भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 1.156

1.156.1

॥ पुरूरवा उवाच ॥
भगवन्सर्वधर्मज्ञ पितामह महाद्युते ॥
गुरुत्वं मे व्रते तस्मिन्कर्तुमर्हसि मानद

1.156.2

व्रतावसाने च तथा सामग्र्यं द्विजपुङ्गव ॥
एवं शक्योस्म्यरण्येस्मिन्कर्तुं ब्रह्मन्महद्व्रतम्

1.156.3

अत्रिरुवाच ॥ तव प्रसादं भगवान्सर्वात्मा मधुसूदनः ॥
कुरुतेऽहं करिष्यामि गुरुत्वमपराजितः

1.156.4

व्रतावसाने च तथा सामग्र्यं द्विजपुङ्गवैः ॥
कामास्सन्निहिताश्चान्यैर्देशेऽस्मिन्नृप सर्वदा

1.156.5

मार्कण्डेय उवाच ॥
एवमुक्त्वा स धर्मात्मा सप्तमे च दिने तदा ॥
ज्येष्ठायां सप्तमीयोगे ग्राहयामास तं व्रतम्

1.156.6

पादर्क्षात्तु प्रभृत्येवमृक्षेऋक्षे नराधिपः ॥
कारयामास देवस्य कथिताङ्गादिपूजनम्

1.156.7

स्नानं नक्षत्रनिर्दिष्टं नक्षत्रस्य च पूजनम् ॥
नक्षत्रदैवतस्यापि सोमस्य वरुणस्य च

1.156.8

पूजनं च तथा विष्णोर्देवदेवस्य चक्रिणः ॥
होमं तथैव सर्वेषां यथावन्मनुजेश्वर

1.156.9

माघशुक्लमघां प्राप्य द्वादशीं च तथा तिथिम् ॥
अत्रिर्व्रतावसाने तमागतो ब्राह्मणैः सह

1.156.1.156.10

व्रतावसाने संपूज्य केथवाङ्गार्चिसोमजान ॥
राज्यं निवेदयामास सोऽत्रेः सकलमेव हि

1.156.11

प्रतिगृह्य च तद्राज्यं तस्माद्वै मन्त्रविन्नृप ॥
भूयः प्रादात्स तस्यैव वचनञ्चेदमब्रवीत्

1.156.12

न मे राज्येन कर्तव्यं किञ्चिदेवास्ति पार्थिव ॥
न धनेन न कामेन याजिता ध्रुवयाज्ञियाः

1.156.13

समत्वं राजशार्दूल स्वस्ति गच्छ गृहान्प्रति ॥
एवमुक्त्वा ययावत्रिरन्तर्धानमथेश्वरः

1.156.14

सर्वैर्द्विजगणैः सार्धं तदा गत्वा स पार्थिवः ॥
देवपुष्कारणीतोये स्नातमात्रो बभूव ह

1.156.15

तप्तजाम्बूनदाकारो नीलकुञ्चितमूर्धजः ॥
पृथुवक्षा महाबाहुस्तनुकुक्षिर्महाकटिः

1.156.16

गन्धर्वराजप्रतिमः सर्वसत्त्ववशङ्करः ॥
रूपं तु तादृशं तस्य दृष्ट्वा गन्धर्वसत्तमाः

1.156.17

तथैवाप्सरसो मुख्या दिष्ट्या दिष्ट्येति तेऽबुवन् ॥
सभाज्य पार्थिवं तेन पूजिताः प्रययुः सुखम्

1.156.18

नीत्वा संवत्सरं तत्र पूर्णे संवत्सरं नृपः ॥
देवतांश्चाप्यथामन्त्र्य पूजयित्वा यथाविधि

1.156.19

तथा पुष्करिणीं पुण्यां गुहां पद्मसरस्तथा ॥
आश्रमं शैलमुख्यं च तथैव च वनस्पतिम्

1.156.1.156.20

गन्धर्वाप्सरसश्चैव प्रययौ स्वपुरं ततः ॥
उच्चसङ्गमसम्प्राप्ता दृष्टो वैषयिकैस्ततः

1.156.21

स्तुतो देवप्रसादाच्च भक्त्या तैश्चाभिनन्दितः ॥
सत्त्वरैश्च तथा कैश्चिदमात्यानां निवेदितः

1.156.22

अमात्याश्चागतं श्रुत्वा लब्धकामं नराधिपम् ॥
निर्ययुर्नगरात्तस्माच्चतुरङ्गबलान्विताः

1.156.23

राज्ञः प्रतिग्रहार्थं ते गणमुख्यपुरःसराः ॥
तैः समेत्य स राजर्षिर्यथावन्मनुजेश्वर

1.156.24

कल्पितेन गजेन्द्रेण पताकाध्वजशोभिना ॥
प्रविवेश पुरं हृष्टः शाकलं नाम नामतः

1.156.25

राज्ञः प्रवेशे तत्पौरैः सितचन्दनवारिणा ॥
बहुवर्णैस्तथा पुष्पैयथास्थाने विभूषितम्

1.156.26

चन्दनागुरुसाराणां धूपनैः सुरभीकृतम् ॥
महोच्छ्रितपताकाढ्यं माल्यदामपरिष्कृतम्

1.156.27

माल्यमोदकहस्तैश्च पौरजानपदैर्युतम् ॥
अतीव जनसंबाधमतीव सुमनोहरम्

1.156.28

प्रासादवरसंस्थाश्च गवाक्षकगतास्तथा ॥
वेदिकास्थाश्च पश्यन्ति स्त्रियस्तं मन्मथार्दिताः

1.156.29

स मुष्णन्योषितां चित्तं दृशश्च मनुजाधिपः ॥
लाजाचन्दनचूर्णैश्च कीर्यमाणः समन्ततः

1.156.1.156.30

पुष्पैश्च स्त्रीकरोन्मुक्तैः पूर्यमाणो नराधिपः ॥
अभिगम्य च तत्रासौ देवतायतनांस्ततः

1.156.31

प्रविवेश गृहं श्रीमच्छारदाभ्रचयोपमम् ॥
तत्राभिगमनं कृत्वा देवतानां यथाविधि

1.156.32

संपूज्य ब्राह्मणान्भक्त्या विविधैर्धनसञ्चयैः ॥
सभास्थं सान्त्वयामास पौरजानपदं जनम्

1.156.33

आश्वास्य प्रेषयामास गृहान्योधजनं तथा ॥
जनानुरागसंयुक्तस्ततः प्रभृति पार्थिवः

1.156.34

राजशास्त्रोपदेशेन पालयामास मेदिनीम् ॥
रेमे च सह रामाभिर्गन्धर्वप्रतिमो युवा

1.156.35

स तु कालेन महता राजा पञ्चत्वमागतः ॥
उवास सुचिरं कालं पूज्यमानः सुरोत्तमैः

1.156.36

मन्वन्तरे ह्यतीते तु चाक्षुषस्य महात्मनः ॥
वैवस्वतेऽथ सम्प्राप्ते बुधपुत्रत्वमागतः

1.156.37

तत्र तस्य तु यद्रूपं सौभाग्यादेव विश्रुतम् ॥
सशरीरस्य च तथा स्वर्लोके गमनं नृप

1.156.38

स्वर्गतोऽपि स राजर्षिः क्षीणे वैवस्वतेऽन्तरे ॥
प्रविश्यातिपुरं विष्णोश्चन्द्रमण्डलमध्यगम्

1.156.39

एतत्ते सर्वमाख्यातं कर्मणा येन पार्थिवः ॥
अवाप तादृशं रूपं सौभाग्यमपि चोत्तमम्

1.156.1.156.40

पूजयन्ति हरिं देवं सात्त्विकास्तु निराशिषः ॥
राजसाः कामकामाश्च क्रूरकामाश्च तामसाः

1.156.41

हरिं सम्पूज्य मनसा राजसेन पुरूरवाः ॥
सप्तद्वीपसमुद्रायां पृथिव्यामेकराड् बभौ

1.156.42

स्वर्गं सुदुर्लभं प्राप्य स्थानं प्राप्स्यति शाश्वतम् ॥
नास्ति विष्णुसमो नाथो नास्ति विष्णुसमा गतिः

1.156.43

नास्ति विष्णुसमं त्राणं नरस्यार्तस्य भेषजम् ॥
सत्कृतं पूजनं येन कृतं देवस्य चक्रिणः

1.156.44

आरात्रिकं कृतं तेन संप्राप्तं परमं पदम् ॥
येन संकीर्तितं राजन्हरिरित्यक्षरद्वयम्

1.156.45

बद्धः परिकरस्तेन मोक्षाय गगनं प्रति ॥
एतत्ते बुधपुत्रस्य त्रिषु जन्मसु पार्थिव ॥
चरितं सकलं प्रोक्तं येन सम्पूजितो हरिः

1.156.46

धन्यं यशस्यं रिपुनाशनं च सौभाग्यदं पुष्टिविवर्धनं च ॥
श्रोतव्यमेतन्नियतं च सद्भिराख्यानमूर्जस्करमृद्धिकामैः

1.156.156

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसम्वादे पुरूरवसस्स्वपुरगमनं नाम षट्पञ्चाशदधिकशततमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc