विष्णुधर्मोत्तरपुराणम् · अध्याय 1.153
मार्कण्डेय उवाच ॥
गत्वाश्रमपदे राजा त्यक्ताहारपरिच्छदः ॥
क्रीडाविहारैर्गन्धर्वैः पश्यत्यप्सरसस्सह
कृत्वा पुष्पोच्चयं भूरि ग्रथयित्वा तथा स्रजः ॥
अग्रे निवेद्य देवाय गन्धर्वेभ्यस्तथा ददौ
पुष्पोच्चयप्रसक्तानां क्रीडन्तीनां यथासुखम् ॥
चेष्टा नानाविधाकाराः पश्यन्नपि न पश्यति
काश्चित्पुष्पोच्चये सक्ता लताजालेन वेष्टिताः ॥
सखीजनेन सन्त्यक्ताः कान्तेन परमोक्षिताः
मकरन्दसमाक्रान्तनयनाः काश्चिदङ्गनाः ॥
कान्तनिःश्वासवातेन नीरजस्कीकृतेक्षणाः
काचिदुच्चित्य पुष्पाणि ददौ कान्तस्य भामिनी ॥
कान्तसड्ग्रथितैस्तैश्च रराज कृतशेखरा
स्वयमुच्चित्य सङ्ग्रन्थ्य रमणकृतशेखरा ॥
कृतकृत्यमिवाऽऽत्मानं मेने मन्मथवर्धिनी
अन्यस्मिन्गहने कुञ्जे विशेषकुसुमा लता ॥
काचिदेवं रहो नीता रमणेन रिरंसुना
कान्तसन्नामितलताकुसुमानि विचिन्वती ॥
सर्वाभ्यः काचिदात्मानं मेने सर्वगुणाधिकम्
क्वचित्पश्यति भूपालो नलिनीषु पृथक्पृथक् ॥
क्रीड्यमानास्तु गन्धर्वैदैवरामा मनोरमाः
काचिच्चाताडयत्कान्तमुदकेन शुचिस्मिता ॥
ताड्यमाना तथैवान्या कान्तेन रतिमाययौ
कान्ता तु ताडयामास जातखेदा वराङ्गना ॥
अदृश्यत वरारोहा श्वासनृत्यत्पयोधरा
कान्ताम्बुताडन भ्रष्टकेशपाशनिबन्धना ॥
श्वासाकुलमुखी भाति मधुपैरिव पद्मिनी
स्ववक्त्रसदृशैः पुष्पैः संछन्ननलिनीवने ॥
छन्ना काचिच्चिरात्प्राप्ता कान्तेनान्विष्य यत्नतः
स्नाता शीतापदेशेन काचित्प्रौढाङ्गना भृशम् ॥
रमणालिङ्गनं चक्रे मनोभिऽलषितं चिरम्
जलार्द्रं वसनं सूक्ष्ममङ्गलीनं शुचिस्मिता ॥
धारयन्ती जनं चक्रे काचित्तत्र समन्मथम्
गन्धमाल्यगुणैः काचित्कान्त्तेनाकृष्य चाम्भसि ॥
त्रुट्यत्स्रग्दामपतितं रमणं प्राहसच्चिरम्
काचिन्मग्नसखीदत्तजानुदेशनखक्षता ॥
सम्भ्रमात्कान्तरमणमग्ना सापि न्यमज्जत
काचित्पृष्ठीकृतादित्या केशनिस्तोयकारिणी ॥
शिलातलगता भर्त्रा दृष्टा कामार्तचक्षुषा
हृतमाल्यं सुललितं संक्रान्तकुचकुङ्कुमम् ॥
रतान्तक्लान्तकान्ताभमभवत्तत्सरोदकम्
सुस्नातदेवगन्धर्वदेवरामागणेन च ॥
पूज्यमानं स ददृशे देवदेवं जनार्दनम्
क्वचिच्च ददृशे राजा लतागृहगताः स्त्रियः ॥
मण्डयन्त्यः स्वगात्राणि कान्तसन्यस्तमानसाः
काचिदादर्शसुव्यग्रकरा दूतीमुखोद्गतम् ॥
शृण्वती कान्तवचनमतिक्लान्तमुखा बभौ
काचित्सत्वरिता दूत्या भूषणानां विपर्ययम् ॥
कुर्वाणा नैव बुबुधे मन्मथाविष्टचेतना
वायुनुन्नांतसुरभि कुसुमोत्करमण्डिते ॥
क्वचित्पिबन्त्यो ददृशे प्रदेशे नीलशाद्वले ॥२९।
पाययामास रमणं स्वयं काचिद्वराङ्गना ॥
काचित्पपौ वरारोहा कान्तपाणि समर्पितम्
काचित्स्वनेत्रसंक्रान्तनीलोत्पलयुतं वधूः॥
पीत्वा पप्रच्छ रमणं क्व गते ते महोत्पले
त्वयैव पीते ते नूनमित्युक्ता रमणेन सा ॥
सत्यं विदित्वा मुग्धत्वाद्बभूव व्रीडिता चिरम्
काचित्कान्तार्पितं सुभ्रूः कान्तपीतावशेषितम् ॥
सविशेषरसं पानं पपौ मन्मथवर्धनम्
आपानगोष्ठीषु तदा तासां स नरपुङ्गवः ॥
शुश्राव विविधं गीतं तन्त्रीस्वरविमिश्रितम्
प्रदोषसमये ताश्च देवदेवं जनार्दनम् ॥
राजन्सदोपनृत्यन्ति नानावाद्यपुरःसराः
याममात्रे गते रात्रौ विनिर्गत्य गुहामुखात् ॥
आयान्ति संयुताः कान्तैः स्वऋद्धिरचितान्गृहान्
नानागन्धार्चिततलान्नानागन्धसुगन्धिनः ॥
नानाविचित्रशयनान्कुसुमोत्करमण्डितान्
एवमप्सरसां पश्यन्क्रीडितानि स पर्वते ॥
तपस्तेपे महाराजः केशवार्पितमानसः
तमूचुर्नृपतिं गत्वा गन्धर्वाप्सरणां गणाः ॥
राजन्स्वर्गोपमं देशं प्राप्तस्त्वमरिमर्दन
वयं हि ते प्रदास्यामो मनसः काङ्क्षितान्वरान् ॥
तानादाय गृहं गच्छ तिष्ठेह यदि वा पुनः
पुरूरवा उवाच॥
अमोघदर्शनाः सर्वे भवन्तस्त्वमितौजसः ॥
वरं वितराद्यैव प्रसादं मधुसूदनात्
मार्कण्डेय उवाच ॥
एवमस्त्वित्यथोक्तस्तैः स तु राजा पुरूरवाः ॥
तत्रोवास सुखी मासं पूजयानो जनार्दनम्
प्रिय एव सदैवासीद्गन्धर्वाप्सरसां नृप ॥
तुतोष स जनो राज्ञस्तस्यालौल्येन कर्मणा
मघस्य मध्ये स नृपः प्रविष्टस्तदाश्रमं रत्नसहस्रचित्रम्॥
तोयाशनस्तत्र उवास मासं यावत्सितान्तं नृप फाल्गुनस्य
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसम्वादे जलक्रीडावर्णनं नाम त्रिपञ्चाशदधिकशततमोऽध्यायः
मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0