भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 1.158

1.158.1

॥ मार्कण्डेय उवाच ॥ ॥
मार्गशीर्षस्य मासस्य शुक्लपक्षाज्जनाधिप ॥
आरऽभ्याभ्यर्चयेद्देवं द्वादशीषु सदैव तु

1.158.2

पक्षयोरुभयोर्नित्यं सोपवासो जितेन्द्रियः ॥
फलैः पुष्पैर्यथाकामं नैवेद्यैर्होमकर्मणा

1.158.3

पूजने ब्राह्मणानां च शक्त्या दानं च पार्थिव ॥
अभीष्टनामजप्येन पूर्णात्संवन्सरान्नरः

1.158.4

तदेवाप्नोति राजेन्द्र यत्र गत्वा न शोचति ॥
अकामाः सात्त्विका देवं पूजयन्ति जनार्दनम्

1.158.5

तस्मादकामेन नरेन्द्रचन्द संपूजनीयो भुवनस्य गोप्ता ॥
त्यक्त्वा वणिज्यं नरदेव लोके देवेश्वरो विष्णुरुपासनीयः

1.158.158

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे कामद्वादशीवर्णनं नामाष्ट पञ्चाशदधिकशततमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc