भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 1.164

1.164.1

मार्कण्डेय उवाच ॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ॥
मागधेषु तु यद्वृत्तं तच्छृणुष्व नराधिप

1.164.2

बभूव मागधो राजा चण्डवेग इति श्रुतः ॥
तस्यासीद्रूपसंपन्ना भार्या नयनसुन्दरी

1.164.3

सर्वधर्मान्परित्यज्य प्रतसंवत्सरं तु सा ॥
तिलान्होमयते विप्रैर्जुहोति च तथा स्वयम्

1.164.4

श्रवणद्वादशीयोगे माघे मासि हुताशने ॥
देवस्य चैव नैवेद्यं करोति तिलमोदकैः

1.164.5

अर्चनेन च वासोभिः पूजयत्यपि माधवम् ॥
महारञ्जितरक्तानि वासांसि विविधानि च

1.164.6

ब्राह्मणीनां च गेहेषु विसर्जयति तत्परा ॥
महावर्तिप्रदानं च विधत्ते केशवालये

1.164.7

तां कदाचित्सुखासीनां ब्राह्मणीं तु वसन्तिका ॥
पप्रच्छ सखिभावेन रहस्यं निर्जने स्थिता

1.164.8

वसन्तिकोवाच ॥
सर्वधर्मान्परित्यज्य माघे मासि शुभानने ॥
द्वादश्यां कृष्णपक्षस्य कस्मादर्चयसे हरिम्

1.164.9

कस्मात्तथा बहुतिलं हावयस्यनले तथा ॥
एतन्मे संशयं छिन्धि रहस्यं चेन्न ते शुभे

1.164.1.164.10

नयनसुन्दर्युवाच ॥
रहस्यमेतत्परमं न रहस्यं तथा त्वयि ॥
त्वं मे सखीश्वरी प्राणस्त्वं मे प्राणधनेश्वरी

1.164.11

अस्ति वैतस्तिको नाम देशः परमधामिकः ॥
तत्र ग्रामवरं चासीद्वसतिर्मे सुशोभना

1.164.12

चण्डवेगश्च विप्रोऽभूद्भर्ता मे पूर्वजन्मनि ॥
नास्तिको निरनुक्रोशस्तर्कशास्त्ररतः सदा

1.164.13

तत्रैव विषये राजा बभूव दधिवाहनः ॥
तस्य भार्यां वयस्या मे बभूव कमला शुभा

1.164.14

सा कदाचिन्मामुवाच रहस्यं वरवर्णिनी ॥
नारी भर्तृकृतादर्धं पुण्यं प्राप्नोति सुन्दरी

1.164.15

नास्ति स्त्रीणां पृथग्यज्ञो न व्रतं नाप्युपोषितम् ॥
पतिं शुश्रूषते या तु तेन स्वर्गे महीयते

1.164.16

कर्तव्यं योषिता पुण्यं पृथग्वापि तदिच्छया ॥
पतिस्ते नास्तिको भद्रे किञ्चिन्नाचरते शुभम्

1.164.17

न चाचरसि धर्मं त्वं तथा च तदनुज्ञया ॥
का गतिः परलोके ते भविष्यति शुभानने

1.164.18

इह यत्क्रियते कर्म प्रेत्य तत्रोपभुज्यते ॥
येनोप्तं फलकाले तु स एवाश्नाति भामिनि

1.164.19

मानुष्यं दुर्लभं प्राप्य विद्युत्सम्पातचञ्चलम् ॥
नाचरन्ति शुभं ये तु तेषां जन्म निरर्थकम्

1.164.21

कदाचिदपि वामोरु योनिष्वथ परिभ्रमन् ॥
मानुष्यं नाम जायेत यत्रायत्तं शुभाशुभम् ॥ ॥ 1.164.२० ।
चण्डालत्वेऽपि मानुष्यं सर्वथा सखि दुर्लभम् ॥
आत्मा शक्यस्तया त्रातुं मानुष्यान्नान्यतः शुभे

1.164.22

तवोपरि तथा जाता सखी भावेन मे कृपा ॥
कदर्य्यस्यास्य भार्या त्वं सुस्वभावा पतिव्रता

1.164.23

तत्र तेऽनुग्रहं किञ्चित्करिष्यामि निबोध तत् ॥
हरस्य दयिता भार्या शैलेन्द्रतनया उमा

1.164.24

विस्तारितमहाकूला सा वितस्ता महानदी ॥
अवृत्तिकर्षितः पापं कृत्वैव ऋतुपञ्चकम्

1.164.25

स्नानेनैकेन सकलं शैशिरेण व्यपोहति ॥
यस्यां यस्यां तिथौ स्नातः स्वर्गमाप्नोत्यसंशयम्

1.164.26

तस्यां सम्वत्सरं स्नात्वा मोक्षोपायं तु विन्दति ॥
या च सुस्वादुसलिला या च पापक्षयङ्करी

1.164.27

तस्यास्तीरे मया नित्यं प्रति सम्वत्सरं शुभे ॥
उपोष्य माघकृष्णस्य द्वादश्यां श्रवणे तथा

1.164.28

पूजितो भगवान्विष्णुर्ब्राह्मणाश्च हुताशनः ॥
तिलैस्तस्मात्तु ते ख्यातं ब्राह्ममेतद्व्रतं मम

1.164.29

तस्मात्स्कन्नं तिलं यच्च यदग्नौ पतितं न च ॥
ततः पुण्यफलं सर्वं त्वमाप्नुहि वरानने

1.164.1.164.30

इत्येवमुक्तया गत्वा भर्ता पृष्टस्तदा मया ॥
हसता तेन चास्म्युक्ता गच्छ गृह्णीष्व तत्फलम्

1.164.31

स्वयं कृत्वा शुभं कर्म कमला सा सखी मम ॥
सह भर्त्रा विशालाक्षि विष्णुलोकमितो गता

1.164.32

तल्लोकमक्षयं तस्याः श्रुतं वैवस्वतान्मया ॥
तस्माद्दृष्टफलं भद्रे करोमि तिलद्वादशीम्

1.164.33

एतत्ते सर्वमाख्यातं यन्मां पृच्छसि सुन्दरि ॥
मार्कण्डेय उवाच ॥
एतच्छ्रुत्वा शुभं वाक्यं ब्राह्मण्यपि वसन्तिका

1.164.34

श्रवणद्वादशीयोगे पूजयामास केशवम् ॥
माघकृष्णे महाभाग तिलैर्नित्यमतन्द्रिता

1.164.35

पूजयित्वापि सा देवं श्वेतद्वीपमितो गता ॥
सापि राज्ञो महाभागा तथा नयनसुन्दरी

1.164.36

अमलं स्थानमासाद्य विरराज शशिप्रभा ॥
तस्मात्सर्वप्रयत्नेन तदा पूज्यो जनार्दनः

1.164.38

तिलैर्नित्यं महाभाग होतव्याश्च तथा तिलाः ॥
तिलाश्च देया विप्रेभ्यस्तस्मिन्नहनि पार्थिव ॥ ३७ ।
एकैकस्मात्तिलाद्राजंस्तिलबीजोद्भवे यथा ॥
सुकृष्टक्षेत्रजाद्दृष्टं देवे कालप्रवर्षिणि

1.164.39

एकैकस्मात्तिलात्तद्वत्फलमक्षय्यमश्नुते ॥
स्वर्लोके विष्णुलोके वा मानुष्ये यदि वा नृप ॥
अक्षय्यं फलमाप्नोति एकैकस्मात्तिलात्तिलात्

1.164.1.164.40

तस्मात्प्रयत्नेन नरेन्द्रचन्द्र तस्या समभ्यर्चय वासुदेवम् ॥
उपोषितः प्रीतमना यथावत्त्राणं स देवः प्रथितो नराणाम्

1.164.164

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे चण्डवेगोपाख्याने तिलद्वाद शीमाहात्म्यवर्णनं नाम चतुःषष्ट्यधिकशततमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc