भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 1.160

1.160.1

वज्र उवाच ॥
केवलं कृष्णपक्षस्य द्वादशीषु जनार्दनम् ॥
कदाप्रभृति धर्मज्ञ विधिना केन चार्चयेत्

1.160.2

मार्कण्डेय उवाच ॥
मार्ग्यां तु समतीतायां द्वादशी या भवेन्नृप ॥
ततः प्रभृति कर्तव्यं व्रतमेवमुपोषितः

1.160.3

द्वादशीषु च कृष्णासु नाम कृष्णस्य कीर्तयेत् ॥
तेनैव नाम्ना कर्तव्यौ जपहोमौ तथैव च

1.160.4

तिलैर्निवेदनं कार्यं होमः कार्यस्तथा तिलैः ॥
पौष्यां तु समतीतायां कृष्णा या द्वादशी भवेत्

1.160.5

तस्यां व्रतावसाने तु तिलान्दद्याद्द्विजातिषु ॥
सुवर्णं च महीपाल रक्तवस्त्रं तथैव च

1.160.6

सम्वत्सरमिदं कृत्वा व्रतं मनुजपुङ्गव ॥
तिर्यग्योनिं न चाप्नोति स्वर्गलोकं च गच्छति

1.160.7

यावज्जीवं व्रतमिदं यः करोति समाहितः ॥
न स दुखं समाप्नोति नरकं न नराधिप

1.160.8

यत्र वैतरणी दुर्गा क्षुरधाराश्च पर्वताः ॥
पापानां यातना यत्र तत्रासौ न गमिष्यति

1.160.9

यस्यां गणाः भीमबला महोग्रा दंष्ट्राकराला विकटोग्रवेषाः ॥
विद्रावणाः पापकृतां नराणां न येन तस्या नृप यन्ति मार्गम्

1.160.160

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे प्रतिकृष्णपक्षद्वादशीविधिर्नाम षष्ट्यधिकशततमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc