विष्णुधर्मोत्तरपुराणम् · अध्याय 1.157
॥ वज्र उवाच ॥
द्वादशीषु कथं विष्णुः सोपवासेन पूजितः ॥
राज्यप्रदः स्याद्धर्मज्ञ तन्मे त्वं ब्रूहि तत्त्वतः
पश्य राज्यस्य माहात्म्यं यत्र धर्मसखावुभौ ॥
शृणु तस्य च धर्मस्य फलभाग्धार्मिको नृपः
ब्रह्मचारी गृहस्थश्च वानप्रस्थोऽथ भिक्षुकः ॥
राज्ञा संरक्षिताः सर्वे शक्या धर्मं निषेवितुम्
मानुषेण शरीरेण राजा देववपुर्धरः ॥
क्षत्त्रियोऽपि सदा पूज्यो ब्राह्मणानां महात्मनाम्
विना राज्यं हि या लक्ष्मीः परतन्त्रा हि सा मता ॥
तस्माद्राज्यं प्रशंसन्ति तत्राज्ञा न विहन्यते
तुल्यधातुशरीराणां तुल्यावयवजीविनाम् ॥
नरेन्द्राणां नरैर्ब्रह्मन्देववद्भुवि मन्यते
राज्यदां द्वादशीं तस्माद्वक्तुमर्हति मे भवान् ॥
यामुपोष्य महद्राज्यं प्राप्नुयात्स तु वै द्विजः
मार्कण्डेय उवाच ॥
शृणुष्वावहितो राजन्राज्यदां द्वादशीं शुभाम् ॥
यामुपोष्य नरो लोके राज्यमाप्नोत्यकण्टकम्
मार्गशीर्षस्य मासस्य शुक्लपक्षे नराधिप ॥
दशम्यां प्रयतः कृत्वा स्नानमभ्यङ्गपूर्वकम्
उपवासस्य संकल्पं श्वोभूतस्य तु कारयेत् ॥
देवागारे कुशास्तीर्णामेकवस्त्रोत्तरच्छदाम् ॥1.157.१ ०॥
अध्यासीत महीं तत्र तां रात्रिं प्रयतो नयेत् ॥
द्वितीयेऽह्नि ततः कुर्याद्बहिः स्नानमतन्द्रितः
पूजनं देवदेवस्य सर्वं शुक्लेन कारयेत् ॥
कर्पूरं चन्दनं देयं मल्लिका श्वेतयूथिका
जात्या च शुक्ला राजेन्द्र धूपे कर्पूरमेव च ॥
घृतेन दीपा दातव्या शुक्लवर्तिसमन्विता ।
घृतौदनं दधि क्षीरं परमान्नं तथैव च ॥
इक्षुमिक्षुविकारांश्च देवदेवे निवेदयेत्
कालोद्भवं मूलफलं वर्णं तत्र न चिन्तयेत ॥
यथालाभेन तद्देयं शुक्लं चेत्स्याद्विशेषतः
हवनं च ततः कार्यं परमान्नेन पार्थिव ॥
तद्विष्णोः परं इत्येवं होममन्त्रो विधीयते
द्वादशाक्षरकं मन्त्रं स्त्रीशूद्रस्य विधीयते ॥
ततोऽग्निहवनं कृत्वा शक्त्या सम्पूज्य च द्विजान्
सितरंगेन कर्तव्या भूमिशोभा सुरालये ॥
रात्रौ जागरणं कार्यं गीत नृत्यं च पार्थिव
कर्मणा चैव देवस्य कर्तव्यं श्रवणं तथा ॥
द्वादश्यां विधिनाऽनेन भूयः पूज्यो जनार्दनः ॥।
राजलिङ्गं प्रदातव्यमेकं विप्राय दक्षिणा ॥
ततस्तु पश्चाद्भोक्तव्यं हविष्यं पार्थिवोत्तम
एकादशी यथा मध्ये स्नानयोरन्तरे नृप ॥
कष्टं मौनं तु कर्तव्यं जप्यं कार्यं तु मानसम्
द्वादशीष्वेव शुक्लासु सर्वास्वेवाविशेषतः ॥
विधिस्तवायं निर्दिष्टः कृष्णास्वेव च कारयेत्
विशेषं ते प्रवक्ष्यामि तन्मे निगदतः शृणु ॥
रक्तवर्णेन कर्तव्या देवपूजा यथाविधि
रक्तं च देयं नैवेद्यं पुष्पगन्धानुलेपनम् ॥
तिलतैलेन दीपाश्च महारञ्जनरञ्जिताः
दीपेषु वर्तयो देया होमः कार्यस्तथा तिलैः ॥
भूमिशोभा च कर्तव्या रक्तैर्भूपालवर्णकैः
अनेन विधिना कृत्वा राजन्संवत्सरं ततः ॥
कार्तिक्यां समतीतायां कृष्णा या द्वादशी भवेत्
व्रतावसाने तस्यां तु महावर्तिं तु दापयेत् ॥
वाससा च समग्रेण तुलया च घृतस्य वै
ब्राह्मणाय प्रदातव्या धेनुः कांस्योपदोहना ॥
हेमशृङ्ग्री रौप्यखुरा मुक्तालांगूलभूषिता
वस्त्रोत्तरीया दातव्या शक्त्या द्रविणसंयुता ॥
संवत्सरेण राजा स्यान्नरः पर्वतगह्वरे
त्रिभिः संवत्सरैः पूर्णैर्जायते सफलं ततः ॥
तथा द्वादशभिः पूर्णे राजा भवति पार्थिवः
राज्यप्रदा तेऽभिहिता मयैषा सुद्वादशी पापहरा वरिष्ठा ॥
उपोष्य यां भूमितले नरेन्द्रो भवत्यजेयश्च रणेऽरिसंघैः
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे राज्यप्रदद्वादशीविधिर्नाम सप्तपञ्चाशदधिकशततमोऽध्यायः
मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0