विष्णुधर्मोत्तरपुराणम् · अध्याय 1.163
वज्र उवाच॥
एकामुपोष्य कृष्णां यां द्वादशीं विधिना नरः ॥
महत्फलमवाप्नोति तां समाचक्ष्व भार्गव
मार्कण्डेय उवाच ॥
पौष्यान्तु समतीतायां श्रवणेन तु संयुता ॥
द्वादशी या भवेत्कृष्णा प्रोक्ता सा तिलद्वादशी
तिलैः स्नानं तिलैर्होमं नैवेद्यं तिलमोदकैः ॥
दीपाश्च तिलतैलेन तथा देयं तिलोदकम्
तिलाश्च देया विप्रेभ्यस्तस्मिन्नहनि पार्थिव ॥
उपवासदिने राजन्होतव्याश्च तथा तिलाः
उपोषितेनापरेऽह्नि होतव्याश्च विशेषतः ॥
इन्धनं च प्रदातव्यं ब्राह्मणेभ्यस्तथाऽनघ
तिलप्रस्थं तदा हुत्वा सोपवासो जितेन्द्रियः ॥
न दुर्गतिमवाप्नोति नात्र कार्या विचारणा
तद्विष्णोः परमं पदं होममन्त्रः प्रकीर्तितः ॥
पौरुषं च ता सूक्तं श्रीसूक्तेन च संयुतम
होमः कार्योऽथ राजेन्द्र सावित्र्या च यतात्मना ॥
एतत्प्रोक्तं द्विजातीनां स्त्रीशूद्रेषु तथा शृणु
द्वादशाष्टाक्षरो मंत्रस्तेषां प्रोक्तो महात्मनाम् ॥
हितौ तौ च द्विजातीनां मन्त्रश्रेष्ठौ नराधिप
ताभ्यामभ्यधिको मन्त्रो विद्यते नेह कुत्रचित् ॥
वज्र उवाच ॥
द्वादशाष्टाक्षरौ मन्त्रौ कथयस्व ममानघ
पुण्यौ पवित्रौ मङ्गल्यौ सर्वपापप्रणाशनौ ॥
मार्कण्डेय उवाच ॥
ॐ नमो भगवते वासुदेवाय॥
ॐ नमो नारायणाय
एतौ मया ते कथितौ पवित्रौ मन्त्रोत्तमौ पापहरौ वरेण्यौ ॥
पारायणौ सर्वतपस्विनां च रहस्यभूतौ भुवनेषु नित्यम्
यथा तिथिस्ते श्रवणेन युक्ता माघस्य मासस्य तथा तवोक्ता ॥
कार्या तथेयं नृपते विशेषाद्योगे पवित्रे सरितोर्द्वयस्य
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे तिलद्वादशीप्रशंसावर्णनं नाम त्रिषष्ट्यधिक शततमोऽध्यायः
मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0