भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 1.152

1.152.1

मार्कण्डेय उवाच॥
तत्र यौ तौ महाशृङ्गौ महावर्षमहाहिमौ॥
तृतीयं तु तयोर्मध्ये शृङ्गमत्यन्तमुच्छ्रितम्

1.152.2

नित्यातपं तप्तशिलं सदा भगतिवर्जितम् ॥
तस्याधस्ताद्द(?)क्षगणे देशे भागे च पश्चिमे

1.152.3

जातीलतापरिक्षिप्तं विवरं चारुदर्शनम्॥
दृष्ट्वैव कौतुकाविष्टस्तं विवेश महीपतिः

1.152.4

तमसा चातिनिबिडं नल्वमात्रं महीपतिः॥
नल्वमात्रमतिक्रम्य स्वप्रभाभरणोज्वलम् ॥

1.152.5

समुच्छ्रितमथात्यन्तं गम्भीरं परिवर्तुलम् ॥
न तत्र सूर्यस्तपति न विराजति चन्द्रमाः

1.152.6

तथापि दिवसाकारं प्राकाश्यं तदहर्निशम् ॥
क्रोशाधिकपरीमाणं सरसा च विराजितम्

1.152.7

समन्तात्सरसस्तस्य शैललग्ना तु वेदिका॥
सौवर्णै राजतैर्वृक्षैर्विद्रुमैरपि शोभिता

1.152.8

नाना माणिक्यकुसुमैः स्वप्रभाभरणोज्ज्वलैः ॥
तस्मिन्सरसि पद्मानि पद्मरागच्छदानि च

1.152.9

वज्रकेसरजालानि सुगन्धीनि तथाप्यति ॥
पत्रैर्मरकतैर्नीलवैदूर्यैश्च महीपते

1.152.1.152.10

कर्णिकाश्च तथाशेषा जातरूपस्य पार्थिव ॥
तस्मिन्सरसि या भूमिर्न सा कर्दमसङ्कुला

1.152.11

नानारत्नैरुपचिता जलजानां समाश्रया ॥
कपर्दकानां शुक्तीनां शङ्खानां च महीपते

1.152.12

मकराणां च मत्स्यानां पैण्डानां कच्छपैः सह ॥
तत्र मरतकखण्डानि वज्राणि च सहस्रशः

1.152.13

पद्मरागेन्द्रनीलानि महानीलानि पार्थिव ॥
पुष्परागाणि रम्याणि तथा कर्केतकानि च

1.152.14

तुरूकस्य च खण्डानि तथा शेप(?)स्य भागशः ॥
गजावर्त्तस्य मुख्यस्य रुधिराख्यस्य चाप्यथ

1.152.15

सूर्येन्दुकान्तयोश्चैव पीलोर्भल्लातकस्य च ॥
ज्योतीरसस्य रम्यस्य शङ्खकस्य च भागशः

1.152.16

मसारगवलङ्कानां स्फटिकस्य तथैव च॥
गोमेदपित्तकानां च धूली मरकतस्य च

1.152.17

वैदूर्यसौगन्धिकयोस्तथा राजमणेर्नृप ॥
खञ्जस्य चैव मुख्यस्य तथा ब्रह्ममणेरपि

1.152.18

मुक्ताफलानां मुख्यानां ताराविग्रहधारिणाम् ॥
सुखोष्णं चैव तत्तोयं स्नानाच्छीतविनाशनम्

1.152.19

वैदूर्यस्य शिलामध्ये सरसस्तस्य शोभना॥
प्रमाणेन तथा सा च द्वे च राजन्धनुःशते

1.152.1.152.20

चतुरस्रा तथा रम्या तपसा निर्मितात्रिणा ॥
बिलद्वारसमे देशे केतुस्तत्र हिरण्मयः

1.152.21

प्रदेशः स तु राजेन्द्र द्वीपे तस्मिन्मनोहरे ॥
तथा पुष्करिणी रम्या तस्मिन्राजञ्छिलातले

1.152.22

सुशीतामलपानीया जलजैश्च विराजिता ॥
आकाशविमला राजंश्चतुरस्रा मनोहरा

1.152.23

तस्यास्तदुदकं स्वादु लघु शीतं सुगन्धि च ॥
न क्षिणोति तथा कायं कुक्षिमापूरयत्यपि

1.152.24

तृप्तिं विधत्ते परमां शरीरे च महत्सुखम् ॥
मध्ये च तस्याः सुकृतं प्रासादं तपसात्रिणा

1.152.25

रुक्मसेतुप्रवेशं तत्सर्वरत्नमयं शुभम् ॥
शशाङ्करश्मिसङ्काशं प्रासादं राजतं हितम्

1.152.26

रम्यं वैदूर्यसोपानं विद्रुमामलतारकम् ॥
इन्द्रनीलमहाचक्रञ्जातरूपविभूषितम्

1.152.27

पद्मरागमहास्तंभं तथा मरकतवेदिकम् ॥
वज्रांशुजालैश्छुरितं रम्यं दृष्टिमनोहरम्

1.152.28

प्रासादे तत्र भगवान्देवदेवो जनार्दनः ॥
भोगिभोगावलीसुप्तः सर्वालङ्कारभूषितः

1.152.29

जानुमाकुञ्चितस्त्वेकं देवदेवस्य चक्रिणः ॥
फणीन्द्रसन्निविष्टांघ्रि द्वितीयश्च तथा नृप

1.152.1.152.30

लक्ष्म्युत्सङ्गगतांघ्रिस्तु शेषभोगप्रसारितः ॥
फणीन्द्रभोगविन्यस्तबाहुकूर्परशोभितः

1.152.31

स्वाङ्गुलीपृष्ठविन्यस्त देवशीर्षधरं विभुम्॥
एकं तु देवदेवस्य द्वितीयं संप्रसारितम्

1.152.32

समाकुञ्चितजानुस्थमणिबन्धसुशोभितम् ॥
किञ्चिदाकुञ्चितं चैव नाभिदेशे करस्थितम्

1.152.33

तृतीयं च भुजं तस्य चतुर्थं तु तथा शृणु ॥
आत्तसन्तानकुसुमं प्राणदेशानुसर्पिणम्

1.152.34

लक्ष्म्या संवाह्यमानांघ्रिः फुल्लपद्मनिभैः करैः ॥
सन्तानमालामुकुटहारकेयूरभूषितम्

1.152.35

भूषितं च तथा देवमङ्गुलीयकैः ॥
फणीन्द्रफणविन्यस्तचारुरत्नशिखोज्ज्वलम्

1.152.36

अज्ञातवस्तुचरितं प्रतिष्ठितमथात्रिणा ॥
सिद्धान्तपूज्यं सततं समन्तात्कुसुमार्चितम्

1.152.37

दिव्यगन्धावलिप्ताङ्गं दिव्यधूपेन धूपितम् ॥
गोरसैः सफलैर्हृद्यैः सिद्धैरुपहृतैः सदा

1.152.38

संशोभितं पुरःपार्श्वं देवमुत्तमशीर्षकम्॥
तथा पश्चान्मुखं दृष्ट्वा ववन्दे स नराधिपः

1.152.39

जानुभ्यां शिरसा चैव गत्वा भूमिं यथाविधि ॥
नाम्नां सहस्रेण तथा तुष्टाव मधुसूदनम्

1.152.1.152.40

प्रदक्षिणमथो चक्रे स तूत्थाय पुनः पुनः ॥
रम्यमायतनं दृष्ट्वा तत्रोवासाश्रमे नृपः

1.152.41

विशालां हि गुहां काञ्चिदाश्रित्य सुमनोहराम् ॥
तपश्चचार तत्रैव पूजयानो जनार्दनम्

1.152.42

नानाविधैः सदा पुष्पैः फलैर्मूलैः सगोरसैः ॥
नित्यं त्रिषवणस्नायी वह्निपूजापरायणः

1.152.43

देववापीजलैः कुर्वन्सततं प्राणधारणम् ॥
सर्वाहारपरित्यागं स कृत्वा मनुजेश्वरः

1.152.44

अनाश्रितगुहाशायी कालं नयति पार्थिवः ॥
त्यक्ताहारक्रियस्यास्य केवलाम्भोऽशिनस्तथा ॥
ग्लानिस्तस्य समायाति न शरीरे तदद्भुतम्

1.152.45

एवं स राजा तपसि प्रसक्तः सम्पूजयन्देववरं सदैव ॥
तत्राश्रमे कालमुवास कश्चित्स्वर्गोपमे दुःखमविन्दमानः

1.152.152

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे आश्रमवर्णनो नाम द्विपञ्चाशदधिकशततमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc