भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 1.151

1.151.1

॥ मार्कण्डेय उवाच ॥
तस्यैव पर्वतेन्द्रस्य प्रदेशं सुमनोहरम् ॥
अगम्यं मानुषैरन्यैर्दैवयोगादुपागतः

1.151.2

इरावती सरिच्छ्रेष्ठा यस्माद्देशा द्विनिर्गता ॥
मेघश्यामं च तं देशं द्रुमखण्डैरनेकशः

1.151.3

सालैस्तालैस्तमालैश्च कर्णिकारैः सशाल्मलैः ॥
न्यग्रोधैश्च तथाश्वत्थैः शिरीषैः शिंशपाद्रुमैः

1.151.4

श्लेष्मातकैरामलकैर्हरीतकविभीतकैः ॥
रम्यैश्चन्दनवृक्षैश्च कपित्थै रक्तचन्दनैः

1.151.5

वटमाहिषकाक्षोटैरश्वकर्णैस्तथार्जुनैः ॥
हस्तिकर्णैः सपनसैः कोविदारैः सुपुष्पितैः

1.151.6

देवदारुमहावृक्षैस्तथा कालीयकद्रुमैः ॥
पद्मकैश्चन्दनैर्बिल्वैः कुटजैर्हरिचन्दनैः

1.151.7

प्राचीनागुरुकैश्चैव स्थूणिकैः समशण्डिकैः ॥
खर्जूरैर्नारिकेरैश्च प्रियाल्वाम्रातकेङ्गुदैः

1.151.8

तेरुमानैर्वटेर्भन्यैः काश्मीरैः फलिभिस्तथा ॥
जातीफलैः पूगफलैः कट्फलैर्लवलीफलैः

1.151.9

मन्दारैः कोविदारैश्च किंशुकैः कुसुमांशुभिः ॥
पलाशैः शमिसूल्लासैर्वेतसैरम्लवेतसैः

1.151.1.151.10

रक्तातिरङ्गनारिङ्गैरिंगुदैः सप्रियंगुभिः ॥
रक्ताशोकैस्तथाऽशोकैरारुकैः सचिरारुकैः

1.151.11

मुचुकुन्दैस्तथा कुन्दैराटरूषपरूषकैः ॥
किंकरातैः किरातैश्च केतकैश्च सकेतकैः

1.151.12

शोभाञ्जनैरञ्जनैश्च मुकूलकनिकोचकैः ॥
सुपूर्णचारुवसनैर्द्रुमैः श्रेष्ठैस्तथासनैः

1.151.13

मन्मथस्य शराकारैस्सहकारैर्मनोहरैः ॥
पीतयूथिकया राजञ्श्वेतयूथिकया तथा

1.151.14

जात्या चम्पकजात्या च तुम्बुरैश्चाप्युदुम्बरैः ॥
माषैश्चोच्चैस्सलकुचैस्तिलम्बलकुशम्बलैः

1.151.15

तथा सुपुष्पाव रणैर्वरणैः कामिवल्लभैः॥
पुष्पाकुलैश्च बकुलैः पारिभद्रकभद्रकैः

1.151.16

धाराकदंबैः कुटजैः कदंबैर्गिरिकूटजैः॥
आक्रान्तसर्वककुभैः ककुभैः कमनीयकैः॥

1.151.17

कर्कन्धुबदरैर्नीपैः दीपैरिव महोज्ज्वलैः ॥
रक्तैः पालीवतैः श्वेतैर्दाडिमैश्चण्यकद्रुमैः

1.151.18

प्रतानैः पिप्पलीनां च नागवल्याश्च भागशः ॥
मरिचस्य तथा गुल्मैर्नवमल्लिकया तथा

1.151.19

मृद्वीकामण्डलैर्मुख्यैरतिमुक्तकमण्डलैः ॥
त्रपुसैर्वारुकानां च प्रतानैः सफलैः शुभैः

1.151.1.151.20

कूष्माण्डानां प्रतानैश्च अलाबूनां तथा क्वचित्॥
चिर्भटस्य प्रतानैश्च पटोलैः कारवेल्लकैः

1.151.21

कर्कोटकैः प्रतानैश्च वार्ताकैर्बृहतीफलैः ॥
कह्लारैर्मूलकैर्मुख्यैः शाकैश्च विविधैस्तथा

1.151.23

सुवर्चलाभिः सर्वाभिः सर्षपाभिस्तथैव च ॥
काकोलीक्षीरकाकोली छत्रया चातिच्छत्रया ॥२२ ।
काकमाचीमहाबद्धिशशकर्द्दलकन्दलैः ॥
तथा क्षीरिकशाकेन कालशाकेन चाप्यथ

1.151.24

शिम्बिधान्यैस्तथा धान्यैः सर्वैर्निरवशेषतः ॥
ओषधीभिर्विचित्राभिदीप्यमानाभिरेव च

1.151.25

कन्दैर्विदार्या च तथा तरूटैः स्वादुसंयुतैः ॥
सुनिषण्णाशटीशेषाराजक्षयकवास्तुकैः

1.151.26

आयुष्याभिर्यशस्याभिर्वर्ण्याभिश्च नराधिप ॥
जरामृत्युभयघ्नाभिः क्षुद्भयघ्नाभिरेव च

1.151.27

सौभाग्यजननीभिश्च वृष्याभिश्चाप्यनेकशः ॥
वेत्रवेणुलताभिश्च तथा कीचकवेणुभिः

1.151.28

काशैः शशाङ्कसंकाशैः शरगुल्मैस्तथा क्वचित् ॥
कुशगुल्मैस्तथा रम्यैर्गुल्मैश्चेक्षुमनोहरैः

1.151.29

कार्पासया तुवर्या च दुकूलेन शुभेन च ॥
तथा च कदलीखण्डैर्मनोहारिभिरुत्तमैः

1.151.1.151.30

तथा मरकतप्रख्यैः प्रदेशैः शाद्वलान्वितैः ॥
इरापुष्पसमायुक्तैः कुङ्कुमस्य च भागशः

1.151.31

तगरातिविषामांसीग्रन्थिपर्णीसुरागदैः ॥
सुवर्णपुष्पैश्च तथा भूमिपुष्पैस्तथा परैः

1.151.32

जम्बीरिकाभूस्तृणैश्च सरसैः सृमुकैस्तथा ॥
शृङ्गवेराजमोदाभिः कुठेरकप्रियालुकैः

1.151.33

जलजैश्च तथा पद्मैर्नानावर्णैः सुगन्धिभिः ॥
उदयादित्यसंकाशैः पूर्णचन्द्रनिभैस्तथा

1.151.34

तपनीयसवर्णैश्च अतसीपुष्पसन्निभैः ॥
शुकपत्रनिभैश्चान्यैः स्थलपद्मैश्च भागशः

1.151.35

पञ्चवर्णैः समाकीर्णं बहुवणैस्तथैव च ॥
दुष्टदृष्ट्याहितमुदैः कुसुमैश्चन्द्रसन्निभैः

1.151.36

तथा वह्निशिखाकारै राजन्रक्तोत्पलैः शुभैः ॥
नीलोत्पलैः सकह्लारैर्दुर्ज्जातककशेरुकैः

1.151.37

शृङ्गाटकैर्मृणालैश्च कावाटै राक्षसोत्पलैः ॥
जलजैः स्थलजैर्मूलैः फलैः पुष्पैरशेषतः

1.151.38

विविधैश्चैव नीवारैर्मुनिभोज्यैर्नराधिप ॥
न तद्धान्यं न तत्सस्यं न तच्छाकं न तत्फलम्

1.151.39

न तन्मूलं न तत्कन्दं न तत्पुष्पं नराधिप ॥
नागलोकोद्भवं यच्च नाकलोकोद्भवं च यत्

1.151.1.151.40

अनूपबन्धनोत्थं च तन्न यत्रास्ति यादव ॥
सदा पुष्पफलं सर्वमजस्रमृतुयोगतः

1.151.41

महेश्वरः स ददृशे तपसोऽर्थाय वो गतः ॥
ददृशे च तथा तत्र नानारूपान्पतत्रिणः

1.151.82

मयूराञ्शतपत्राँश्च कलवाचककोकिलान् ॥
तथा कादम्बकान्हंसान्कुक्कुटाञ्जलकुक्कुटान्

1.151.43

कृकरान्बर्कशाञ्श्यामांस्तित्तिरान्सकपिञ्जलान् ॥
धार्तराष्ट्रान्प्लवान्मद्गून्कलविङ्काञ्छुकान्बकान्

1.151.44

चटकांश्चक्रवाकांश्च आटकांष्टिट्टिभान्सटान् ॥
पुत्रप्रियांल्लोहपृष्टान्गोनन्दगिरिवर्तकान्

1.151.45

पारावतान्कामलांश्च शारकाञ्जीवजीवकान् ॥
लाववर्तकवत्तीरान्रक्तधर्मप्रभद्रकान्

1.151.46

ताम्रचूडान्वर्णचूडान्कोयष्टीन्खञ्जरीटकान् ॥
ऋषिपुत्रान्सहारीतान्कुक्कुटान्काष्ठकुक्कुटान्

1.151.47

लट्वाँल्लटेषून्गोक्ष्वेडांस्तथा कुङ्कुमचूडकान् ॥
भृङ्गराजाञ्छारपादान्भूलिङ्गान्पिण्डिमालवान्

1.151.48

मंजूलीयकदात्यूहगोपपुत्रान्त्सवञ्जुलान् ॥
भारद्वाजांस्तथा चाषान्सुवर्णान्रजनीयकान्

1.151.49

एतांश्चान्यांश्च हि बहून्पक्षिसंघान्मनोहरान् ॥
श्वापदान्विविधाकारान्मृगांश्चैव महामृगान्

1.151.1.151.50

व्याघ्रान्केसरिणः सिंहान्वीचिनः शरभान्वृकान् ॥
ऋक्षांस्तरक्षून्बन्धूकान्गोलाङ्गूलान्सवानरान्

1.151.51

शशाँल्लोकाच्छशपलान्मार्जारान्मायवः शुनः ॥
मृषिकान्नाकुलान्काचान्सिंहान्नोड्रसुरोमकान्

1.151.52

तथा मत्तांश्च मातङ्गान्महिषान्गवयान्वृ षान्॥
चरमान्सृमरांश्चैव तथा गोरान्नखानपि

1.151.53

उरभ्रांश्च तथा मेषान्सारङ्गानथ कर्कशान् ॥
रुरून्जमृष्पदानृष्पान्मर्कटान्कर्कटान्मृगान् ॥
नीलांश्चैव महानीलान्करालमृगमार्दकान्

1.151.54

श्वदंष्ट्रान्रामशरभान्कोडकाकपशम्बरान्

1.151.55

करालान्कृतमालांश्च कालपुच्छाँस्तथारुणान् ॥
उष्ट्रान्गजान्वराहाँश्च तुरगान्खरगर्दभान्

1.151.56

एतान्पश्यन्स मद्रेशो विरुद्धांश्च परस्परम् ॥
अविरुद्धान्वने तस्मिन्निर्वृतिं च परां ययौ ॥

1.151.57

तदाश्रमपदे मुख्यो बभूवात्रिः पुरा नृप ॥
तत्प्रसादात्सदा युक्तं स्थावरैर्जङ्गमैस्तथा

1.151.58

हिंसन्ति न तथाऽन्योन्यं हिंसकास्तु परस्परम् ॥
क्रव्यादाः प्राणिनस्तत्र सर्वे क्षीरफलाशनाः

1.151.59

निर्मितास्तत्र रत्यर्थमत्रिणा सुमहात्मना ॥
शिलानां निम्नदेशेषु तत्र गावः स्वयं नृप

1.151.1.151.60

पयः क्षरन्ति तद्दिव्यममृतस्वादुसन्निभम् ॥
क्वचिद्राजमहिष्यश्च क्वचिद्राजा च भागशः

1.151.61

शिलाः क्षीरेण संपूर्णा दध्ना चान्यत्र यादव ॥
स पश्यन्परमां प्रीतिमवाप वसुधाधिपः

1.151.62

सरांसि तत्र दिव्यानि नद्यश्च विमलोदकाः ॥
मृणालकानि दिव्यानि शीतलानि च भागशः

1.151.63

कन्दराणि च शैलस्य सुखसेव्यानि यादव ॥
हिमपातो न तत्रास्ति समन्तात्पञ्चयोजनम्

1.151.64

उपत्यकासु शैलस्य शिखरेषु तु विद्यते ॥
तत्रापि राजञ्छिखरं पर्वतेन्द्रस्य पाण्डुरम्

1.151.65

हिमपातं सदा तत्र घनाः कुर्वन्ति संहताः ॥
तत्रास्ति चापरं शृङ्गं यत्र तोयं घना घनाः

1.151.66

नित्यमेवाभिवर्षन्ति शिलाभिः शिखरं खरम् ॥
तदाश्रमं मनोहारि यत्र कामधरा धराः

1.151.67

सुरमुख्योपभो ग्यत्वाच्छाखिनः सफलाः सदा। ॥
सदोपगीतभ्रमरं सुरस्त्रीसेवितामरम्

1.151.68

सर्वपापक्षयकरं शैलस्येव महाकरम् ॥
वानरैः क्रीडमानैश्च देशे देशे नराधिप

1.151.69

हंसपुञ्जाः कृतास्तत्र चन्द्रबिम्बसमप्रभाः॥
तदाश्रमसमन्ताच्च हिमसंरुद्धकन्दरम्

1.151.1.151.70

शैलवाटैः परिवृतमगम्यं मनुजैः सदा॥
पूर्वाराधितदेवेशो महाराजः पुरूरवाः

1.151.71

तदाश्रममनुप्राप्तो देवदेवप्रसादतः॥
तदाश्रमं श्रमशमनं मनोहरं मनोहरैः कुसुमशतैरलंकृतम्॥
कृतं च तत्स्वयमथ चात्रिणा शुभं शुभप्रदं तं ददृशे स मद्रराट्

1.151.151

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे महर्ष्याश्रमवर्णनन्नामैकपञ्चाशदधिकशततमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc