भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 1.161

1.161.1

वज्र उवाच ॥
उपवासासमर्थानां शुक्लपक्षे द्विजोत्तम ॥
एका या द्वादशी पुण्या तां वदस्व ममानघ

1.161.2

मार्कण्डेय उवाच ॥
मासि भाद्रपदे शुक्ला द्वादशी श्रवणान्विता॥
महती द्वादशी ज्ञेया उपवासे महाफला

1.161.3

सङ्गमे सरितोः पुण्ये द्वादशीं तामुपोषितः ॥
अयत्नादेवमाप्नोति द्वादशद्वादशीफलम्

1.161.4

बुधश्रवणसंयुक्ता सैव चेद्द्वादशी भवेत् ॥
अत्यन्तमहती यस्यां सर्वं कृतमथाक्षयम्

1.161.5

द्वादशी श्रवणोपेता यदा भवति पार्थिव ॥।
सङ्गमे तु तदा स्नात्वा सत्तीर्थस्नानजं फलम्

1.161.6

सोपवासः समाप्नोति नात्र कार्या विचारणा ॥
वारिधानीं तदा दत्त्वा जलपूर्णां द्विजातये

1.161.7

छन्नां वस्त्रयुतां राजञ्छत्रोपानहसंयुताम् ॥
स्वर्गलोकमवाप्नोति कुलमुद्धरति स्वकम्

1.161.8

स्वर्गं समासाद्य चिरं च भोगान्भुक्त्वा महेन्द्रोपम देवतुल्यान् ॥
मानुष्यमासाद्य भवत्यरोगो धनान्वितो धर्मपरो मनस्वी

1.161.161

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे श्रावणाद्वादशीप्रशंसावर्णनं नामैकषष्ट्यधिकशततमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc