विष्णुधर्मोत्तरपुराणम् · अध्याय 1.159
॥ वज्र उवाच ॥ ॥
भगवञ्छ्रोतुमिच्छामि द्वादशीषु पृथक्पृथक् ॥
उपोष्य कि फलं लोके शुक्लपक्षे विधीयते
अनेकजन्मसाहस्रैर्येषां पापं क्षय गतम् ॥
अकामास्ते प्रवर्तन्ते देवदेवार्चने नराः
मार्कण्डेय उवाच ॥
द्वादश्यां मार्गशीर्षस्य शुक्लपक्षे उपोषितः ॥
नाम्ना केशवमभ्यर्च्य वह्निष्टोमफलं लभेत्
नारायणं तथाभ्यर्च्य पौषे मासे जगत्पतिम् ॥
अत्यग्निष्टोममाप्नोति नात्र कार्या विचारणा
माघे माधवमभ्यर्च्य द्वादशाब्दफलं लभेत् ॥
गोविन्दं फाल्गुने मासि पूजयित्वा मही धर
अतिरात्रस्य यज्ञस्य फलं प्राप्नोत्यसंशयम् ॥
चैत्रे विष्णुमथाभ्यर्च्य वाजपेयफलं लभेत्
द्वादश्यां मासि वैशाखे सम्पूज्य मधुसूदनम् ॥
गोसवस्य तु यज्ञस्य फलं प्राप्नोत्यनुत्तमम्
ज्येष्ठे मासे तथाभ्यर्च्य देवदेवं त्रिविक्रमम् ॥
पुण्डरीकस्य यज्ञस्य फलं विन्दति मानवः
आषाढे वामनं देवं पूजयित्वा जगत्पतिम् ॥
क्षिप्रमेव समाप्नोति यज्ञं बहुसुवर्णकम्
श्रीधरं श्रावणे मासि पूजयित्वा महेश्वरम् ॥
वैष्णवस्य तु यज्ञस्य फलं विन्दत्यसंशयम्
मासे भाद्रपदे देवं हृषीकेशं समर्चयन् ॥
अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत्
आश्विने मासि संप्राप्ते पद्मनाभं समर्चयन् ॥
राजसूयमवाप्नोति नात्र कार्या विचारणा
दामोदरमथाभ्यर्च्य कार्तिके मासि यादव ॥
सर्वमेधमवाप्नोति स्वर्गलोकं च गच्छति
मासोक्तेन सदा नाम्ना शुक्लपक्षे ह्युपोषितः ॥
द्वादशीषु सदा कुर्याज्जप्यहोमान्समाहितः
संवत्सरान्ते दातव्यं घृतपूर्णं च भाजनम् ॥
कांस्यस्य वैनतेयं च रुक्मपत्रनिवेशितम्
क्रमोपवासतस्त्वेते प्रोक्ता यज्ञफला नृप ॥
पूर्णं संवत्सरं कृत्वा व्रतमेतन्नराधिप
स्वर्गलोकमवाप्नोति कुलं चैव समुद्धरेत् ॥
देवरामागणस्थेन वीणागुरुजनादिना
हंससारसयुक्तेन विमानेनार्कवर्चसा ॥
किङ्किणीशतघोषेण विहरत्यमरप्रभः
यावज्जीवं नरः कुर्याद्व्रतमेतत्समाहितः ॥
श्वेतद्वीपमवाप्नोति यत्र चन्द्रप्रभा नराः
चतुर्भुजा महासत्त्वा नित्यतृप्ताः सुगन्धिनः ॥
अनिष्यन्दा निराहाराः सर्वज्ञाः सर्वदर्शिनः
तत्रोष्य कालं सुचिरं नरेन्द्र भित्त्वार्कबिम्बं सहसा प्रयाति ॥
स्थानं पुरो देववरस्य विष्णोर्नित्यस्य तस्यानघ सर्वगम्य
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शुक्लपक्षद्वादशीविधिर्नामैकोनषष्ट्यधिक शततमोऽध्यायः
मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0