भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 1.162

1.162.1

मार्कण्डेय उवाच ॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ॥
महत्यरण्ये यद्वृत्तं भूमिपाल पुरातनम्

1.162.2

देशा दाशेरका नाम तेषां भागे तु पश्चिमे ॥
अस्ति राजन्मरुर्देशः सर्वसत्त्वभयङ्करः

1.162.3

सुतप्तसिकता भूमिर्यत्र दुष्ट महोरगा ॥
स्वल्पच्छायासमाकीर्णा मृतप्राणिसमाकुला

1.162.4

शमीखदिरफुल्लासकरीराः पैलुभिः सह ॥
तत्र भीमा द्रुमगणाः कण्टकैरावृताः समम्

1.162.5

चण्डप्राणिगणाकीर्णा तत्र भूमिस्तथा क्वचित् ॥
अत्यन्ततापविषमा निस्तृणा परुषोपला

1.162.6

नाश्रयस्तत्र नाहारो ज्वलिताग्निसमे भृशम् ॥
तथापि तत्र जीवन्ति जनाः कर्मनिबन्धनात्

1.162.7

नोदकं नोदकधरा राजंस्तत्र बलाहकाः ॥
कदाचिदपि दृश्यन्ते देशे निरयसन्निभे

1.162.8

तत्र पक्षान्तरगतैस्तृषितैः शिशुभिः सह ॥
उत्क्रान्तजीविता राजन्दृश्यन्तेऽथ विहङ्गमाः

1.162.9

उत्प्लुत्योत्प्लुत्य सहसा मृगाः सैकतमालयात ॥
सैकतेष्वेव नश्यन्ति जले सैकतसेतुवत्

1.162.1.162.10

तस्मिंस्तथाविधे देशे कश्चिद्दैववशाद्वणिक् ॥
वनमातपविभ्रष्टः प्रविष्टस्तु परिभ्रमन्

1.162.11

स तत्र ददृशे प्रेतान्क्षुत्तृष्णाव्याकुलेन्द्रियान् ॥
उत्कचान्मलिनान्रूक्षान्निर्मांसान्भीमदर्शनान्

1.162.12

स्नायुबद्धस्थिराकायान्धावमानानितस्स्तः ॥
कञ्चित्समांसं तत्रैकं प्रेतस्कन्धगतं तदा

1.162.13

ददर्श बहुभिः प्रेतैः समन्तात्परिवारितम् ॥
तत्स्कन्धादपरं स्कंधं नीयमानं क्रमात्कमात्

1.162.14

प्रेतोऽपि दृष्ट्वा तां घोरामटवीं नरमागतम् ॥
प्रेतस्कन्धान्महीं गत्वा तस्यान्तिकमुपागमत्

1.162.15

सोऽभिवाद्य वणिकछ्रेष्ठमिदं वचनमब्रवीत् ॥
अस्मिन्घोरे महारण्ये प्रवेशो भवतः कथम्

1.162.16

तमुवाच वणिग्धीमान्सार्थभ्रष्टस्य मे वने ॥
प्रवेशो दैवयोगेन पूर्वकर्मकृतेन तु

1.162.17

तृष्णा मे बाधतेऽत्यर्थं क्षुत्क्षामश्च भृशं तथा ॥
प्राणाः कण्ठमनुप्राप्ता वदनं भ्रश्यते च मे

1.162.18

अत्रोपायं न पश्यामि ध्रियेऽहं येन केन चित् ॥
इत्येवमुक्तः प्रेतस्तु वणिजं वाक्यमब्रवीत्

1.162.19

पुन्नागमिममाश्रित्य प्रतीक्षस्व क्षणं मम ॥
कृतातिथ्यो मया यावद्गमिष्यसि यथासुखम्

1.162.1.162.20

एवमुक्तस्तदा चक्रे स वणिक्तृष्णयान्वितः ॥
मध्याह्नसमये प्राप्ते प्रेतस्तं देशमागमत्

1.162.21

पुन्नागवृक्षाच्छीतोदां वारिधानीं मनोरमाम् ॥
दध्योदनसुयुक्तेन वर्धमानेन संयुताम्

1.162.22

अवतार्य ततस्त्वग्रं प्रददाति च यत्तदा ॥
ततोऽग्रमात्रेण वणिक्परां तृप्तिमुपागतः

1.162.23

वितृष्णो विज्वरश्चैवं क्षणेन समपद्यत ॥
ततः प्रेतेषु सर्वेषु क्रमाद्भागं तदा ददौ

1.162.24

दध्योदनात्सपानीयात्तेऽपि तृप्तिं परां ययुः ॥
अथ सन्तर्पयित्वा तु प्रेतांस्तान्स तु सर्वशः

1.162.25

प्रेताधिपः स बुभुजे पश्चादन्नं यथासुखम् ॥
तस्य भुक्तवतस्त्वन्नं पानीयं च क्षयं ययौ

1.162.26

प्रेताधिपं ततस्तृप्तं वणिग्वचनमब्रवीत् ॥
आश्चर्यमेतत्परमं वनेऽस्मिन्प्रतिभाति मे

1.162.27

अन्नपानस्य सम्प्राप्तिः परमस्य कुतस्तव ॥
स्तोकेन च तथान्नेन बिभर्षि च बहून्कथम्

1.162.28

तृप्ता अपि कथं सर्वे निर्मांसा भिन्नकुक्षयः ॥
कश्चित्त्वमस्यां घोरायामटव्यां तु कृतालयः

1.162.29

एतन्मे संशयं छिन्धि परं कौतूहलं हि मे ॥
एवमुक्तः स वणिजा प्रेतो वचनमब्रवीत्

1.162.1.162.30

वाणिज्यसक्तस्य पुरा कालो ऽतीतो ममानघ ॥
शाकले नगरे रम्ये नास्तिकस्य दुरात्मनः

1.162.31

धनलोभान्मया तत्र न कदाचिदपि प्रभो ॥
दत्तासीद्भिक्षवे भिक्षा कृपणेन कथञ्चन

1.162.32

प्रातिवेश्यश्च तत्रासीद्ब्राह्मणो गुणवान्मम ॥
श्रवणद्वादशीयोगे मासि भाद्रपदे तदा

1.162.33

स कदाचिन्मया सार्धं तौषीं नाम नदीं ययौ॥
तस्याश्च सङ्गमः पुण्यो यत्रासीच्चन्द्रभागया

1.162.34

चन्द्रभागासरिच्छ्रेष्ठा यत्र शीतामलोदका ॥
महादेवजटाजूटे गङ्गा निपतिता पुरा

1.162.35

चन्द्रेण भागतो न्यस्ता चन्द्रभागा स्मृता ततः ॥
तत्कालतप्तसलिला तौषी तत्रार्कनन्दिनी

1.162.36

शीतोष्णे चोदके तस्मिन्संगमे सुमनोहरे॥
तं स देशं समासाद्य प्रातिवेश्यमसौ द्विजः

1.162.37

श्रवणद्वादशीयोगे स्नानार्चन उपोषितः॥
चान्द्रभागस्य तोयस्य वारिधानी नवा दृढा

1.162.39

दध्योदनयुतैः सार्धं सम्पूर्णैर्वर्धमानकैः ॥
छत्रैश्चोपानहै रम्यैर्वस्त्रैश्च विविधैर्युता।३८॥
प्रददौ विप्रमुख्येभ्यो रहस्यज्ञो महीपतिः॥
चित्तसंरक्षणार्थाय तस्यापि च तदा मया

1.162.1.162.40

सोपवासेन दत्तैका वारिधानी नवा दृढा॥
चान्द्रभागस्य तोयस्य दध्योदनयुता तदा

1.162.41

गत्वा गृहमनुप्राप्य ततः कालेन केनचित्॥
पञ्चत्वमहमासाद्य नास्तिक्यात्प्रेततां गतः

1.162.43

अस्यामटव्यां घोरायां यो वा ह्यकुशलस्तदा ॥
श्रवणद्वादशीयोगे दत्ता यासौ मयानघ॥ ।४२।
दध्योदनयुता रम्या वारिधानी नवा दृढा॥
सेयं मध्याह्नसमये दिवसे दिवसे मम

1.162.44

उपतिष्ठेत्सदैवेह यथा दृष्टा त्वयानघ ॥
ब्रह्मस्वहारिणस्त्वेते पापाः प्रेतत्वमागताः

1.162.45

परिदाररताः केचित्स्वामिद्रोहरता परे॥
मित्रद्रोहरताः केचिद्देशेऽस्मिन्भृशदारुणे

1.162.46

ममानुयानं कुर्वन्ति अन्नपान कृतेऽनघ ॥
अक्षयो भगवान्विष्णुः परमात्मा सनातनः

1.162.47

तमुद्दिश्य तु यद्दत्तं तदक्षय्यं प्रकीर्तितम्॥
अक्षय्येन तथान्नेन तृप्ता अपि हि मानद

1.162.48

प्रेतभावेन दौर्बल्यं न विमुञ्चन्ति कर्हिचित् ॥
अहं च पूजयित्वा त्वामतिथिं समुपस्थितम्

1.162.49

प्रेतभावाद्विनिर्मुक्तो यास्यामि परमां गतिम् ॥
मया विहीनाः प्रेतास्तु वनेऽस्मिन्भृशदारुणे

1.162.1.162.50

पीडामनुभविष्यन्ति दारुणां कर्मयोगजाम्॥
एतेषां त्वं महाभाग भदनुग्रहकाम्यया

1.162.51

प्रत्येकं गोत्रनामानि गृह्णीष्व लिखितेन च ॥
अस्ति कक्ष्यागतवेषा तव सा पुस्तिका शुभा

1.162.52

हिमवन्तमथासाद्य तत्र त्वं लप्स्यसे निधिम् ॥
गयाशीर्षे ततो गत्वा श्राद्धं कुरु महामते

1.162.53

एकैकं त्वमथोद्दिश्य प्रेतं प्रेतं यथासुखम् ॥
ततस्तु ते विमोक्ष्यन्ति प्रेत भावमसंशयम्

1.162.54

इत्येवं स वदन्नेव तप्तजाम्बूनदप्रभः ॥
विमानवरमास्थाय स्वर्गलोकं ततो गतः

1.162.55

स्वर्चिते प्रेतनाथे तु प्रेतानां स वणिक्क्रमात् ॥
नामगोत्राणि सङ्गृह्य प्रयातः स हिमालयम्

1.162.56

तत्र प्राप्य निधिं गत्वा निक्षिप्य च तथा गृहे ॥
धनं किञ्चिदुपादाय गयाशीर्षं ततो ययौ

1.162.57

प्रेतानां क्रमशस्तत्र चक्रे श्राद्धं दिनेदिने ॥
यस्ययस्य यदा श्राद्धं करोति स महान्वणिक्

1.162.58

सस तस्य तदा स्वप्ने दर्शयत्यात्मनस्तनुम् ॥
ब्रवीति च महाभाग प्रसादेन तवानघ

1.162.59

प्रेतभावो मया त्यक्तः प्राप्तोऽस्मि त्रिदिवं धुवम् ॥
कृत्वा स धनदानेन प्रेतानां निष्कृतिं वणिक्

1.162.1.162.60

जगाम स्वगृहं तत्र मासि भाद्रपदे तदा ॥
श्रवणद्वादशीयोगे पूजयित्वा जनार्दनम्

1.162.61

धनं च दत्त्वा विप्रेभ्यः सोपवासो जितेन्द्रियः ॥
पुण्येषु सततं राजन्नदीनां सङ्गमेषु च

1.162.62

गङ्गासरय्वोर्गङ्गायाः शोणस्य च महामतिः ॥
इक्षुमत्याश्च गङ्गाया गङ्गायमुनयोस्तथा

1.162.63

गोमत्याश्च सरय्वाश्च कौशिकीगण्डक्योस्तथा ॥
विपाशया देवह्रदा यत्र योगं प्रपद्यते

1.162.64

विपाशा च तथा योगं यत्र याति शतद्रुणा ॥
इरावती तथा योगं यत्र व्रजति सिन्धुना

1.162.65

चन्द्रभागा च व्रजति यत्र योगं वितस्तया ॥
महासिन्धुश्च संयोगं यत्र याति वितस्तया

1.162.66

प्रत्यब्दं यावदेतेषु संगमेषु महावणिक् ॥
करोति विधिवद्दानं यावद्दिष्टान्तमागतः

1.162.67

अवाप परमं स्थानं दुर्लभं यत्तु जन्तुभिः ॥
यत्र कामफला वृक्षा नद्यः पायसकर्दमाः

1.162.68

शीतलामलपानीयाः पुष्करिण्यो मनोहराः ॥
सुवर्णसिकता राजन्मणिसोपानभूषिताः

1.162.69

आनन्त्याय स संप्राप्तो देशं तं भूरिदक्षिणः ॥
तं देशमासाद्य वणिङ्महात्मा सुतप्तजाम्बूनदभूषिताङ्गः ॥
कल्पं समग्रं मुदितो यदात्मा रेमे स रामाभियुतः कृतात्मा

1.162.1.162.70

विमानैरप्सरोभिश्च सिद्धगन्धर्वसेवितः ॥
विष्णुलोकमवाप्नोति यावदाभूतसंप्लवम्

1.162.71

राजसूयादिभिर्यज्ञैर्यत्फलं समवाप्यते ॥
श्रवणद्वादशीं कृत्वा तत्फलं लभते नरः

1.162.162

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे पिशाचमोक्षणे श्रवणद्वादशीमाहात्म्यवर्णनं नाम द्विषष्ट्यधिकशततमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc