विष्णुधर्मोत्तरपुराणम् · अध्याय 1.155
पुरूरवा उवाच॥
श्रोतुमिच्छामि भगवन्रूपसत्रं महाफलम्॥
यत्समाप्तौ भविष्यामि दिव्यरूपधरो मुने
अत्रिरुवाच ॥ तत्सत्रं कर्तुकामेन चान्वेष्यो ब्राह्मणो गुरुः ॥
ज्योतिषं यो विजानाति इतिहासांश्च कृत्स्नशः
तत्प्रदिष्टेन विधिना पादर्क्षात्प्रभृति क्रमात् ॥
उपोषितव्यं नक्षत्रं प्रत्येकं तन्निबोध मे
फाल्गुन्यां समतीतायां कृष्णपक्षाष्टमी तु या ॥
समूलां तां तु सम्प्राप्य व्रतं गृह्णीत मानवः
उपोषितव्यं नक्षत्रं नक्षत्रस्य च दैवतम् ।
वरुणं च तथा चन्द्रं पूजयेद्विधिना नरः
पूजयेद्देवदेवेशं भगवन्तं जनार्दनम् ॥
उपोष्य सङ्गं देवस्य प्रयत्नेन च पूजयेत्
ततोऽग्निहवनं कृत्वा पूजयित्वा तथा गुरुम् ॥
उपवासस्तु कर्तव्यो द्वितीयेऽहनि पार्थिव
उपोष्य ऋक्षे विगते स्नात्वा सम्पूज्य केशवम् ॥
कृत्वाग्निहवनं शक्त्या पूजयित्वा द्विजोत्तमान्
हविष्यमन्नं भोक्तव्यं शृणु चाङ्गक्रमं मम ॥
पादयोः कथितं मूलं प्राजापत्यं तु जङ्घयोः
आश्विनं जानुयुगलं चोरुयुग्मं च पार्थिव ॥
सहिते द्वे तथाषाढे गुह्ये च सहिते स्मृते
पूर्वोत्तरे च फाल्गुन्यौ कृत्तिकासु कटिर्भवेत् ॥
पार्श्वयोः कुक्षियुतयोर्नक्षत्रत्रितयं मतम्
उभे प्रोष्ठपदे राजन्रेवती च तथा भवेत ॥
उरोऽनुराधासु तथा पृष्ठं निष्ट्यासु कीर्तितम्
भुजौ ज्ञेयौ विशाखासु हस्ते प्रोक्तौ तथा करौ ॥
अङ्गुल्यश्च तथा प्रोक्ता राजसिंह पुनर्वसौ
आश्लेषायां तथा प्रोक्ता ज्येष्ठायां नृप कन्धरा ॥
श्रवणौ श्रवणौ ज्ञेये मुखं पुष्ये प्रकीर्तितम्
दन्ताः स्वातौ शतभिषा हनू प्रोक्तौ तथा नृप ॥
मघायां नासिका प्रोक्ता मृगशीर्षे च लोचने
चित्रा ललाटे विज्ञेया भरण्यश्च तथा शिरः ॥
शिरोरुहास्तथार्द्रासु बतस्यान्ते नराधिप
माघशुक्लावसाने तु सत्रं परिसमाप्यते ॥
यद्यन्तरायं न भवेत्किञ्चिच्छौचनिमित्तजम्
अन्तरायं महाराज यदि शौचनिमित्तजम् ॥
उपोष्यमेवोपवसेन्नक्षत्रमपरं पुनः
क्रमप्राप्तं हि नक्षत्रं चाशुद्ध्यामपवर्जितम् ॥
उल्लङ्घयन्महीपाल प्रत्यवायं समश्नुते ।
।
अङ्गक्रमेण सकलमृक्षवर्गमुपोषितः॥
व्रतान्ते प्रयतः स्नात्वा पूजयेन्मधुसूदनम्
चन्दनागुरुकर्पूरमृगदर्पैः सकुङ्कुमैः ॥
जातीफलैः सकंकोलैर्लवङ्गकुसुमैस्तथा
बोलगुग्गुलनिर्यासैः पुष्पैः कालोद्भवैः शुभैः ॥
धूपो नरेन्द्रागुरुणा चन्दनेन सुगन्धिना
दीपाश्च देया राजेन्द्र तिलतैलप्रपूरिताः ॥
दीपेषु वर्तयः कार्य्या महारञ्जनरञ्जिताः
नैवेद्यं च तथा कार्यं परमान्नेन भूरिणा ॥
दध्ना क्षीरामृताभ्यां च मधुना च गुडेन च
सितया च तथा भक्ष्यैः फलमूलैर्यथाविधि॥
अपूपैः पानकैर्हृद्यैः शीतलैश्च सुगन्धिभिः
लवणस्य च पात्राणि कृसरं च निवेदयेत् ॥
सर्वबीजानि राजेन्द्र भूषणानि च शक्तितः
महार्हाणि च वस्त्राणि भक्त्या प्रयतमानसः ॥
तद्विष्णोः पग्ममिति होमः कार्यो ह्यनन्तरम्
द्वादशाक्षरकं मन्त्रं स्त्रीशूद्रेषु विधीयते ॥
घृतं माक्षिकसंयुक्तं जुहुयात्त्तिलतण्डुसम्
ततस्तु दक्षिणा देया गुरवे नृपसत्तम ॥
नागाश्च मदमत्ता वै ग्रामाश्च विविधास्तथा
तुरगाश्च तथा मुख्या रत्नानि विविधानि च ॥
ब्राह्मणश्च पिता ज्ञेयो रूपसत्रप्रदर्शकः
रूपसौभाग्यलावण्यजन्मभोगप्रदायकः ॥
राज्यस्य वा द्विजत्वस्य बहुवित्तस्य दायकः ॥
न तस्य निष्कृतिः शक्या गन्तुं दानेन भूरिणा ॥
गुरुप्रसाद एवात्र दक्षिणानां तु कारणम्
तस्मात्प्रसादमाकाङ्क्षेद्रूपसत्र प्रदर्शकात ॥
अवश्यं तस्य दातव्यं घृतपूर्णं तु भाजनम्
चतुष्पलं तु कांस्यस्य सुवर्णं काञ्चनस्य च ॥
ततः परं भोजनीयाः स्वशक्त्या द्विजपुङ्गवाः
लवणक्षीरमध्वाज्यगुडभक्ष्यसितोत्कटम् ॥
भोजनं पानकोपेतं पश्चाद्देया च दक्षिणा
वस्त्रयुग्मं प्रदातव्यं ब्राह्मणाय नवं शुभम् ॥
ब्राह्मणाय च दातव्यं महाराजतरञ्जितम्
सप्तबीजानि देयानि लवणं रूप्यमेव च ॥
यच्चान्यदप्यभीष्टं स्याच्छत्रोपानत्कमेव च
वित्तशाठ्यं न कर्तव्यं सत्रदाने महीपते ॥
अवश्यदेयं सत्रेऽस्मिन्घृतपूर्णं च भाजनम्
चतुष्पलं तु कांस्यस्य सुवर्णं काञ्चनस्य च ॥
व्रतेनानेन चीर्णेन देहत्यागे दिनं गतः
तत्रोष्य सुचिरं कालं मानुष्ये यदि जायते ॥
राजा भवति धर्मात्मा ब्राह्मणो वा धनान्वितः
कुले महति सम्भूतो रूपेणाऽप्रतिमो भुवि ॥
आरोग्यं महदाप्नोति सौभाग्यमपि चोत्तमम्
लावण्यं बुद्धि मेधे च मतिं धर्मे च शाश्वतीम् ॥
सम्पूर्णचन्द्रप्रतिमः सर्वसत्त्ववशङ्करः
नरो भवति राजेन्द्र नारी चाप्सरसोपमा ॥
सुभगा दर्शनीया च लावण्यगुणसंयुता
बहुधान्या बहुधना बहुभूपणसंयुता ॥
भर्तुश्चात्यन्तदयिता लोके ख्याता च सद्गुणैः ॥
नित्यारोग्यवती शान्ता सर्वदोषविवर्जिता
चन्द्रानना नीलसरोजनेत्रा त्रैलोक्यकान्ता पतिवल्लभा च
भवत्यवश्यं सुभगा सुनीला लावण्ययुक्ता यशसा श्रिया च
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे रूपसत्रवर्णनं नाम पञ्चपञ्चाशदधिकशततमोऽध्यायः
मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0