचोदयति यः सदा
सृष्ट्यर्थं भगवान्विष्णुः सविता स प्रकीर्तितः ॥
सर्वलोकप्रसवनात्सविता स तु कीर्त्यते
यतस्तद्देवदेवत्या सावित्रीत्युच्यते ततः ॥
गानाद्वा त्रायते यस्माद्गायत्री वा तदा स्मृता
एतस्मात्कारणाद्राजन्सावित्री कीर्तिता मया ॥
तव धर्मभृतां श्रेष्ठ नित्यं वैष्णवकर्मसु
सव्याहृतीकप्रणवां गायत्रीं शिरसा सह ॥
ये जपन्ति सदा तेषां न भयं विद्यते क्वचित्
दशकृत्वा प्रजप्ता सा रात्र्यह्ना यत्कृतं लघु ॥
तत्पापं प्रणुदत्याशु नात्र कार्या विचारणा
शतं जप्ता तु सा देवी पापोपशमना स्मृता ॥
सहस्रजप्ता सा देवी चोपपातकनाशिनी
लक्षजापेन च तथा महापातकनाशिनी
कोटिजाप्येन राजेन्द्र यदिच्छति तदाप्नुयात्
विद्याधरत्वं यक्षत्वं गन्धर्वत्वमथापि वा ॥
देवत्वमथवा राज्यं भूर्लोके हतकण्टकम्
कोटिसाहस्रजाप्येन निष्कामः पुरुषोत्तम ॥
विधिना राजशार्दूल प्राप्नोति परमं पदम्
यथा कथञ्चिज्जप्तैषा देवी परमपावनी ॥
सर्वकामप्रदा प्रोक्ता विधिना किम्पुनर्नृप
।
॥ वज्र उवाच ॥
विधिना केन जप्तव्या गायत्री पापनाशिनी ॥
महापवित्रा परमा सर्वकल्याणकारिता।
मार्कण्डेय उवाच ॥
कुशशय्यां निविष्टस्तु कुशपाणि जितेन्द्रियः ॥
अर्कमध्यगतं ध्यायेत्पुरुषं तं महाद्युतिम्
अथवार्कं महीपाल बहिः स्नातस्त्वतन्द्रितः ॥
अनन्यचित्तो मेधावी पूर्वाह्ने तु विशेषतः
भैक्ष्ययावकशाकाशी पयोमूलाशनोऽथवा ॥
फलपुष्पाशनो वापि नक्तं वापि हविष्यभुक्
अनेन विधिना जप्यं यः करोति महीपते ॥
स याति परमं स्थानं वायुभूतः खमूर्तिमान्
अकामः कामकामस्तु काममाप्नोत्यभीप्सितम् ॥
सव्याहृतीकप्रणवाः प्राणायामास्तु षोडश
अपि भ्रूणहणं मासात्पुनन्त्यहरहः कृताः ॥
सव्याहृतीकप्रणवां गायत्रीं शिरसा सह
त्रिः पठेदायतप्राणः प्राणायामः स उच्यते ॥
प्राणायामत्रयं कार्यं कल्यमुत्थाय वै द्विजः
अहोरात्रकृतात्पापात्तक्षणादेव मुच्यते ॥
सर्वदोषहरं प्रोक्तं प्राणायामं द्विजन्मनाम्
ततस्त्वभ्यधिकं नास्ति राजन्परमपावनम् ॥
प्राणसंधारणं मासं कुशाग्रच्युतबिन्दुना
यः कुर्यादम्भसां पानं प्राणायामं तु तत्समम् ॥
निरोधाज्जायते वायुस्तस्मादग्निस्ततो जलम्
त्रिभिः शरीरं सकलं प्राणायामैश्च शुध्यति ॥
आकेशाग्रान्नखाग्राच्च तपस्तप्येत्स उत्तमम्
आत्मानं शोधयेद्यस्तु प्राणायामैः पुनःपुनः ॥
श्रावण्यां पौर्णमास्यां तु सोपवासो जितेन्द्रियः
प्राणायामशतं कृत्वा मुच्यते सर्वकिल्बिषैः ॥
अन्तर्जले त्रिरावर्त्य गायत्रीं प्रयतो जपन्
मुच्यते पातकैः सर्वैर्यदि न ब्रह्महा भवेत् ॥
नास्ति सत्यात्परो धर्मो नास्ति कृष्णसमा गतिः
गायत्र्याश्च परं नास्ति दिवि चेह च पावनम् ॥
हुता च वरदा देवी सर्वकामफलप्रदा
गायत्र्याः सुतिलैर्होमः सर्वपापप्रणाशनः ॥
शान्तिकामो यवैः कुर्यादायुष्कामो घृतेन च
कर्मणां सिद्धिकामस्तु कुर्यात्सिद्धार्थकैर्नरः॥
ब्रह्मवर्चसकामस्तु पयसा स समाचरेत्
पुत्रकामस्तथा दध्ना धान्यकामस्तु शालिभिः ॥
क्षीरवृक्षसमिद्भिश्च ग्रहपीडाप्रशान्तये
धनकामस्तथा बिल्वैः श्रीकामः कमलैस्तथा ॥
आरोग्यकामः क्षीराक्तैः कुर्याद्दूर्वाङ्कुरैः शुभैः
देशोपसर्गे संप्राप्ते तदेव च विधीयते ॥
गुग्गुलोर्गुलिकाभिस्तु कृत्वा होममतन्द्रितः
सौभाग्यं महदाप्नोति नात्र कार्या विचारणा ॥
पायसेन तथा हुत्वा विद्यां समधिगच्छति ॥
येनयेन तु कामेन लक्षहोमं समाचरेत्
तदेव काममाप्नोति नात्र कार्या विचारणा ॥
कृच्छ्रेण शुद्धिमुत्पाद्य प्राणायामशतेन च
अन्तर्जलेन वा जप्त्वा स्नातो नित्यमतन्द्रितः ॥
प्राणायामांस्ततः कृत्वा विधिनैव स षोडश
पूर्वाह्णे जुहुयाद्वह्नौ सुसमिद्धे यथाविधि ॥
भैक्ष्ययावकशाकाशी फलमूलाशनोऽथवा ॥
क्षीरसक्तूघृताहारी भवेदथ विचक्षणः ॥
आहाराणां यथोक्तानामेकाहारं समाश्रयेत्
यावत्समाप्तिर्भवति लक्षहोमस्य पार्थिव ॥
लक्षहोमावसाने तु ब्राह्मणानां तु दक्षिणा
देया भवति राजेन्द्र गावो वस्त्राणि काञ्चनम् ॥
सर्वोत्पातसमुत्पत्तौ ब्राह्मणैरनुपूजितैः
पञ्चभिर्दशभिर्वापि लक्षहोमं समाचरेत् ॥
असङ्कीर्णैस्तथा हारैर्नृपतिस्तत्प्रशान्तये
नास्ति लोके स उत्पातो यो ह्यनेन न शाम्यति ॥
मङ्गलं परमं नास्ति यत्तस्मादतिरिच्यते
कोटिहोमं तु यो राजा कारयेत्पूर्ववद्द्विजैः ॥
न तस्य शत्रवः सङ्ख्ये जातु तिष्ठन्ति कर्हिचित्
न तस्य मरणं देशे न व्याधिर्जायते तथा ॥
अतिवृष्टिरनावृष्टिर्मूषकाः शलभाः शकाः
राक्षसाश्च प्रशाम्यन्ति सर्वास्तत्र तथेतयः ॥
रसवन्ति च तोयानि सस्यानि स्वादुवन्ति च
जायन्ते तस्य देशे तु धर्मिष्ठश्च जनो भवेत् ॥
कोटिहोमे तु वरयेद्ब्राह्मणान्विंशतीन्नृप
शतं वाथ सहस्रं वा य इच्छेद्भूतिमात्मनः ॥
कोटिहोमं स्वयं यस्तु कुर्याद्ब्राह्मणसत्तमः
क्षत्रियो वाथवा वैश्यस्तस्य पुण्यफलं महत् ॥
यद्यदिच्छति कामानां तत्तदाप्नोत्यसंशयम्
सशरीरोऽपि चेद्गन्तुं दिवमिच्छेत्तदाप्नुयात् ॥
सावित्री परमा देवी सावित्री पावनी परम्
सर्वकामप्रदा देवी सावित्री कथिता तथा ॥
अभिचारेषु तां देवीं विपरीतां प्रयोजयेत्
कार्या व्याहृतयश्चात्र विपरीताक्षरास्तथा ॥
विपरीताक्षरं कार्यं शिरश्च मनुजेश्वर
आदौ शिरः प्रयोक्तव्यं प्रणवान्ते च यादव ॥
स्वाहास्थाने च फट्कारं साध्यनामसमन्वितम्
गायत्रीं चिन्तयेत्तत्र दीप्तानलसमप्रभाम् ॥
घातयन्ती च शूलेन केशेष्वाकृष्य वैरिणम्
निर्दहन्तीं च तं क्रोधाद्भ्रुकुटीभीषणाननाम् ॥
उच्चाटने च तां देवीं वायुभूतां विचिन्तयेत्
वहमानां तथा साध्यं तस्माद्देशात्सुदूरतः ॥
अभिचारे च होतव्या राजिका विषमिश्रिताः
स्वरक्तमिश्रं होतव्यं कटुतैलमथापि वा ॥
तत्रापि च विषं देयं होमकाले च यत्नतः
मध्ये जह्याद्यदि क्रोधं ध्रुवं नश्येत्स एव तु ॥
अनागसि न कर्तव्यमभिचारमतो बुधैः ॥
अल्पागसि न कर्तव्यमभिचारं तथैव तु
महापराधं बलिनं देवब्राह्मणकण्टकम् ॥
अभिचारेण यो हन्यान्न स दोषेण लिप्यते
धर्मप्रधाने तु नरे अल्पागसि तथैव च ॥
अभिचारं न कुर्वीत बहूपायं विचक्षणः
बहूनां कण्टकं यं तु पापात्मानं सुदुर्मतिम् ॥
हन्यात्प्राप्तापराधं तु तस्य पुण्यफलं लभेत्
ये भक्ताः पुण्डरीकाक्षं देवदेवं जनार्दनम् ॥
न तानभिचरेज्जातु तत्र तद्विफलं भवेत्
न हि केशवभक्तानामभिचारेण कर्हिचित् ॥
विनाशमभिपद्येत तस्मात्तत्र समाचरेत्
सेयं धात्री विधात्री च सावित्र्यघविनाशिनी ॥
प्राणायामेन जप्येत तथैवान्तर्जलेन च
सव्याहृतीकप्रणवा जप्तव्या शिरसा सह ॥
प्रणवेन तथाऽभ्यस्ता वाच्या व्याहृतयः पृथक्
दैवतं सविता त्वस्या गायत्रं छन्द एव च ॥
विश्वामित्र ऋषिश्चैव प्रोच्यते वसुधाधिप
कर्मेन्द्रियाणि पञ्चैव पञ्च बुद्धीन्द्रियाणि च ॥
पञ्चेन्द्रियार्थान्महतां भूतानां चैव पञ्चकम्
मनो बुद्धिस्तथैवात्मा अव्यक्तं च यदूत्तम ॥
चतुर्विंशत्यथैतानि गायत्र्या अक्षराणि तु
प्रणवं पुरुषं विद्धि सर्वगं पञ्चविंशकम् ॥
सप्तलोकानि यानीह महाव्याहृतयस्तथा
शिरसश्च तथा वाच्यः पुरुषः परमेश्वरः ॥
एवंविधा सा सावित्री जप्तव्या सततं बुधैः
होतव्या च तथा शक्त्या सर्वकामसमृद्धिदा ॥
गायत्रीमात्रशरणो वरं विप्रः सुयन्त्रितः
नायन्त्रितश्चतुर्वेदी सर्वाशी सर्वविक्रयी ॥
गायत्रीं जपते यस्तु कल्यमुत्थाय वै द्विजः
लिप्यते न स पापेभ्यः पद्मपत्रमिवाम्भसा ॥
कामकामो लभेत्कामं गतिकामस्तु सद्गतिम् ॥
अकामस्तदवाप्नोति यद्विष्णोः परमं पदम्
एवं प्रभावा वरदा पवित्रा गायत्र्यथोक्ता तव राजसिंह ॥
जपन्ति ये तां परमं प्रयान्ति स्थानं परस्याऽप्रतिमस्य पुंसः
इति श्रीविष्णु धर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे गायत्रीमाहात्म्यवर्णनं नाम पञ्चषष्ट्यधिकशततमोऽध्यायः
मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0